प्रमा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमा, स्त्री, (प्रमीयते इति । प्र + माङ् माने + “आतश्चोपसर्गे ।” ३ । ३ । १०६ । इति अङ् । टाप् ।) यथार्थज्ञानम् । तत्पर्य्यायः । प्रमितिः २ । इत्यमरः । ३ । २ । १० ॥ प्रमा- णम् ३ । इति शब्दरत्नावली ॥ (यथा, प्रबोध- चन्द्रोदये । २ य अङ्के । “प्रत्यक्षादिप्रमासिद्धविरुद्धार्थाभिधायिनः । वेदान्ता यदि शास्त्राणि वौद्धैः किमपराध्यते ॥” यथा च ऋग्वेदे । १० । १३० । ३ । “कासीत्प्रमा प्रतिमा किम् ॥” “यज्ञस्य प्रमा प्रमाणमियत्ता का कथम्भूतासीत् ।” इति तद्भाष्ये सायनः ॥) न्यायमते तद्वति तत्प्रकारकज्ञानम् । भ्रमभिन्नज्ञानम् । अस्याः कारणं गुणः । स च प्रत्यक्षे विशेष्ये विशे- षणस्य सम्बन्धः । अनुमितौ साध्यविशिष्टपक्षे परामर्शः । शाब्दबोधे योग्यतायाः तात्पर्य्यस्य वा यथार्थज्ञानम् । उपमितौ शक्ये सादृश्य- बुद्धिः । यथा, -- “दोषोऽप्रमाया जनकः प्रमायास्तु गुणो भवेत् । पित्तदूरत्वादिरूपो दोषो नानाविधः स्मृतः ॥ प्रत्यक्षे तु विशेष्येण विशेषणवता समम् । सन्निकर्षो गुणस्तु स्यादथ त्वनुमितौ पुनः ॥ पक्षे साध्यविशिष्टे च परामर्शो गुणो भवेत् । शक्ये सादृश्यबुद्धिस्तु भवेदुपमितौ गुणः । शाब्दवोधे योग्यतायास्तात्पर्य्यस्याथ वा प्रमा ॥ गुणः स्याद्भ्रमभिन्नन्तु ज्ञानमत्रोच्यते प्रमा । अथवा तत्प्रकारं यत् ज्ञानं तद्बद्विशेष्यकम् ॥” इति भाषापरिच्छेदे । १३१-१३५ ॥ (“दोषः इति । अप्रमां प्रति दोषः कारणं प्रमां प्रति गुणः कारणं तत्रापि पित्तादिरूपा दोषा अननुगताः तेषां कारणत्वम् अन्वयव्यतिरेका- भ्यामेव सिद्धम् । गुणस्य प्रमाजनकत्वन्तु अनु- मानात् सिद्धम् । यथा प्रमाज्ञानसाधारण- कारणभिन्नकारणजन्याजन्यज्ञानत्वात् अप्र- मावत् । न च दोषाभाव एव कारणमस्त्विति वाच्यम् । पीतः शङ्ख इति ज्ञानस्थले पित्तदोष- सत्त्वात् शङ्खप्रमानुत्पत्तिप्रसङ्गात् विनिगमना- विरहात् अनन्तदोषाभावस्य कारणत्वमपेक्ष्य गुणकारणताया न्याय्यत्वात् । न च गुणसत्त्वेऽपि पित्तप्रतिबन्धात् शङ्खे न सैत्यज्ञानमतः पित्तादि- दोषाभावानां कारणत्वमवश्यं वाच्यं तथा च किं गुणस्य हेतुत्वकल्पनयेति वाच्यं तथाप्यन्वयव्यति- रेकाभ्यां गुणस्यापि हेतुत्वसिद्धेः । एवं भ्रमं प्रति गुणाभावः कारणमित्यस्यापि सुवचत्वाच्च । तत्र दोषाः के इत्याकाङ्क्षायामाह पित्तेति । क्वचित् पीत्तादिभ्रमे पित्तं दोषः क्वचित् चन्द्रादेः स्वल्प- परिमाणभ्रमे दूरत्वं दोषः । क्वचिच्च वंशोरग- भ्रभे मण्डूकवसाञ्जनमित्येवं दोषा भ्रान्तिजनका इत्यर्थः । अथ के गुणा इत्याकाङ्क्षायां प्रत्य- क्षादौ क्रमशो गुणान् दर्शयति प्रत्यक्षेत्विति । प्रत्यक्षे विशेषणवत् विशेष्यसन्निकर्षो गुणः अनु- मितौ साध्यवति साध्यव्याप्यवैशिष्ट्यज्ञानं गुण इति एवमग्रेऽप्यूह्यः । प्रमां निरूपमति भ्रम- भिन्नमिति । ननु यत्र शुक्तिरजतयोरिमे रजते इति ज्ञानं जातं तत्र रजतांशेऽपि प्रमा न स्यात् तज्ज्ञानस्य भ्रमभिन्नत्वाभावात् अत आह अथवेति । तद्वद्विशेष्यकं तत्प्रकारकं ज्ञानं प्रमा इत्यर्थः । इदन्तु बोध्यम् । येन सम्बन्धेन तद्बत्ता तेन सम्बन्धेन तद्बद्बिशेष्यकं तेन सम्बन्धेन प्रकारकत्वं वाच्यम् । तेन कपालादौ संयोगा- दिना घटादिज्ञाने नातिव्याप्तिः ॥” * ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमा स्त्री।

प्रमाज्ञानम्

समानार्थक:प्रमिति,प्रमा

3।2।10।1।6

विधा समृद्धौ स्फुरणे स्फुरणा प्रमितौ प्रमा। प्रसूतिः प्रसवे श्च्योते प्राधारः क्लमथः क्लमे॥

पदार्थ-विभागः : , गुणः, बुद्धिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमा¦ स्त्री प्र + मा--भावे अङ्।

१ यथार्थज्ञाने भ्रमभिन्नेज्ञाने तल्लक्षणं तदुत्पत्तौ गुणाश्च भाषा॰ उक्ता यथा(
“दोषोऽप्रमाया जनकः प्रमायास्तु गुणो भवेत्। प्रत्यक्षे तु विशेष्येण विशेषणवता समम्। सन्निकर्षोगुणस्तु स्यादथ ह्यनुमितौ पुनः। पक्षे साध्यविशिष्टेच परामर्शो गुणो भवेत्। शाब्दबोधे योग्यतायास्तात्-पर्य्यस्याथ वा प्रमा। गुणः स्याद्भ्रमभिन्नस्तु ज्ञानम-त्रोच्यते प्रमा। अथ वा तत्प्रकारं यत् ज्ञानं तद्वद्विशे-ष्यकम्” भाषा॰। दोषशब्दे

३७

६६ पृ॰ भ्रमकारणं दृश्यम्तथा च तद्वति तत्प्रकारकज्ञानत्वं प्रमात्वं प्रामाण्या-परपर्य्यायम् तच्च मतभेदेन स्वतोग्राह्यं परतोग्राह्यञ्चतच्च परतोग्राह्यशब्दे

४२

३४ पृ॰ उक्तम्। तस्य विस्तर-स्त्वत्रोच्यते। तत्र न्यायमते
“प्रमात्वं न स्वतोग्राह्यंसंशयानुपपत्तितः” भाषा॰ व्याकृतञ्च सि॰ मु॰ यथा
“मीमांसका हि प्रमात्वं स्वतोग्राह्यमिति वदन्ति। तत्रगुरूणां मते ज्ञानस्य स्वप्रकाशरूपत्वात् तज्ज्ञानप्रा-माण्यं तेनैव गृह्यते इति। भट्टनां मते तु ज्ञानसती-न्द्रियम्। ज्ञानजन्या ज्ञातता प्रत्यक्षा। तया च ज्ञान-मनुमीयते। सुरारिमिश्राणां मतेऽनुव्यवसायेन ज्ञानंनृह्यते। सर्वेषामपि मते तज्ज्ञानविषयकज्ञानेन तज्ज्ञा-नप्रामाण्यं गृह्यते। विषयनिरूप्यं हिं ज्ञानम्। अतोज्ञानवित्तिवेद्यो विषयः। तन्मतं दूषयति। न स्वतो-जाह्यमिति। संशयेति। यदि ज्ञानपामाण्यं स्वतोग्राह्यंस्यात् तदाभ्यासदशोत्पन्नज्ञाने तत्संशयो न स्योत्। तत्रहि यदि ज्ञानं ज्ञातं तदा प्रामाण्यं ज्ञातमेवेति कथंसंशयः। यदि तु ज्ञानं न ज्ञातं तदा धर्मिज्ञानाभावात्कथं संशयः। तस्माजज्ञानप्रामाण्यमनुमेयम्। तथा हिइद ज्ञान प्रमा संवादिप्रवृत्तिजनकत्वात् यन्नैवं तन्नैवंयथाऽप्रमा। इदं पृथिवीत्वप्रकारकं ज्ञानः प्रमा गन्ध-वति पृथिवीत्वप्रकारकज्ञानत्वात्। एवम् इदं जलज्ञानंप्रमा स्नेहवति जलत्वप्रकारकज्ञानत्वात्। न च हतु-ज्ञानं स्वषं जातमिति वाच्छम्। पृथियीत्वप्रकारकत्वस्व[Page4477-b+ 38] स्वतोग्राह्यत्वात् तत्र गन्धवद्विशेष्यकत्वस्यापि सुग्रह-त्वात्। तत्प्रकारकत्वावच्छिन्नतद्वद्विशेष्यकत्वं परं नगृह्यते संशयानुरोधात्। न च प्रमात्वस्य साध्यस्यप्रसिद्धिः कथमिति वाच्यम् इदंज्ञानप्रमात्वस्य स्वतो-ग्राह्यत्वात्। न च प्रकारभेदेन प्रामाण्यभेदात् धटत्व-वति घटत्वप्रकारादेः कथं प्रसिद्धिरिति वाच्यम् घटत्वप्र-कारकत्वस्य स्वविशेष्यकत्वस्य च स्वतोग्राह्यत्वात्। घटस्यच पूर्वमुपस्थितत्वाद् घटविशैष्यकं घटत्वप्रकारकमितिज्ञाने प्रामाण्यस्य बाधकाभावः। व्यवसायपरन्तु प्रा-माण्यं न गृह्यते। तत्र संशयसामग्रीसत्त्वे संशयस्यै-वोपपत्तेः। किञ्चाभ्यासदशायां तृतोयानुव्यवसायादिनाप्रामाण्यस्य स्वत एव ग्रहसम्भवात् प्रथमानुव्यवसायपरंन तद्ग्राहकत्वमिति कल्प्यते संशयामुरोधात्। अथप्रामाण्यानुमितौ प्रामाण्यग्रहे न तस्य विषयनिश्चय-रूपत्वार्थं तत्र प्रामाण्यग्रहो वाच्यः सोऽप्यनुमित्यन्तरे-णेति फलमुखी कारणमुखी वा नानवस्थेति चेन्न अ-गृहीतप्रामाण्यग्रहकस्यैव निश्चयरूपत्वात्। यत्र चप्रामाण्यसंशयस्तत्रैव परं प्रामाण्यानुमितेरपेक्षया याव-दाशङ्कं प्रामाण्यानुमितिरिष्यत एव सर्वत्र तु न संशयःक्वचित् कोट्यनुपस्थितेः क्वचिद्विशेषदर्शनादितः क्वचिद्वि-षयान्तरसञ्चारादिति सङ्क्षेपः। ननु सर्बेषां ज्ञानानांयथार्थत्वात् प्रमालक्षणे तद्विशेष्यकत्वं विशेषणं व्यर्थम्। न च रङ्गे रजतार्थिनः प्रवृत्तिर्भ्रमजन्था न स्वात् तवमते भ्रमस्याभावादिति वाच्यम्। तत्र हि दोषाधी-नस्य पुरोवर्त्तिनि स्वतन्त्रोपस्थितरजतभेदाग्रहस्य हेतु-त्वात्। सत्यरजतस्थल तु विशिष्टज्ञानस्य सत्त्वात् तदेवकारणम्। अस्तु वा तत्रापि भेदाग्रह एव कारणमिति। न चाऽन्यथाख्यातिः सम्भवति रजतप्रत्यक्षकारणस्यरजतसन्निवर्षस्याभावात् रङ्गे रजतबुद्धेरनुपपत्तेरितिचेन्न सत्यरजतस्थले प्रवृत्तिं प्रति विशिष्टज्ञानस्य हेतु-तायाः कॢप्तत्वात् अन्यत्रपि तत्ककल्पनात्। न च र्स-वादिप्रवृत्तौ तु भेदाग्रहः कारणमिति वाच्यम् लाघबात्प्रवृत्तिमात्रे तस्य हेतुत्वकल्पनात्। इत्थञ्च रङ्गे रजत-त्वविशिष्टबुद्ध्यनुरोधेन ज्ञानलक्षणाप्रत्यासत्तिकल्पनेऽपि नक्षतिः। फलमुखर्गारवस्यादोषत्वात्। किञ्च यद् रङ्गर-जतयोरिमे रजते इति ज्ञानं जातं न कारणबोधोऽपि। अपि च यत्र रङ्गरजतयोरिमे रजतरङ्गे इति ज्ञानंतत्रोभयत्र सुगपत्प्रवृत्तिनिवृत्ती स्वाताम्। रङ्गे रङ्ग[Page4478-a+ 38] भेदग्रहे रजते रजतभेदग्रहेऽन्यथाख्यातिभयात्। त्वन्मतेरङ्गे रङ्गभेदाग्रहस्य रजते रजतभेदाग्रहस्य च सत्त्वात्किञ्चानुमितिं प्रति भेदाग्रहस्य हेतुत्वे जलह्रदे वह्नि-व्याप्यधूमवदभेदाग्रहाद् अनुमितिर्निर्बाधा। यदि चविशिष्टज्ञानं कारणं तदाऽयोगोलके वह्निव्याप्यधूमज्ञान-मनुमित्यनुरोधादापतितम। इत्थम् अन्यथाख्यातौ प्रत्य-क्षमेव प्रमाणम्। रङ्गं रजततया जानामीत्यनुभवा-दिति सङ्क्षेपः”। वेदान्तिमते तस्य स्वतोग्राह्यता वेदान्तपरिभाषायां व्यवस्था-पिता यथा
“एवसुक्तानां प्रमाणानां प्रामाण्यं स्वतएवउत्पद्यते ज्ञायते च तथा हि स्मृत्यनुभवसाधारणं संवा-दादिप्रवृत्त्यनुकूलं तद्वति तत्प्रकारकज्ञानत्वं प्रामाण्यंतच्च ज्ञानसामान्यसामग्रीप्रयोज्यं न त्वधिकं गुणमपेक्षतेप्रमामात्रेऽनुगतगुणाभावात्। नापि प्रत्यक्षप्रमायां भू-योऽवयवेन्द्रियसन्निकर्षः, रूपादिप्रत्यक्षे आत्मप्रत्यक्षे चतदभावात् सत्यपि तस्मिन् पीतः शङ्ख इति प्रत्यक्षस्यभ्रमत्वाच्च। अतएव न सल्लिङपरमर्शादिकमपि अनुमि-त्यादिप्रमायां गुणः असल्लिङ्गपरामर्शादिस्थलेऽपि विषया-बाधेनानुमित्यादेः प्रमात्वात्। न चैवमप्रमापि प्रमा स्यात्ज्ञानसामान्यसामग्र्यविशेषादितिवाच्यं दोषाभावस्यापिहेतुत्वाङ्गीकारात्। न चैवं परतस्त्वम्
“आगन्तुकभावका-रणापेक्षायामेव परतस्त्वात्” ज्ञायते च प्रामाण्यं स्वतः,स्वतोग्राह्यत्वञ्च दोषाभावे सति यावत्स्वाश्रयग्राहकसा-मग्रीग्राह्यत्वम्। स्वाश्रयो वृत्तिज्ञानं तद्ग्राहक सा-क्षिज्ञानं तेनापि वृत्तिज्ञाने गृह्यमाणे तद्गतं प्रामाण्य-मपि गृह्यते। न चैव प्रामाण्यसंशयानुपपत्तिः तत्रसशयानुरोधेन दोषस्यापि सत्त्वेन दीषाभावघटितस्वा-श्रयग्राहकाभावेन तत्र प्रामाण्यस्यैवाग्रहात्। यद्वायावत्स्वाश्रयग्राहकग्राह्ययोग्यत्वं स्वतस्त्वं संशयस्थलेप्रामाण्यस्योक्तयोग्यतासत्त्वेऽपि दोषवशेनाग्रहात् नसंशयानुपपत्तिः। अप्रामाण्यन्तु न ज्ञानसामान्यसामग्रीप्रयोज्यं प्रमायामप्यप्रमाण्यापत्तेः किन्तु दोषप्रयोज्यंनाप्यप्रामाण्यं यावत्स्वाश्रयग्राहकग्राह्यम् अप्रामाण्य-घटकतदभाववत्त्वादेर्वृत्तिज्ञानानुपनातत्वेन साक्षिणाग्रहीतुमशक्यत्वात् किन्त विसंवादिप्रवृत्त्यादिलिङ्गकानु-मित्यादिविषय इति परत एवाप्रामाण्यमुत्पद्यते ज्ञायतेचेति”। अधिकं प्रमाणशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमा¦ f. (-मा)
1. True knowledge, or knowledge exempt from all error, (in logic.)
2. Consciousness, perception. E. प्र before, मा to mete or measure, affs. अङ् and टाप्; that by which every object is measured or estimated.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमा [pramā], 2 P., 3 Ā.

To measure; त्रीणि पदानि प्रमाय.

To form, make, build.

To prove, establish, demonstrate.

To arrange, place in order.

To know, understand, get a correct idea of; न परोपहितं न च स्वतः प्रमिमीते$नुभवादृते$ल्पधीः Śi.16.4; अशक्यो$यमर्थः प्रमातुम् H. 3.

To conjecture. -Caus. To afford or give proof.

प्रमा [pramā], 1 Consciousness, perception.

(In logic) Correct notion or apprehension, true and certain knowledge, accurate conception; तद्वति तत्प्रकारको$नुभवः प्रमा यथा रजते इदं रजतमिति ज्ञानम् T. S; दोषो$प्रमाया जनकः प्रमायास्तु गुणो भवेत् । प्रत्यक्षे तु विशेष्येण विशेषेणवता समम् ॥ Bhāṣā P.

Ved. Basis, foundation.

A measure.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमा/ प्र- A1. -मिमीते(Ved. inf. प्र-मे; Pass. -मीयते) , to measure , mete out , estimate AV. S3rS. MBh. ; to form , create , make ready , arrange RV. MBh. ; to form a correct notion of( acc. ) , understand , know MaitrUp. Hariv. Hit. : Caus. -मापयति, to cause correct knowledge , afford proof or authority MW. 1.

प्रमा/ प्र-मा f. basis , foundation AV.

प्रमा/ प्र-मा f. measure , scale RV.

प्रमा/ प्र-मा f. right measure , true knowledge , correct notion Prab. Kap. Tarkas. IW. 59 etc.

प्रमा/ प्र-मा f. a kind of metre RPra1t.

"https://sa.wiktionary.org/w/index.php?title=प्रमा&oldid=502387" इत्यस्माद् प्रतिप्राप्तम्