प्रवृत्तिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवृत्तिः, स्त्री, (प्रवर्त्तते इति । प्र + वृत् + क्तिन् ।) प्रवाहः । उदन्तः । (यथा, मेघदूते । ४ । “प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थां जीमूतेन स्वकुशलमयीं हारयिष्यन् प्रवृत्तिम् ॥” प्रवर्त्तनमिति । प्र + वृत् + क्तिन् ।) प्रवर्त्तनम् । (यथा, महाभारते । १२ । ३० । १६ । “ववृधे हि ततस्तस्य हृदि कामो महात्मनः । यथा शुक्लस्य पक्षस्य प्रवृत्तौ चन्द्रमाः शनैः ॥” प्रवर्त्तते व्याप्नोति प्रसिद्धत्वेनेति । प्र + वृत् + क्तिच् । यज्ञादिव्यापारः । यथा, महाभारते । १ । १ । २५५ । “असच्च सदसच्चैव यस्माद्विश्वं प्रवर्त्तते । सन्ततिश्च प्रवृत्तिश्च जन्ममृत्युपुनर्भवाः ॥” “सन्ततिर्ब्रह्मादिः । प्रवृत्तिर्यज्ञादिः ॥” इति तट्टीकायां नीलकण्ठः ॥”) अवन्त्यादिदेशः । इति मेदिनी । ते, १३० ॥ हस्तिमदः । इति हेमचन्द्रः । ४ । २९० ॥ न्यायमते यत्नविशेषः । अस्याः कारणम् । चिकीर्षा । कृतिसाध्यता- ज्ञानम् । इष्टसाधनताज्ञानम् । उपादानप्रत्य- क्षम् । यथा, -- “प्रवृत्तिश्च निवृत्तिश्च तथा जीवनकारणम् । एवं प्रयत्नत्रैविध्यं तान्त्रिकैः परिदर्शितम् ॥ चिकीर्षा कृतिसाध्येष्टसाधनत्वमतिस्तथा । उपादानस्य चाध्यक्षं प्रवृत्तौ जनकं भवेत् ॥” इति भाषापरिच्छदः ॥ (यथा, पञ्चदश्याम् । ६ । १७३ । “देहादिपञ्चरं यन्त्रं तदारोहोऽभिमानिता । विहितप्रतिषिद्धेषु प्रवृत्तिर्भ्रमणं भवेत् ॥” प्रयत्नसहितादन्तःकरणात् प्रवृत्तिर्जायते । यदुक्तं कामन्दकीये नीतिसारे । १ । ३३ -- ३५ । “आत्मा मनश्च तद्विद्यैरन्तःकरणमुच्यते । आभ्यान्तु सप्रयत्नाभ्यां सङ्कल्प उपजायते ॥ आत्माबुद्धीन्द्रियाण्यर्था बहिष्करणमुच्यते । सङ्कल्पाध्यवसायाभ्यां सिद्धिरस्य प्रकीर्त्तिता ॥ उभे एते हि करणे यत्नानन्तर्य्यके स्मृते । तस्मात् प्रवृत्तिसंरोधाद्भावयेन्निर्मनस्कताम् ॥” “आत्ममनोबुद्धिकर्म्मेन्द्रियाणां लक्षणमभिधाय बुद्धेरन्तःपरिकल्पनया कारणविभागमभिधातु- माह । आत्मा मनश्चेति । अभिहितेन लक्ष- णेनेति प्रतिपाद्यते यया विद्यया साऽन्वयविद्या सा विद्यते येषां ते तद्विद्याः कणादाक्षपादा- दयः तैः तद्विद्यैः आत्मा मनश्च अन्तःकरण- मुच्यते । आभ्यां आत्ममनोभ्यां प्रयत्नसहिताभ्यां सङ्कल्पः प्रवृत्तिः । इन्द्रियप्रवर्त्तनं उपजायते । बहिःकरणमभिधातुमाह । आत्मा बुद्धीति । आत्मा उक्तलक्षणः । बुद्धिः मनः । इन्द्रियाणि बाह्यरूपाणि । अर्थाः शब्दादयः । कर्म्मे- न्द्रियाणां हि उत्सर्गादिका अर्थाः प्रयोजनानि । एतत् सर्व्वं बहिःकरणम् । सङ्कल्पः सम्यग्- भूतार्थकल्पनं अध्यवसायः प्रयत्नविशेषः ताभ्यां अस्य आत्मनः सुखानुभवलक्षणा सिद्धिः प्रकी- र्त्तिता । तदेवं अन्तःकरणप्रवृत्तिः प्रयत्नादेव बहिःकरणप्रवृत्तिरपि अध्यवसायलक्षणात् प्रयत्नादेवेति दर्शितं भवति एतदेव समर्थ- यन्नाह । उभे एते हीति । उभे एते अनन्त- रोक्ते हि स्फुटं करणे अन्तर्बहिःकरणसंज्ञके यत्नानन्तर्यके प्रयत्नानन्तरं वर्त्तेते प्रयत्नप्रेर- णादित्यर्थः । तस्मादिति । यस्मादेवं तस्मात् प्रवृत्तिसंरोधात् उभयात्मकस्य प्रयत्नस्यैव संरोधं कृत्वा निर्म्मनस्कतां भावयेत् निर्मनस्कभावं अभ्य- स्येत् यावत् प्रयत्न एव निरुद्धो भवति ताव- दात्मा मनसा न युज्यते ततश्च विद्यमानमपि मनो नास्त्येव मनःकार्य्याकरणात् । अन्तः- करणविश्लेषात् प्रवृत्तिर्नोपपद्यते । एवमन्तः- करणप्रवृत्त्यभावात् बहिःकरणप्रवृत्तेरप्यभावः । तदभावात् इन्द्रियाणां विषयैः सम्बन्ध एव न स्यात् इति भावः ।” इति तट्टीका ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवृत्तिः [pravṛttiḥ], f.

Continued advance.

Rise, origin, source, flow (of words &c.); प्रवृत्तिरासीच्छब्दानां चरितार्था चतुष्टयी Ku.2.17.

Appearance, manifestation; कुसुमप्रवृत्तिसमये Ś.4.9. (v. l.); R.11.43;14.39;15.4.

Advent, setting in, commencement; आकालिकीं वीक्ष्य मधुप्रवृत्तिम् Ku.3.34.

Application or addiction to, tendency, inclination, predilection, propensity; न हि प्रजानामि तव प्रवृत्तिम् Bg.11.31; सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः Ś.1.22.

Conduct, behaviour; त्वां प्रत्यकस्मात् कलुषप्रवृत्तौ R.14.73.

Employment, occupation, activity; विदितं वो यथा स्वार्था न मे काश्चित् प्रवृत्तयः Ku.6.26.

Use, employment, currency (as of a word).

Continued effort, perseverance.

Signification, sense, acceptation (of a word).

Continuance, permanence, prevalence.

Active life, taking an active part in worldly affairs (opp. निवृत्ति); प्रवृत्तिः कुत्र कर्तव्या जीवितव्यं कथं नु वा H.

News, tidings, intelligence; ततः प्रवृत्तिः सीतायाः Mb.3.148.5; प्रवृत्तिसाराः खलु मादृशां गिरः Ki.1.25; जीमूतेन स्वकुशलमयी हारयिष्यन् प्रवृत्तिम् Me.4; V.4.2.

Applicability or validity of a rule.

Fate, destiny, luck.

Cognition, direct perception or apprehension.

Rutting juice, or ichor exuding from the temples of an elephant in rut.

N. of the city of उज्जयिनी q. v.

(In Arith.) The multiplier. -Comp. -ज्ञः a spy, secret emissary or agent. -निमित्तम् a reason for the use of any term in a particular signification. -पराङ्मुख a. averse to giving news; मयि च विधुरे भावः कान्ताप्रवृत्तिपराङ्मुखः V.4.2.-पुरुषः a news agent; प्रवृत्तिपुरुषाः कथयन्ति Pañch. -प्रत्ययः conception of the things relating to the external world.-मार्गः active or worldly life, attachment to the business and pleasure of the world. -लेखः a writ of guidance; प्रावृत्तिकश्च प्रतिलेख एव Kau. A.2.1.28. -विज्ञानम् cognition of the things belonging to the external world.

"https://sa.wiktionary.org/w/index.php?title=प्रवृत्तिः&oldid=357360" इत्यस्माद् प्रतिप्राप्तम्