प्रमेह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमेहः, पुं, (प्रकर्षेण मेहति क्षरति वीर्य्यादिरने- नेति । प्र + मिह क्षरणे + करणे घञ् ।) रोगविशेषः । तत्पर्य्यायः । मेहः २ मूत्रदोषः ३ । इति राजनिर्घण्टः ॥ बहुमूत्रता ४ । इति हेमचन्द्रः । ३ । १३४ ॥ अस्य निदानम् । “आस्यासुखं खप्नसुखं दधीनि ग्राम्यौदकानूपरसाः पयांसि । नवान्नपानं गुडवैकृतञ्च प्रमेहहेतुः कफकृच्च सर्व्वम् ॥” * ॥ अस्य सम्प्राप्तिर्यथा, -- “मेदश्च मांसञ्च शरीरजञ्च क्लेदं कफो वस्तिगतः प्रदूष्य । करोति मेहान् समुदीर्णमुष्णै- स्तानेव पित्तं परिदूष्य चापि ॥” * ॥ वातिकस्य तस्य लक्षणम् । “क्षीणेषु दोषेष्ववकृष्य धातून् सन्दूष्य मेहान् कुरुतेऽनिलश्च ॥” * ॥ तस्य कफजादिभेदेन साध्यादिलक्षणम् । यथा, “साध्याः कफोत्था दश पित्तजाः षट् याप्या न साध्याः पवनाच्चतुष्काः । समक्रियत्वाद्विषमक्रियत्वा- न्महात्ययत्वाच्च यथाक्रमन्ते ॥ कफः सपित्तः पवनश्च दोषा मेदोऽस्रशुक्राम्बुवसालसीकाः । प्रमेहपिडकानां प्राक् कार्य्यं रक्तविमोचनम् । पाटनञ्च विपक्वानां ततो व्रणविधिः स्मृतः ॥” इति भावप्रकाशः ॥ (अस्य सकारणपूर्ब्बरूपसम्प्राप्तयस्तथोपद्रवश्च । यथा, -- “त्रिदोषकोपननिमित्ता विंशतिप्रमेहविकारा- श्चापरेऽपरिसङ्ख्येयाः । तत्र यथा त्रिदोषप्रकोप- प्रमेहानभिनिर्वर्त्तयति तथानुव्याख्यास्यामः ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमेह¦ पु॰ प्र + मिह--आधारे करणे वा थञ्। रोगमेदे तल्ल-क्षणभेदादिकं भावप्र॰ उक्तं यथा
“आस्यासुखं स्वप्नसुखं दधीनि ग्राम्यौदनानूपरसः प-यांसि। नवान्नपानं गुडवैकृतं च प्रमेहहेतुः कफकृच्चसर्वम्। मेदश्च मांसञ्च शरीरजञ्च क्लेदं कफोवस्तिगतंप्रदव्य। करोति मेहान् समुदीर्णमुष्णैस्तानेव पित्तं परि-दष्य चापि। क्षीणेषु दोषेष्ववकृष्य धातून् संदूष्य मेहान्[Page4480-b+ 38] कुरुतेऽनिलश्च। साध्याः कफोत्था दश पित्तजाः षट् याप्या-न साध्या पवनाच्चतुष्काः। समक्रियत्वाद्विषमक्रियत्वान्म-हात्ययत्वाच्च यथाक्रमन्ते। कफश्च पित्तं पवनश्च दोषा-मेदोऽस्रशुक्राम्बुबसाससीकाः। मज्जारसौजःपिशि-तञ्च दूष्याः प्रमेहिणां विंशतिरेव मेहाः। दन्तादीनांमलाढ्यत्वं प्राग्रूपं पानिपादयोः। दाहचिक्वणतादेहे तृट्स्वाद्वास्यञ्च जायते। सामान्यं लक्षणं तेषांप्रभूताबिलमूत्रता॰। दोषदूष्याविशेषेऽपि तत्संयोगविशे-षतः। मूत्रवर्णादिभेदेन भेदो मेहेषु कल्प्यते। अच्छंबहुतरं शीतं निर्गन्धसुदकोपमम्। मेहत्युदकमेहेनकिञ्चिच्चाविलपिच्छिलम्। इक्षोरसमिवात्यर्थं मधुरञ्चे-क्षुमेहतः। सान्द्री भवेत् पर्युसितं सान्द्रमेहेन मेहति। सुरामेहि सुरातुल्यमुपर्यच्छमधोघनम्। संहृष्टरोमापिष्टेन पिष्टवद्बहलं सितम्। शुक्राभं शुक्रमिश्रंवा शुक्रमेही प्रमेहति। मूर्त्तासून् सिकठामेही सिक-तारूपिणी मलान्। शीतमेही सुवहुशो मधुरं भृश-शीतलम्। शनैःशनैः शनैर्मेही मन्दं मन्दं प्रमेहति। लालातन्तुयुतं मूत्रं लालामेहेन पिच्छिलम्। गन्धवर्णरसस्पर्शौ क्षारेण क्षारतीयवत्। वीलमेहेन नीलाभंकालमेही मसीनिभम्। हारिद्रमेही कटुकं हरिद्रा-सन्निभं दहत्। विश्रं माञ्जिष्ठमेहेन मञ्जिष्टाशालिको-पमम्। विश्रमुस्तं सखबणं रक्ताभं रक्तमेहिनः। वशामेही वसामिश्वं वसाभं मूत्रयेन्मुहुः। मज्जामंमज्जमिश्रं वा मज्जमेही सुहुर्मुहुः। कष्न्धं मधुरंरूक्षं क्षौद्रमेहं वदेत् बुधः। हस्ती मत्त इवाजस्नंमूत्रयेगविवर्जितम्। सासमीकं विवद्धश्च हस्तिमेहीप्रमेहति। अविपाकोऽरुचिश्छर्दिर्निद्राकासः सपीनसः। उपद्रवाः प्रजायन्ते मेहानां कफजन्मनाम्। वस्मिमेह-नयोस्तोदो मुष्कावदारणं ज्वरः! दाहतृष्णाम्लिकामू-र्च्छाविड्भेदः पित्तजन्मनाम्। पातजानासुदावर्त्तकम्पहृद्-ग्रहलोलताः। शूलमुन्निद्रता शोषः श्वासः कासश्च जा-यते। यथोक्तोपद्रवाविष्ठमतिप्रखुतमेव च। पिडका-पीडितं गाढं प्रमेहो हन्ति मानवम्। मूर्च्छाच्छर्दिज्व-रश्वासकासवीसर्पणौरवैः। उपद्रवैरुपेतो यः प्रमेहीदुःप्रतिक्रियः। रजः प्रवर्त्तते यस्मान् मासि मासिविशोधयेत्। सार्वात् शरीरदोषांश्च न प्रमेहन्त्यतः स्त्रियः। जातः प्रमेहो मधुमेहिनो वा न साध्यरोगः सहि बी-जदोषात्। बे चापि केचित्कुकजा विकारा सवन्ति तां-[Page4481-a+ 38] क्ष्मापि वदन्त्यसाध्यान्। सर्वएव प्रमेहास्तु कामेनाप्रति-कारिणः। मधुमेहत्वमायान्ति तदाऽसाध्या भवन्ति च। मधुमेहो मधुनिभो जायते स किल द्विधा। क्रुद्धेघातुक्षयाद्वायौ दोषावृतपथेऽथ वा। आवृतो दोषलिङ्गानि सोऽनिनित्तं प्रदर्शयन्। क्षीणक्षीणात् क्षणात्पूर्णो भजते कृच्छ्रसाध्यताम्। मधुरं यच्च सर्वेषु प्रायोमध्विव मेहति। सर्वेऽपि मघुमेहाख्यं माधुर्य्याच्च तनो-रतः। शराविकाकच्छपिका जालिनी विनतालजी। मसूरिका सर्षपिका पुत्रिणी सविदारिकाः। विद्रधि-श्चेति पिडकाः प्रमेहोपेक्षया दश”। तद्रोगनिमित्तकर्मभेद शा॰ त॰ उक्तः। कर्मविपाकशब्दे

१०

७६ पृ॰ दृश्यम्। तत्र मधुमेहस्यैव महारोगभेद-रूपता
“मधुमेहभगन्दरौ” इत्युक्तेः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमेह¦ m. (-हः) Urinary affection, as change in the colour, quantity, or consistence of the urine; twenty-one varieties are enumerated, including diabetes, gonorrhœa, &c. E. प्र implying change, मिह् to pass urine, with घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमेहः [pramēhḥ], A general name for a urinary disease (such as gleet, diabetes &c.); आस्यामुखं स्वप्नसुखं दधीनि ग्राम्यौदना- नूपरसः पयांसि । नवान्नपानं गुडवैकृतं च प्रमेहहेतुः कफकृच्च सर्वम् ॥ Bhāva. P.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रमेह/ प्र- m. urinary disease (N. applied to all -uurinary -ddisease , of which there are 21 varieties including diabetes , gleet , gonorrhoea etc. ) Sus3r. Var. etc.

प्रमेह/ प्र-मेह etc. See. under प्र-मिह्.

"https://sa.wiktionary.org/w/index.php?title=प्रमेह&oldid=502449" इत्यस्माद् प्रतिप्राप्तम्