प्रदर
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रदरः, पुं, (प्र + दॄ विदारणे + “ॠदोरप् ।” ३ । ३ । ५७ । इति भावादौ यथायथं अप् ।) भङ्गः । बाणः । इत्यमरः ॥ विदारः । नारी- रुग्भेदः । इति मेदिनी ॥ * ॥ अस्य नामान्तरं असृग्दरम् । तत्तु फलितयोन्या रक्तादिधातु- क्षरणम् । अस्य निदानम् । यथा, -- “विरुद्धमद्याध्यशनादजीर्णाद् गर्भप्रपातादतिमैथुनाच्च । यानाध्वशोकादतिकर्षणाच्च भाराभिघाताच्छयनाद्दिवा च ॥ असृग्दरं भवेत् सर्व्वं साङ्गमर्द्दं सवेदनम् ॥ तस्यातिवृद्धौ दौर्ब्बल्यं श्रमो मूर्च्छा मदस्तृषा । दाहः प्रलापः पाण्डुत्वं तन्द्रा रोगाश्च वातजाः ॥” स च चतुर्व्विधो यथा, -- “तं श्लेष्मपित्तानिलसन्निपातै- श्चतुःप्रकारं प्रदरं वदन्ति ॥” श्लैष्मिकस्य तस्य लक्षणम् । “आमं सपिच्छाप्रतिमं सपाण्डु- पुलाकतोयप्रतिमं कफात्तु ॥” पैत्तिकस्य तस्य लक्षणम् । “सपीतनीलासितरक्तमुष्णं पित्तार्त्तियुक्तं भृशवेगि पित्तात् ॥” वातिकस्य तस्य लक्षणम् । “रूक्षारुणं फेनिलमल्पमल्पं वातार्त्तिवातात् पिशितोदकाभम् ॥” तस्य त्रैदोषिकस्य लक्षणम् । “सक्षौद्रसर्पिर्हरितालवर्णं मज्जप्रकाशं कुणपं त्रिदोषात् । तञ्चाप्यसाध्यं प्रवदन्ति तज्ज्ञा न तत्र कुर्व्वीत भिषक् चिकित्साम् ॥” इति माधवकरः ॥ * ॥ अस्यौषधं यथा, -- “घृततुल्या रुद्रलाक्षा पीता क्षीरेण वै सहा । प्रदरं हरते रोगं नात्र कार्य्या विचारणा ॥” इति गारुडे १९६ अध्यायः ॥ * ॥ अपि च । “दध्ना सौवर्च्चलाजाजीमधूकं नीलमुत्पलम् । पिबेत् क्षौद्रयुतं नारी वातासृग्दरशान्तये ॥ एषां प्रत्येकं माषद्वयम् । सर्व्वमेकीकृत्य दध्ना कर्षचतुष्टयेन पिष्ट्वा तत्र माषाष्टकं मधु निःक्षिप्य पेयम् ॥ * ॥ “मधुकं कर्षमेकन्तु चतुष्कर्षां सितान्तथा । तण्डुलोदकसंपिष्टां लोहिते प्रदरे पिबेत् ॥ वला कङ्कतिलाख्या या तस्या मूलन्तु चूर्णितम् । लोहिते प्रदरे खादेच्छर्करामधुसंयुतम् ॥ * ॥ शुचिस्थाने व्याघ्रनख्या मूलमुत्तरदिग्भवम् । नीतसुत्तरफल्गुन्यां कटिबद्धं हरेदसृक् ॥ * ॥ रसाञ्जनं तण्डुलकस्य मूलं क्षौद्रान्वितं तण्डुलतोयपीतम् । असृग्दरं सर्व्वभवं निहन्ति यासञ्च भार्गी सह नागरेण ॥ * ॥ अशोकवल्कलक्वाथशृतं दुग्धं सुशीतलम् । यथाबलं पिबेत् प्रातस्तीव्रासृग्दरनाशनम् ॥” अशोकवल्कलपलं द्वात्रिंशत्पलसंमितेन जलेन निष्क्वाथ्य शेषेण पलाष्टकक्वाथेन सह क्षीरं पलाष्टकमितं विपचेत् तत्तु दुग्धावशेषं कर्त्तव्यं तन्मध्ये पलचतुष्टयमितं दुग्धं पेयं वह्निबला- पेक्षया वा ॥ * ॥ “कुशमूलं समुद्धृत्य पेषयेत्तण्डुलाम्बुना । एतत् पीत्वा त्र्यहं नारी प्रदरात् परिमुच्यते ॥” इति भावप्रकाशः ॥ (तथास्य चिकित्सान्तरं यथा, -- “काकजानुकमूलं वा मूलं कार्पासमेव वा । पाण्डुप्रदरशान्त्यर्थं पिबेत्तण्डुलवारिणा ॥” “कुशमूलं समुद्धृत्य पेषयेत्तण्डुलाम्बुना । एतत् पीत्वात्र्यहान्नारी प्रदरात् परिमुच्यते ॥” “प्रदरं हन्ति वलायामूलं दुग्धेन मधुयुतं पीतम् ॥” “गुडेन वदरीचूर्णं मोचमामं तथा पयः । पीता लाक्षा च सघृता पृथक्प्रदरनाशनाः ॥” इति चक्रपाणिसंग्रहेऽसृग्दराधिकारे ॥)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रदर पुं।
भङ्गः
समानार्थक:प्रदर
3।3।165।1।1
प्रदरा भङ्गनारीरुक्बाणा अस्राः कचा अपि। अजातशृङ्गो गौः कालेऽप्यश्मश्रुर्ना च तूवरौ॥
पदार्थ-विभागः : , सामान्यम्, अवस्था
प्रदर पुं।
बाणः
समानार्थक:पृषत्क,बाण,विशिख,अजिह्मग,खग,आशुग,कलम्ब,मार्गण,शर,पत्रिन्,रोप,इषु,सायक,शिलीमुख,गो,काण्ड,वाजिन्,किंशारु,प्रदर,स्वरु,पीलु
3।3।165।1।1
प्रदरा भङ्गनारीरुक्बाणा अस्राः कचा अपि। अजातशृङ्गो गौः कालेऽप्यश्मश्रुर्ना च तूवरौ॥
अवयव : शरपक्षः,शराधारः
वृत्तिवान् : बाणधारिः
वैशिष्ट्य : बाणधारिः
: कामबाणः, सर्वलोहमयशरः, प्रक्षिप्तबाणः, विषसम्बद्धबाणः
पदार्थ-विभागः : उपकरणम्,आयुधम्
प्रदर पुं।
नारीरोगः
समानार्थक:प्रदर
3।3।165।1।1
प्रदरा भङ्गनारीरुक्बाणा अस्राः कचा अपि। अजातशृङ्गो गौः कालेऽप्यश्मश्रुर्ना च तूवरौ॥
पदार्थ-विभागः : , सामान्यम्, अवस्था
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रदर¦ पु॰ प्र + दॄ--भावादौ अप्।
१ भङ्ग दारणसाधने
२ बाणेअमरः।
३ विदारे
४ स्त्रीणां योनिरोगभेदे मेदि॰ तन्नि-दानकर्म च भृगुभारतोक्तं कर्मविंपाकशब्दे
१७
६९ पृ॰दर्शितम्। स च असृग्दराख्यः स्त्रीणां योनिरोगभेदः। तल्लक्षणादि माधवनिदाने उक्तं यथा(
“विरुद्धमद्याध्यशनादजी{??}द्गर्भप्रपातादतिमैथुनाच्च। व्यानाध्वशोकादति{??}षणाच्च भाराभिधाताच्छयनाद्दिवा च। असृग्दरं भवेत् सर्वं साङ्गमर्द्दं सवेदनम्। तस्याति-वृद्धौ दौर्बल्यं श्रमो मूर्च्छा मदस्तृषा। दाहः प्रलापःयाण्डुत्वं तन्द्रा रोगाश्च वातजाः”। स च चतुर्विधोयथा
“तं श्लोष्मपित्तानिलसन्निपातैश्चतुःप्रकारं प्रवदन्तिवैद्याः। आमं सपिच्छापतिमं सपाण्डु पुलाकतोयप्रतिमंकफात्तु। सपीतनीलासितरक्तमुष्णं पित्तार्त्तियुक्तंभृशवेगि पित्तात्। रूक्षारुणं फेनिलमल्पमल्पं वाता-र्त्ति वातात् षिशितोदकाभम्। सक्षौद्रसर्पिर्हरिताल-वर्णं लाजप्रकाशं कुणपं त्रिदोवात्। तच्चाप्यसाध्यं प्रव-दन्ति तज्ज्ञा न तत्र कुर्वीत भिषक् चिकित्साभ्”।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रदर¦ m. (-रः)
1. Splitting, rending, tearing.
2. Fracturation, breaking.
3. The dispersion of an army.
4. A disease of women, (Mænorr- hagia.)
5. An arrow. E. प्र intensitive, दृ to tear, aff. अप् |
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रदरः [pradarḥ], 1 Rending, tearing.
(a.) A fracture, crack, cleft, crevice, chasm; इत्युक्त्वा लक्ष्मणं रामः प्रदरः खन्यतामिति Rām.3.4.12; सीमानः प्रदरोदरेषु विरलस्वच्छाम्भसः U.2.16. (b) Breach, hole.
The dispersion of an army; न सन्निपाते प्रदरं वधं वा कुर्युरीदृशाः Mb.12.1.34.
An arrow; त्रीण्येव च प्रदराणां स्म पार्थ Mb.8.76.16.
A kind of disease of women.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रदर/ प्र-दर See. प्र-दॄ.
प्रदर/ प्र- m. dispersion , rout (of an army) MBh.
प्रदर/ प्र- m. a crevice , cleft (in the earth) VS. Br. etc.
प्रदर/ प्र- m. menorrhagia (a disease of women) Car.
प्रदर/ प्र- m. a kind of arrow MBh.
प्रदर/ प्र- m. rending , tearing W.
प्रदर/ प्र- m. pl. N. of a people MBh.
Purana Encyclopedia
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Pradara : m. (pl.): Name of a people.
They lived in the region between the mountains Meru and Mandara along the river Śailodā and enjoyed the pleasing shade of the bamboos and reeds; their kings (nṛpāḥ) brought Pipīlaka variety of gold, given as boon by ants, in heaps to be measured by droṇa as tribute for the Rājasūya; they also brought much other tribute but were stopped at the gate 2. 48. 2-7; (for details and citations see Ekāśanājyoha ).
_______________________________
*1st word in right half of page p790_mci (+offset) in original book.
Mahabharata Cultural Index