प्रभञ्जनः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभञ्जनः, पुं, (प्रकर्षेण भनक्ति वृक्षादीनिति । प्र + भन्ज् + युच् ।) वायुः । इत्यमरः । १ । १ । ६६ ॥ (यथा, महाभारते । ७ । १५४ । ७८ । “घटोत्कचसुतः श्रीमान् भिन्नाञ्जनचयोपमः । रुरोध द्रौणिमायान्तं प्रभञ्जनमिवाद्रिराट् ॥” मणिपुराधिपतिराजविशेषः । यथा, महा- भारते । १ । २१७ । १९ । “राजा प्रभञ्जनो नाम कुलेऽस्मिन् सम्बभूव ह । अपुत्त्रः प्रसवेनार्थी तपस्तेपे स उत्तमम् ॥”) भञ्जनकर्त्तरि, त्रि ॥ (यथा, हरिवंशे । २४५ । १३ । “प्रभञ्जनो यो लोकानां युगान्ते सर्व्वनाशनः ॥” यथा च महाभारते । १ । १२३ । १२ । “सा सलज्जा विहस्याह पुत्त्रं देहि सुरोत्तम ! । बलवन्तं महाकायं सर्व्वदर्पप्रभञ्जनम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=प्रभञ्जनः&oldid=151261" इत्यस्माद् प्रतिप्राप्तम्