प्रभात
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]प्रभातम्, क्ली,
- प्रकर्षेण भातुं प्रवृत्तमिति । प्र + भा + आदिकर्म्मणि क्तः । यद्वा, प्रकृष्टं भातं दीप्तिरत्रेति ।
- प्रातःकालः । तत्पर्य्यायः ।
प्रत्यूषः २ अहर्मुखम् ३ कल्यम् ४ उषः ५ प्रत्युषः ६ । इत्यमरः । १ । ४ । ३ ॥ दिनादिः ७ निशान्तम् ८ व्युष्टम् ९ प्रगे १० प्राह्णम् ११ । इति राजनिर्घण्टः ॥ गोसः १२ गोसङ्गः १३ ऊषः १४ ऊषकम् १५ उषा १६ ऊषा १७ विभातम् १८ । इति शब्दरत्नावली ॥
- ॥ (यथा, -- “प्रभाते यः स्मरेन्नित्यं दुर्गा दुर्गाक्षरद्वयम् । आपदस्तस्य नश्यन्ति तमः सूर्य्योदये यथा ॥” इति धर्म्मशास्त्रम् ॥)
- तत्र दर्शनीया यथा, -- “वैद्यः पुरोहितो मन्त्री दैवज्ञोऽथ चतुर्थकः । प्रभातकाले द्रष्टव्यो नित्यं स्वश्रियमिच्छता ॥” इति राजवल्लभः ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रभात नपुं।
प्रत्यूषः
समानार्थक:प्रत्यूष,अहर्मुख,कल्य,उषस्,प्रत्युषस्,व्युष्ट,विभात,गोसर्ग,प्रभात,उषा
1।4।3।1।1
प्रभातं च दिनान्ते तु सायं सन्ध्या पितृप्रसूः। प्राह्णापराह्णमध्याह्नास्त्रिसन्ध्यमथ शर्वरी॥
पदार्थ-विभागः : , द्रव्यम्, कालः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रभात¦ न॰ प्र + भा--भावे क्त प्रकृष्टं मातमत्र वा।
१ प्रातःकालेअमरः। प्र + भा कर्त्तरि॰ क्त।
२ प्रभायुक्ते त्रि॰
३ वसुभेदेपु॰। प्रभास इत्यत्र प्रभात इति मिता॰ पाठः। धरशब्दे
३८
४७ पृ॰ दृश्यम्। प्रभातकाले दृश्या उक्ता राजवल्लभेन
“वैद्यः पुरोहितो मन्त्री दैवज्ञीऽथ चतुर्थकः। प्रभात-काले द्रष्टव्यो नित्यं स्वश्रियमिच्छता” छन्दोगपरि॰ तत्रदृश्यादृश्यानाह यथा
“श्रोत्रियं सुभगामग्निं गाञ्चै-वाग्निचितन्तथा। प्रातरुत्थाय यः पश्येदापद्भ्यः सविमुच्यते। पापिष्ठं दुर्भगां मद्यं नग्नमुत्कृत्तनासिकम्। प्रात{??}त्थाय यः पश्येत्तत् कलेरुपलक्षणम्”। [Page4474-b+ 38] प्रभातकाले स्मरणीयाः काशीखण्डे
३५ अ॰ दर्शिता यथा
“स्वहितं चिन्तयेत् प्राज्ञस्तस्मिंश्चोत्थाय सर्वदा। नजास्यंसंस्मरेदादौ तत ईशं सहाम्बया। श्रीकान्तं श्रीसमेतंतु ब्रह्माण्या कमलोद्भवम्। इन्द्रादीन् सकलान्देवान्वशिष्ठादीन् मुनीनपि। गङ्गाद्या सरितः सर्वाः श्री-शैलाद्याखिलान् गिरीन्। क्षीरोदादीन् समुद्रांश्च मा-नसादिसरांसि च। वनानि नन्दनादीनि धेनूः काम-दुघादिकाः। कल्पवृक्षादिवृक्षांश्च धातून् काञ्चनमुख्यतः। दिव्यस्त्रीरुवंशीमुख्या गरुडादीन् पतत्त्रिणः। नागांश्चशेषप्रमुखान् गजानैरावतादिकान्। अश्वानुच्चैःश्रवोमुख्यान् कौस्तुभादीन् मणीन् शुभान्। स्मरेदरुन्धतीमुख्याः पतिव्रतवतीर्बधूः। नैमिषादीन्यरण्यानि पुरीःकाशीपुरीमुखाः। विश्वेशादीनि लिङ्गानि वेदानृक्-प्रमुखानपि। गायत्रीपमुखान् मन्त्रान् योगिनः स-नकादिकान्। प्रणयादिमहाबीजं नारदादींश्च वैष्ण-वान्। शिवभक्तांश्च वाणादीन् प्रह्लादादीन् दृढव्रतान्। वदान्यांश्च दधीच्यादीन् हरिश्चन्द्रादिभूपतीन्। जननीचरणौ स्मृत्वा सर्वतीर्थात्तमोत्तमौ। पितरं च गुरु-ञ्चापि हृदि ध्यत्वा प्रसन्नधीः। ततश्चावश्यकं कर्तुं नैरृतंदिशमाश्रयेत्”।
“प्रभातायां तु शर्वर्य्याम्” भार॰ नानास्थाने।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रभात¦ n. (-तं) Morning, dawn, daybreak. f. (-ता) Begun to become light. E. प्र before, भा to shine, aff. क्त | [Page490-b+ 60]
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रभात [prabhāta], p. p. Begun to become clear or light; प्रभातायां रजन्यां वै इदं युद्धं भविष्यति Mb.5.168.43. -तम् Daybreak, dawn; अक्ष्णोः प्रभातमासीत् Ś.2; प्रभाते स्नातीनां नृपतिरमणीनां कुचतटे G. L. -Comp. -करणीयम् a morning rite or ceremony. -कल्प, -प्राय approaching dawn (as night). -कालः the time of day break; वैद्यः पुरोहितो मन्त्री दैवज्ञो$थ चतुर्थकः । प्रभातकाले द्रष्टव्यो नित्यं स्वश्रियमिच्छता ॥ Rājavallabha.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रभात mfn. shone forth , begun to become clear or light MBh. Ka1v. etc.
प्रभात m. N. of a son of the sun and प्रभाVP.
प्रभात n. daybreak , dawn , morning Gaut. MBh. etc.
Purana Encyclopedia
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
PRABHĀTA : See under Sṛṣṭi.
_______________________________
*1st word in right half of page 592 (+offset) in original book.