प्रमाण

Wiktionary तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमाणम्, क्ली, (प्रमीयते विश्वमनेनेति । प्र + मा + ल्युट् ।) विष्णुः । यथा, -- “प्रमाणं प्राणनिलयः प्राणभृत् प्राणजीवनः ॥” इति महाभारते शान्तिशर्व्वणि दानधर्म्मः ॥ नित्यम् । मर्य्यादा । शास्त्रम् । (यथा, -- “आप्ता ह्यवितर्कस्मृतिविभागविदो निष्प्री- त्युपतापदर्शिनश्च । तेषामेवङ्गुणयोगात् यद्व- चनं तत् प्रमाणम् । अप्रमाणं पुनर्मर्त्तोन्मत्त- मूर्खरक्तदुष्टादुष्टवचनमिति ।” इति चरके विमानस्थाने चतुर्थेऽध्याये ॥) सत्यवादी । (प्र + मा + भावे ल्युट् ।) इत्यत्ता । हेतुः । (प्रमिणोतीति । प्र + मा + कर्त्तरि ल्युः ।) प्रमाता । इति मेदिनी । णे, ६१ ॥ प्रमा । इति शब्दरत्नावली ॥ नित्यक्लीवैकत्ववानयं शब्दः । यथा वेदाः प्रमाणं स्मृतयः प्रमाण- मित्यादि ॥ प्रमायाः करणम् । न्याये तु प्रत्यक्षा- नुमानोपमानशब्दाः प्रमाणानि । इत्यत्र बहु- वचनान्तोऽपि ॥ (यथा, मनौ । २ । १३ । “अर्थकामेष्वसक्तानां धर्म्मज्ञानं विधीयते । धर्म्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः ॥” वेदान्तसारे च । “वेदान्तो नाम उपतिषत् प्रमाणं तदुपकारीणि शारीरिकसूत्रादीनि च ॥” “उपनिषच्छब्दो ब्रह्मात्मैक्यसाक्षात्कारविषयः । सैव उपनिषत् प्रमाणं तस्याः प्रमारूपायाः करणभूता ।” इति विद्वन्मनोरञ्जनीटीका ॥)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमाण नपुं।

इयत्ता

समानार्थक:प्रमाण

3।3।54।1।1

प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु। करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि॥

पदार्थ-विभागः : , गुणः, परिमाणः

प्रमाण नपुं।

कारणम्

समानार्थक:हेतु,कारण,बीज,प्रमाण,निमित्त,प्रत्यय,इति,हि,यत्_तत्,यतः_ततः

3।3।54।1।1

प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु। करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि॥

 : मुख्यकारणम्

पदार्थ-विभागः : कारणम्

प्रमाण नपुं।

मर्यादा

समानार्थक:संस्था,मर्यादा,धारणा,स्थिति,काष्ठा,प्रमाण,सन्धा,वेला

3।3।54।1।1

प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु। करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

प्रमाण नपुं।

प्रमाता

समानार्थक:प्रमाण

3।3।54।1।1

प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु। करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

प्रमाण नपुं।

शास्त्रम्

समानार्थक:प्रमाण,दृष्टान्त,श्रुत,ग्रन्थ

3।3।54।1।1

प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु। करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि॥

वृत्तिवान् : शस्त्रघर्षणोपजीविः

 : तर्कशास्त्रम्, अर्थशास्त्रम्, धर्मशास्त्रम्, विधानशास्त्रम्

पदार्थ-विभागः : , पौरुषेयः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमाण¦ न॰ प्र + मा--भावे कैरणे वा ल्युट्।

१ प्रमारूपज्ञाने[Page4478-b+ 38]

२ विष्णौ
“प्रमाणं प्राणनिलयः” विष्णुस॰। प्रमार्ण
“प्रज्ञानं ब्रह्मेति” श्रुतेस्तस्य ज्ञानरूपत्वात् तथात्वम्
“प्र-माणं बीजमव्ययम्” विष्णु स॰ प्रत्यक्षादिप्रमाणरूपत्त्वात्तस्यतथात्वं व्यत्पत्तिद्वययोगात् नामद्वयम्।

३ सत्यवादनि

४ इयत्तायां परिच्छेदे

५ हेतौ

६ प्रमातरि च मेदि॰।

७ प्रमितिकरणे चक्षरादौ
“यस्येप्साजिहासाप्रयुक्तस्यप्रवृत्तिः स प्रमाता स येनार्थं प्रमिणोति तत्प्रमाणम्” वात्स्या॰
“तच्च साधनाश्रयव्यतिरिक्तत्वे सति प्रमाव्याप्तंप्रमाणमिति” सर्वद॰ अक्षपाददर्शने।
“तद्वति तत्प्रकार-कत्वरूपप्रकर्षविशिष्टज्ञानकरणत्वम्” गौ॰ वृ॰।
“अनुभव-त्वव्याप्यजात्यवच्छिन्नप्रमावृत्तिकार्य्य तानिरूपितकारणता-शालित्वे सति व्यापारवत्त्वम् तत्त्वम्” तर्कप्रकाशे शिति-कण्ठः। प्रमाणत्वं च अनधिगतार्थकानुभवकारणत्वम्। तच्च गृहीतग्राहीतरानुभवकारणत्वम्। स्वसमानाधि-करणस्वाव्यवहितपूर्ववर्त्तिस्वसमानाकारनिश्चयविषयविषय-केतरतद्वद्विशेष्यकतत्प्रकारकानुभवकारणत्वमिति या-वत् न्यायकुसुमाञ्जलिटी॰।
“यज्जातीयविशिष्टज्ञानत्वा-वच्छेदेन समानाकारनिश्चयोत्तरत्वं तज्जातीयान्ययथा-र्थज्ञानस्यैवागृहीतग्राहित्वेन प्रमात्वात् अतएव धारा-वाहिप्रत्यक्षव्यक्तीनां समानाकारग्रहोत्तरवर्त्तित्वेऽपिन तासां प्रमात्वहानिः हानिस्तु समानाकारानुभवसमु-त्थानां स्मृतीनामिति” शब्द॰ प्र॰। न्यायनय चत्वारि-प्रमाणानि। प्रत्यक्षम्। अनुमानम्। उपमानम्। शब्दःगौ॰ सू॰ प्रकारान्तरेण प्रमाणं द्विविधम्
“शब्दोपजीविशब्दानुपजीवि” कुसुमाञ्जलिटी॰। प्रत्यक्षमेकमेव प्रमा-णमिति चार्वाकाः सङ्गिरन्ते। प्रत्यक्षमनुमानं चेति द्वेप्रमाणे इति बैशेषिका बौद्धा आर्हताश्च। प्रत्यक्षं शब्दश्चेतिद्वे प्रमाणे इति श्रीमदानन्दतीर्थभगवत्पादाचार्य्याः। प्र-त्यक्षमनुभानमाप्तवचनमिति त्रीणि प्रमाणानीति सांख्यावेदान्तिनश्च। प्रत्यक्षानुमानोपमानानि त्रीणीति नैया-यिकैकदेशिनः। प्रत्यक्षानुमानीपमानशब्दा अर्थापत्तिश्चेतिपञ्च प्रमाणानीति प्राभाकराः। प्रत्यक्षानुमानोपमानशब्दाअर्थापत्तिरनुपलब्धिश्चेति षट्प्रमाणानीत्यपरे भाट्टावेदा-न्तिभेदाश्च। सम्भवैतिह्ये अप्यतिरिक्ते प्रमाणे इति पौ-राणिकाः। चेष्टाप्यतिरिक्तं प्रमाणामित तान्त्रिकाः। तत्र सांख्यपातञ्जलवेदान्तिमते अन्तःकरणवृत्तीनां पौरु-षेयचित्तवृत्तिप्रकाशरूपबोधे करणत्वम् अन्तःकरण-वृत्तिषु च ज्ञानत्वारोपेण तत्करणत्वमिन्द्रियाणामिति[Page4479-a+ 38] भेदः। यथोक्तं सां॰ प्र॰ भा॰
“प्रमाता चेतनः शुद्धः प्रमाणंवृत्तिरेव नः। प्रमाऽर्थाकारवृत्तीनां चेतने प्रतिबिम्बनम्। प्रतिबिम्बितवृत्तीनां विषयो मेय उच्यते। साक्षाद्द-र्शनरूपं च साक्षित्वं वक्ष्यति स्वयम्। अतः स्यात् कार-णाभावाद्वृत्तेः साक्ष्येव चेतनः। विष्ण्वादेः सर्वसाक्षित्वंगौणं लिङ्गाद्यभावतः”।
“प्रमाणविपर्य्ययविकल्पनिद्राःस्मृतयः” पात॰ सू॰
“इन्द्रियप्रणालिकया चित्तस्य बाह्य-वस्तूपरागात् तद्विषयसामान्यविशेषात्मनोऽर्थस्य विशेषाव-धारणं प्रधाना वृत्तिः प्रत्यक्षं प्रमाणं, फलमविशिष्टः पौ-रुषेयश्चित्तवृत्तिबोधः” भाष्यम्
“अनधिगततत्त्वबोधःपौरुषेयो व्यवहारहेतुः प्रमा तत्करणं प्रमाणम्। ननु पुरुषवर्त्ती बोधः कथं चित्तगतायावृत्तेः फलं न हिखदिरगोचरव्यापारेण परशुना पलाशे छिदा क्रियतेइत्यत आह अविशिष्ट इति। न हि पुरुषगतो बोधोजन्यते अपि तु चैतन्यमेव बुद्धिदर्पर्णप्रतिबिम्बितं बुद्धि-वृत्त्या अर्थाकारया तदाकारतामापाद्यमानं फलम्। तच्च तथाभूतं बुद्धेरविशिष्टं बुद्ध्यात्मिका वृत्तिः वृत्तिश्चबुद्ध्यात्मिकेति सामानाधिकरण्याद्युक्तः प्रमाणफलभावइत्यर्थः” विव॰। प्रमाणस्य भावः ष्यञ् प्रामाण्य न॰ तल्प्रमाणता स्त्री त्व प्रमाणत्व न॰ प्रमाणभावे प्रमितिकर-णत्वे प्रमात्वे च। उद्देश्यविधेयभावेनान्वयस्थले प्रमाण-शब्दस्य प्रमाकरणपरत्वे क्वचिदेकवचनता यथा
“वेदाः प्रमाणंस्मृतयः प्रमाणम्” इत्यादौ। क्वचित्तुबहुवचनता यथा
“प्रत्यक्षानुमानोपमानागमाः प्रमाणानि” गौ॰ सू॰। तत्र पू-र्वत्र शाब्दत्वरूपप्रमात्वजातेरेकत्वात् एकवचनत्वम्। उत्तरत्रप्रत्यक्षत्वादिजातिचतुष्टयकरणानां बहुत्वात् बहुवचनताइति प्रथमाव्युत्पादे गदाधरेण प्रपञ्चितम् तत्र दृश्यम्। सामान्यत्वात् क्लीवतैवास्य। क्वचित्तु विशेषपरत्वे स्त्रीत्व-परता यथा ष्रमाणी। स्त्री प्रमाणी यस्य ब॰ ब्री॰
“अप्पूरणीप्रमाण्योः” पा॰ अप्समा॰ न कप्। श्रीप्रमाण इत्येवसि॰ कौ॰।

८ परिमाणभेदे च।
“प्रमाणे मात्रजद्वयसज्-दघ्नचः” षा॰ वृत्तौ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमाण¦ n. (-णं)
1. Cause, motive.
2. Limit.
3. Proof, testimony, authority.
4. A scripture, a work of sacred authority.
5. Measure, (whether of weight, length or capacity.)
6. Magnitude, extent.
7. Standard, authority.
8. Correct knowledge, accurate perception, (in logic.)
9. Unity.
10. Quantity.
11. A speaker of the truth.
12. Always, eter- [Page491-b+ 60] nal.
13. A title of VISHN4U.
14. Principal, capital. E. प्र before, मा to measure, aff. ल्युट्; that by which all is measured; this word is gener- ally restricted to the singular number, as वेदाः प्रमाणं the Ve4das are the authority; it is also confined to the neuter gender, as पुत्त्रः प्रमाणं the boy is a witness; some exceptions occur however, as प्रमाणः पुरुषः, प्रमाणा स्त्री the man witness, the woman witness; and in the following rule, प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि perception, inference, comparison, and sound, are proofs. According to the Naiya4yikas अनुपलब्धि or non-perception and अर्थापत्ति or the inference from cir- cumstances of the Mima4nsakas being exempted by them; the Sa4nkhys recognize प्रत्थक्ष, अनुमान and शब्द only.

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमाणम् [pramāṇam], 1 A measure in general (of length, breadth &c.); न प्रमाणेन नोत्साहात् सत्त्वस्थो भव पाण्डव Mb.3.33.63. ('प्रमाणं नित्यमर्यादासंघवादिप्रमादिषु' Viśva.); Mb.1.222. 31; दृष्टो हि वृण्वन् कलभप्रमाणो$प्याशाः पुरोवातमवाप्य मेघः R.18. 38.

Size, extent, magnitude.

Scale, standard; पृथिव्यां स्वामिभक्तानां प्रमाणे परमे स्थितः Mu.2.21.

Limit, quantity; वञ्चयित्वा तु राजानं न प्रमाणे$वतिष्ठसि Rām.2.37. 22.

Testimony, evidence, proof.

Authority, warrant; one who judges or decides, one whose word is an authority; श्रुत्वा देवः प्रमाणम् Pt.1 'having heard this your Majesty will decide (what to do)'; आर्यमिश्राः प्रमाणम् M.1; Mu.1.1; सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तः- करणप्रवृत्तयः Ś.1.22; व्याकरणे पाणिनिः प्रमाणम्; Ms.2.13; Pt.1.24; sometimes in pl.; वेदाः प्रमाणाः.

A true or certain knowledge, accurate conception or notion.

A mode of proof, a means of arriving at correct knowledge; (the Naiyāyikas recognize only four kinds; प्रत्यक्ष, अनुमान, उपमान and शब्द, the Vedāntins and Mīmāṁsakas add two more, अनुपलब्धि and अर्थापत्ति; while the Sāṅkhyas admit प्रत्यक्ष, अनुमान and शब्द only; cf. अमुभव also.).

Principal, capital.

Unity.

Scripture, sacred authority.

Cause, reason.

Rule, sanction, precept.

The first term in a rule of three.

An epithet of Viṣṇu.

Freedom from apprehension.

The prosodial lengh of a vowel.

An eternal matter; L. D. B.

(In music) A measure (such as द्रुत, मध्य, विलम्बित); Rām.1.4.8.

The measure of a square. -णः, -णी A rule, standard, authority. -Comp. -अधिक a. more than ordinary, inordinate, excessive; श्वासः प्रमाणाधिकः Ś.1.29.-अनुरूप a. corresponding to physical strength. -अन्तरम् another mode of proof. -अभावः absence of authority.-कुशल, -प्रवीण a. skilful in arguing. -कोटिः the point in an argument which is regarded as actual proof. -ज्ञ a. knowing the modes of proof, (as a logician). (-ज्ञः) an epithet of Śiva. -दृष्ट a. sanctioned by authority. -पत्रम् a written warrant. -पथः the way of proof. -पुरुषः an arbitrator, a judge, an umpire.-वाधितार्थकः a kind of Tarka in Nyāyasāstra. -भूत (˚णीभूत) a. authoritative. (-तः) an epithet of Śiva.-राशिः the quantity of the first term in a rule of three sums. -वचनम्, -वाक्यम् an authoritative statement.

शास्त्रम् scripture.

the science of logic.-सूत्रम् a measuring cord. -स्थ a.

of normal size.

unperturbed.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमाण n. ( ifc. f( आ). )measure , scale , standard

प्रमाण n. measure of any kind (as size , extent , circumference , length , distance , weight , multitude , quantity , duration) Ka1tyS3r. Kat2hUp. Mn. etc. ( instr. " on an average " Jyot. )

प्रमाण n. prosodical length (of a vowel) Pa1n2. 1-1 , 50 Sch.

प्रमाण n. measure in music MBh. ( Ni1lak. )

प्रमाण n. accordance of the movements in dancing with music and song Sam2gi1t.

प्रमाण n. measure of physical strength S3ak. (See. comp. below)

प्रमाण n. the first term in a rule of three sum Col.

प्रमाण n. the measure of a square i.e. a side of it S3ulbas.

प्रमाण n. principal , capital ( opp. to interest) Col.

प्रमाण n. right measure , standard , authority Gr2S3rS. Mn. MBh. etc. ( प्रमाणम् भवती, " your ladyship is the authority or must judge " Nal. ; in this sense also m. and f. sg. and pl. e.g. वेदाः प्रमाणाः, " the वेदs are authorities " MBh. ; स्त्री प्रमाणी येषाम्, " they whose authority is a woman " Pa1n2. Sch. )

प्रमाण n. a means of acquiring प्रमाor certain knowledge (6 in the वेदा-न्त, viz. प्रत्यक्ष, perception by the senses ; अनुमान, inference ; उपमान, analogy or comparison ; शब्दor आप्त-वचन, verbal authority , revelation ; अन्-उपलब्धिor अभाव-प्रत्यक्ष, non-perception or negative proof ; अर्था-पत्ति, inference from circumstances ; the न्यायadmits only 4 , excluding the last two ; the सांख्यonly 3 , viz. प्रत्यक्ष, अनुमानand शब्द; other schools increase the number to 9 by adding सम्भव, equivalence ; ऐतिह्य, tradition or fallible testimony ; and चेष्टा, gesture IW. 60 etc. etc. )

प्रमाण n. any proof or testimony or evidence Ya1jn5. MBh. Ka1v. etc.

प्रमाण n. a correct notion , right perception(= प्रमा) Tarkas.

प्रमाण n. oneness , unity L.

प्रमाण n. = नित्यL.

प्रमाण m. (See. n. )N. of a large fig-tree on the bank of the Ganges MBh.

"https://sa.wiktionary.org/w/index.php?title=प्रमाण&oldid=351732" इत्यस्माद् पुनः प्राप्तिः