प्रवासी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवासी, त्रि, (प्रवसितुं शीलमस्येति । प्र + वस् + “प्रे लपस्रुद्रुमथवदवसः ।” ३ । २ । १४५ । इति घिनुण् ।) प्रवासविशिष्टः । प्रोषितः । विदे- शस्थः । यथा, -- “अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिकदेशिकौ । प्रवासी तद्गणो हारिः पाथेयं सम्बलं समे ॥” इति हेमचन्द्रः । ३ । १५७ ॥ (यथा, मार्कण्डेये । १८ । ५१ । “लक्ष्मीर्लक्ष्मीवतां श्रेष्ठा कण्ठस्था कण्ठभूषणम् । अभीष्टबन्धुदारैश्च तथाश्लेषं प्रवासिभिः ॥”)

"https://sa.wiktionary.org/w/index.php?title=प्रवासी&oldid=502605" इत्यस्माद् प्रतिप्राप्तम्