प्रभातम्

विकिशब्दकोशः तः

==सम्स्कृतम्==

सूर्यॊदय समय:

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रभातम्, क्ली, (प्रकर्षेण भातुं प्रवृत्तमिति । प्र + भा + आदिकर्म्मणि क्तः । यद्वा, प्रकृष्टं भातं दीप्तिरत्रेति ।) प्रातःकालः । तत्पर्य्यायः । प्रत्यूषः २ अहर्मुखम् ३ कल्यम् ४ उषः ५ प्रत्युषः ६ । इत्यमरः । १ । ४ । ३ ॥ दिनादिः ७ निशान्तम् ८ व्युष्टम् ९ प्रगे १० प्राह्णम् ११ । इति राजनिर्घण्टः ॥ गोसः १२ गोसङ्गः १३ ऊषः १४ ऊषकम् १५ उषा १६ ऊषा १७ विभातम् १८ । इति शब्दरत्नावली ॥ * ॥ (यथा, -- “प्रभाते यः स्मरेन्नित्यं दुर्गा दुर्गाक्षरद्वयम् । आपदस्तस्य नश्यन्ति तमः सूर्य्योदये यथा ॥” इति धर्म्मशास्त्रम् ॥) तत्र दर्शनीया यथा, -- “वैद्यः पुरोहितो मन्त्री दैवज्ञोऽथ चतुर्थकः । प्रभातकाले द्रष्टव्यो नित्यं स्वश्रियमिच्छता ॥” इति राजवल्लभः ॥

"https://sa.wiktionary.org/w/index.php?title=प्रभातम्&oldid=460952" इत्यस्माद् प्रतिप्राप्तम्