प्रदोषः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदोषः, पुं, (दोषा रात्रिः । प्रारम्भो दोषाया इति प्रादिसमासः । प्रक्रान्ता दोषा रात्रि- रत्रेति वा ।) रजनीमुखम् । इत्यमरः । १ । ४ । ६ ॥ तत्तु रात्रेः प्रथमदण्डचतुष्टयम् । यथा, -- “प्रदोषोऽस्तमयादूर्द्धं घटिकाद्बयमिष्यते ॥” इति तिथ्यादितत्त्वम् ॥ (यथा, कुमारे । ५ । ४४ । “वद प्रदोषे स्फुटचन्द्रतारका विभावरी यद्यरुणाय कल्पते ॥”) दोषः । इति हेमचन्द्रः ॥ (प्रकृष्टो दोषो यस्येति । दुष्टे, त्रि । यथा, माघे । २ । ९८ । “ये चान्ये कालयवनशाल्वरुक्मिद्रुमादयः । तमःस्वभावास्तेऽप्येनं प्रदोषमनुयायिनः ॥” “ये चान्ये कालयवनशाल्वरुक्मिद्रुमादयो राजानस्तमःस्वभावाः तमोगुणात्मकाः अतएव तेऽपि प्रदोषं प्रकृष्टदोषम् । प्रदोषो दुष्टरात्रांशा विति वैजयन्ती । तामसमेवैनं चैद्यमनुयायिनः अनुयास्यन्ति सादृश्यादिति भावः ॥” इति तट्टीकायां मल्लिनाथः ॥)

"https://sa.wiktionary.org/w/index.php?title=प्रदोषः&oldid=151169" इत्यस्माद् प्रतिप्राप्तम्