प्रवृत्ति
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रवृत्तिः, स्त्री, (प्रवर्त्तते इति । प्र + वृत् + क्तिन् ।) प्रवाहः । उदन्तः । (यथा, मेघदूते । ४ । “प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थां जीमूतेन स्वकुशलमयीं हारयिष्यन् प्रवृत्तिम् ॥” प्रवर्त्तनमिति । प्र + वृत् + क्तिन् ।) प्रवर्त्तनम् । (यथा, महाभारते । १२ । ३० । १६ । “ववृधे हि ततस्तस्य हृदि कामो महात्मनः । यथा शुक्लस्य पक्षस्य प्रवृत्तौ चन्द्रमाः शनैः ॥” प्रवर्त्तते व्याप्नोति प्रसिद्धत्वेनेति । प्र + वृत् + क्तिच् । यज्ञादिव्यापारः । यथा, महाभारते । १ । १ । २५५ । “असच्च सदसच्चैव यस्माद्विश्वं प्रवर्त्तते । सन्ततिश्च प्रवृत्तिश्च जन्ममृत्युपुनर्भवाः ॥” “सन्ततिर्ब्रह्मादिः । प्रवृत्तिर्यज्ञादिः ॥” इति तट्टीकायां नीलकण्ठः ॥”) अवन्त्यादिदेशः । इति मेदिनी । ते, १३० ॥ हस्तिमदः । इति हेमचन्द्रः । ४ । २९० ॥ न्यायमते यत्नविशेषः । अस्याः कारणम् । चिकीर्षा । कृतिसाध्यता- ज्ञानम् । इष्टसाधनताज्ञानम् । उपादानप्रत्य- क्षम् । यथा, -- “प्रवृत्तिश्च निवृत्तिश्च तथा जीवनकारणम् । एवं प्रयत्नत्रैविध्यं तान्त्रिकैः परिदर्शितम् ॥ चिकीर्षा कृतिसाध्येष्टसाधनत्वमतिस्तथा । उपादानस्य चाध्यक्षं प्रवृत्तौ जनकं भवेत् ॥” इति भाषापरिच्छदः ॥ (यथा, पञ्चदश्याम् । ६ । १७३ । “देहादिपञ्चरं यन्त्रं तदारोहोऽभिमानिता । विहितप्रतिषिद्धेषु प्रवृत्तिर्भ्रमणं भवेत् ॥” प्रयत्नसहितादन्तःकरणात् प्रवृत्तिर्जायते । यदुक्तं कामन्दकीये नीतिसारे । १ । ३३ -- ३५ । “आत्मा मनश्च तद्विद्यैरन्तःकरणमुच्यते । आभ्यान्तु सप्रयत्नाभ्यां सङ्कल्प उपजायते ॥ आत्माबुद्धीन्द्रियाण्यर्था बहिष्करणमुच्यते । सङ्कल्पाध्यवसायाभ्यां सिद्धिरस्य प्रकीर्त्तिता ॥ उभे एते हि करणे यत्नानन्तर्य्यके स्मृते । तस्मात् प्रवृत्तिसंरोधाद्भावयेन्निर्मनस्कताम् ॥” “आत्ममनोबुद्धिकर्म्मेन्द्रियाणां लक्षणमभिधाय बुद्धेरन्तःपरिकल्पनया कारणविभागमभिधातु- माह । आत्मा मनश्चेति । अभिहितेन लक्ष- णेनेति प्रतिपाद्यते यया विद्यया साऽन्वयविद्या सा विद्यते येषां ते तद्विद्याः कणादाक्षपादा- दयः तैः तद्विद्यैः आत्मा मनश्च अन्तःकरण- मुच्यते । आभ्यां आत्ममनोभ्यां प्रयत्नसहिताभ्यां सङ्कल्पः प्रवृत्तिः । इन्द्रियप्रवर्त्तनं उपजायते । बहिःकरणमभिधातुमाह । आत्मा बुद्धीति । आत्मा उक्तलक्षणः । बुद्धिः मनः । इन्द्रियाणि बाह्यरूपाणि । अर्थाः शब्दादयः । कर्म्मे- न्द्रियाणां हि उत्सर्गादिका अर्थाः प्रयोजनानि । एतत् सर्व्वं बहिःकरणम् । सङ्कल्पः सम्यग्- भूतार्थकल्पनं अध्यवसायः प्रयत्नविशेषः ताभ्यां अस्य आत्मनः सुखानुभवलक्षणा सिद्धिः प्रकी- र्त्तिता । तदेवं अन्तःकरणप्रवृत्तिः प्रयत्नादेव बहिःकरणप्रवृत्तिरपि अध्यवसायलक्षणात् प्रयत्नादेवेति दर्शितं भवति एतदेव समर्थ- यन्नाह । उभे एते हीति । उभे एते अनन्त- रोक्ते हि स्फुटं करणे अन्तर्बहिःकरणसंज्ञके यत्नानन्तर्यके प्रयत्नानन्तरं वर्त्तेते प्रयत्नप्रेर- णादित्यर्थः । तस्मादिति । यस्मादेवं तस्मात् प्रवृत्तिसंरोधात् उभयात्मकस्य प्रयत्नस्यैव संरोधं कृत्वा निर्म्मनस्कतां भावयेत् निर्मनस्कभावं अभ्य- स्येत् यावत् प्रयत्न एव निरुद्धो भवति ताव- दात्मा मनसा न युज्यते ततश्च विद्यमानमपि मनो नास्त्येव मनःकार्य्याकरणात् । अन्तः- करणविश्लेषात् प्रवृत्तिर्नोपपद्यते । एवमन्तः- करणप्रवृत्त्यभावात् बहिःकरणप्रवृत्तेरप्यभावः । तदभावात् इन्द्रियाणां विषयैः सम्बन्ध एव न स्यात् इति भावः ।” इति तट्टीका ॥)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रवृत्ति स्त्री।
वार्ता
समानार्थक:वार्ता,प्रवृत्ति,वृत्तान्त,उदन्त,कर्षु,किल
1।6।7।2।2
समस्या तु समासार्था किंवदन्ती जनश्रुतिः। वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यादथाह्वयः॥
वृत्तिवान् : वार्तावाहकः
पदार्थ-विभागः : , गुणः, शब्दः
प्रवृत्ति स्त्री।
अविच्छेदेन_जलादिप्रवृत्तिः
समानार्थक:प्रवाह,प्रवृत्ति,वेग
3।2।18।1।2
प्रवाहस्तु प्रवृत्तिः स्यात्प्रवहो गमनं बहिः। वियामो वियमो यामो यमः संयामसंयमौ॥
: तडमध्यवर्तिप्रवाहः, निर्गतजलप्रवाहः
पदार्थ-विभागः : , क्रिया
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रवृत्ति¦ स्त्री प्र + वृत--क्तिन्।
१ प्रवाहे
२ वार्त्तायाम्
३ अब-न्त्यादिदेशे मेदि॰
४ हस्तिमदे हेमच॰।
५ न्यायोक्तेचिकीर्षाकृतिसाध्यताज्ञानाधीने
६ प्रयत्नभेदे च प्रयत्नशब्देदृश्यम्।
“चिकीर्षाकृतिसाध्येष्टसाधनत्वमतिस्तथा। उपादानस्य चाध्यक्षं प्रवृत्तौ जनकं मतम्” भाषा॰।
“दुःस्वजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये त-दनन्तरापायादपवर्गः” गौ त॰ सू॰
“एतस्मान्मिथ्याज्ञाना-दनुकूलेषु रागः प्रतिकूलेषु द्वेषः रागद्वेषाधिकाराच्चा-सूयेर्ष्यमायालोभादयो दोषा भवन्ति। दोषैः प्रुयुक्तःशरीरेण प्रवर्तमानी हिंसास्तेयप्रतिषिद्धमैथुनान्याच-रति वाचाऽनृतपरुपसूचनासम्बद्धानि, मनसा परद्रीहंपरद्रव्याभीप्सां नास्तिक्यञ्चेति सेयं पापात्मिकाऽधर्मायअथ शुभा शरीरेण दानं परित्राणं परित्वरणञ्च। वाचासत्यं हितं प्रियं स्वाध्यायञ्चेति मनसा दयामस्पृहाश्रद्धाञ्चेति सेयं धर्माय। अत्र प्रवृत्तिसाधनौ धर्माधर्म्मौप्रवृत्तिशब्देनोक्तौ। यथा अन्नसाधनाः प्राणाः। अन्नंघै प्राणिनः प्राणा इति। सेयं कुत्सितस्याभिपूजितस्य चजन्मनः कारणम्” भाष्यम्।
“प्रवृत्तिर्वागबुद्धिशरीरारम्भः” गौ॰ सू॰
“प्रवृत्तिदोषजनितोऽर्थः फलम्” गौ॰ सू॰
“प्रवृत्तिनिवृत्ती च प्रत्यगात्मनि दृष्टे परत्र लिङ्गम्” कणा॰।
“प्रत्यगात्मनीति स्वात्मनीत्यर्थः इच्छद्वेषज-निते प्रवृत्तिनिवृत्ती प्रयत्नविशेषौ ताभ्याञ्च हिताहि-तप्राप्तिपरिहारफलके शरीरकर्म्मणी चेष्टालक्षणे ज-न्येते तथा च परशरीरे चेष्टां दृष्ट्वा इयं चेष्टाप्रयत्न-जन्या चेष्टात्वात् मदीयचेष्टावत् स च प्रयत्न आत्मजन्यआत्मनिष्ठो वा प्रयत्नत्वात् मदोयप्रयत्नवदिति परात्मनोऽ-नुमानम्” उप॰ वृ॰।
“इच्छाद्वेषपूर्बिका धर्माधर्मप्रघृत्ति” गौ॰ सू॰
“विहितकर्मणिरागगिवन्धना निषिद्धे कर्मणिहिंसादौ द्वेषनिबन्धना प्रवृत्तिः। तत्र रागनिबन्धना या-गादौ प्रवृत्तिर्धर्मं प्रसूते द्वेषनिवन्घना हिंसादौ प्रवृत्तिर-धर्मम्। तावेतौ रागद्वेषौ संसारमनुवर्त्तयतः” वात्स्या॰। प्रवृत्तिस्तु द्वयी। कारणरूपा कार्य्यरूपा च। तत्राद्यायत्रत्वजातिमती प्रत्यक्षसिद्धा। द्वितीया तु धर्माधर्म-रूपा यागादेरगम्यागसनादेश्च चिरध्वस्तस्य व्यापारतया[Page4493-b+ 38] कर्मनाशास्तलस्पर्शादेः प्रायश्चित्तादेश्च नाश्यतया सिध्य-तीति। (गौ॰ वृ॰
४ ।
१ ) भट्टमते प्रवृत्तिर्द्वेधा। स्वेच्छाधीना परप्रेरणाजन्या। तत्राद्यायां प्रवर्त्तनायाअनुपयोगोऽपि द्वितीयपवृत्तौ सा प्रयोजिका। यथाआचार्य्यप्रेरणयेदं करोमोति” दि॰ क॰।
७ शब्दानामर्थबीधनशक्तिभेदे
“प्रवृत्तिरासीच्छब्दानां च-रितार्था चतुष्टयी” कुमा॰।
८ स्वस्वविषये इन्द्रियादीनांसञ्चारे च।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रवृत्ति¦ f. (-त्तिः)
1. Activity, occupation, active life, as opposed to contem- plative devotion; or it is defined to consist of the wish to do, knowledge of the means of success and accomplishing the desired object.
2. Prosecution, perseverance.
3. Addiction to, predilection for.
4. Practice, conduct.
5. Tidings, intelligence.
6. Continuous flow, stream, current.
7. Employment, occupation.
8. Fate, Des- tiny.
9. Signification, sense.
10. Direct perception.
11. Progress, advance.
12. Rise, source, origin.
13. Appearance, manifestation.
14. The juice that exudes from the elephant's temples, when in rut.
15. Oujein, or any holy place.
16. (In arithmetic,) The multiplier. E. प्र before, वृत् to be or abide, aff. क्तिन् | [Page496-a+ 60]
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रवृत्तिः [pravṛttiḥ], f.
Continued advance.
Rise, origin, source, flow (of words &c.); प्रवृत्तिरासीच्छब्दानां चरितार्था चतुष्टयी Ku.2.17.
Appearance, manifestation; कुसुमप्रवृत्तिसमये Ś.4.9. (v. l.); R.11.43;14.39;15.4.
Advent, setting in, commencement; आकालिकीं वीक्ष्य मधुप्रवृत्तिम् Ku.3.34.
Application or addiction to, tendency, inclination, predilection, propensity; न हि प्रजानामि तव प्रवृत्तिम् Bg.11.31; सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः Ś.1.22.
Conduct, behaviour; त्वां प्रत्यकस्मात् कलुषप्रवृत्तौ R.14.73.
Employment, occupation, activity; विदितं वो यथा स्वार्था न मे काश्चित् प्रवृत्तयः Ku.6.26.
Use, employment, currency (as of a word).
Continued effort, perseverance.
Signification, sense, acceptation (of a word).
Continuance, permanence, prevalence.
Active life, taking an active part in worldly affairs (opp. निवृत्ति); प्रवृत्तिः कुत्र कर्तव्या जीवितव्यं कथं नु वा H.
News, tidings, intelligence; ततः प्रवृत्तिः सीतायाः Mb.3.148.5; प्रवृत्तिसाराः खलु मादृशां गिरः Ki.1.25; जीमूतेन स्वकुशलमयी हारयिष्यन् प्रवृत्तिम् Me.4; V.4.2.
Applicability or validity of a rule.
Fate, destiny, luck.
Cognition, direct perception or apprehension.
Rutting juice, or ichor exuding from the temples of an elephant in rut.
N. of the city of उज्जयिनी q. v.
(In Arith.) The multiplier. -Comp. -ज्ञः a spy, secret emissary or agent. -निमित्तम् a reason for the use of any term in a particular signification. -पराङ्मुख a. averse to giving news; मयि च विधुरे भावः कान्ताप्रवृत्तिपराङ्मुखः V.4.2.-पुरुषः a news agent; प्रवृत्तिपुरुषाः कथयन्ति Pañch. -प्रत्ययः conception of the things relating to the external world.-मार्गः active or worldly life, attachment to the business and pleasure of the world. -लेखः a writ of guidance; प्रावृत्तिकश्च प्रतिलेख एव Kau. A.2.1.28. -विज्ञानम् cognition of the things belonging to the external world.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रवृत्ति/ प्र- f. moving onwards , advance , progress Gr2S3rS. MBh. Sus3r.
प्रवृत्ति/ प्र- f. coming forth , appearance , manifestation S3vetUp. Ka1lid. Ra1jat.
प्रवृत्ति/ प्र- f. rise , source , origin. MBh.
प्रवृत्ति/ प्र- f. activity , exertion , efficacy , function Kap. Sa1m2khyak. MBh. etc. (in the न्यायone of the 82 प्रमेयs IW. 63 )
प्रवृत्ति/ प्र- f. active life (as opp. to नि-वृत्ति[q.v.] and to contemplative devotion , and defined as consisting of the wish to act , knowledge of the means , and accomplishment of the object) W.
प्रवृत्ति/ प्र- f. giving or devoting one's self to , prosecution of. course or tendency towards , inclination or predilection for( loc. or comp. ) Ra1jat. Hit. Sa1h.
प्रवृत्ति/ प्र- f. application , use , employment Mn. MBh. Ma1rkP.
प्रवृत्ति/ प्र- f. conduct , behaviour , practice Mn. MBh. etc.
प्रवृत्ति/ प्र- f. the applicability or validity of a rule Ka1tyS3r. Pa1n2. Sch.
प्रवृत्ति/ प्र- f. currency , continuance , prevalence ib.
प्रवृत्ति/ प्र- f. fate , lot , destiny R.
प्रवृत्ति/ प्र- f. news , tidings , intelligence of( gen. or comp. ) MBh. Ka1v. etc.
प्रवृत्ति/ प्र- f. cognition (with विषय-वती, " a sensuous -ccognition ") Yogas.
प्रवृत्ति/ प्र- f. the exudation from the temples of a rutting elephant L. (See. Vikr. iv , 47 )
प्रवृत्ति/ प्र- f. N. of अवन्तिor Oujein or any holy place L.
प्रवृत्ति/ प्र- f. (in arithm. ) the multiplier W. ( w.r. for प्र-कृति?)