प्रव्रज्या

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रव्रज्या, स्त्री, (प्र + व्रज + “व्रजयजोर्भावे क्यप् ।” ५ । ३ । ९८ । इति भावे क्यप्प्रत्ययः ।) सन्न्यासः ॥ (यथा, महाभारते । ३ । १७७ । ७ । “बाणवेगं हि कस्तस्य शक्तः सोढुं महात्मनः । प्रव्रज्यायां हि मे हेतुः स एव पुरुषर्षभः ॥” यथा च कुमारे । ६ । ६ । “मुक्तायज्ञोपवीतानि विभ्रतो हैमवल्कलाः । रत्नाक्षसूत्राः प्रव्रज्यां कल्पवृक्षा इवाश्रिताः ॥” “अत्र चतुर्थाश्रमवाचिना प्रव्रज्याशब्देन वान- प्रस्थाश्रमो लक्ष्यते ‘जहुः परिग्रहव्रीडां प्राजा- पत्यास्तपस्विनः’ इति सपत्नीकत्वाभिधानात् ‘सुतविन्यस्तपत्नीकः तया वानुगतोऽपि सन्’ इति वानप्रस्थस्योभयथा स्मरणात् ॥” इति तत्र मल्लिनाथः ॥ वृथाप्रव्रज्याश्रितानां निन्दनीयत्व- मुक्तम् । यथा, मनौ । ५ । ८९ । “वृथासङ्करजातानां प्रव्रज्यासु च तिष्ठताम् । आत्मनस्तागिनाञ्चैव निवर्त्तेतोदकक्रिया ॥” क्ली, प्रव्रजनम् । यथा, महाभारते । ४ । १७ । ११ । “कोऽहि राज्यं परित्यज्य सर्व्वस्वं चात्मना सह । प्रव्रज्यायैव दीव्येत विना दुर्द्यूतदेविनम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रव्रज्या¦ स्त्री प्रास्य पुत्रादीन् व्रज्या व्रज--भावे क्यप्। पुत्रादीन् प्ररित्यज्य गमने सन्न्यासाश्रमे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रव्रज्या¦ f. (-ज्या)
1. Roaming, travelling, wandering about, as a religious mendicant especially.
2. Abandonment of the world. E. प्र before, व्रज् to go, aff. क्यप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रव्रज्या [pravrajyā], 1 Going abroad, migration.

Roaming, wandering about as a religious mendicant; अतश्च प्रव्रज्या- सुलभसमयाचारविमुखः । प्रसक्तस्ते यत्नः ... Māl.4.6.

The order of a religious mendicant, a mendicant's life, the fourth (or भिक्षु) order in the riligious life of a Brāhmaṇa; प्रव्रज्यां कल्पवृक्षा इवाश्रिताः Ku.6.6. (where Malli. says प्रव्रज्या means the वानप्रस्थ or third order). -Comp. -अवसितः a religious mendicant who renounces his order; प्रव्रज्यावसिता यत्र त्रयो वर्णा द्विजोत्तमाः । निर्वासं कारयेद् विप्रं दासत्वं क्षत्रवैश्ययोः ॥ Kātyāyana.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रव्रज्या/ प्र- f. id. ib.

प्रव्रज्या/ प्र- f. going forth from home (first rite of a layman wishing to become a Buddh. monk) MWB. 77

प्रव्रज्या/ प्र- f. roaming , wandering about ( esp. as a religious mendicant , in a dress not authorized by the वेद) Mn. MBh. Ka1v. etc.

प्रव्रज्या/ प्र- f. the order of a -relreligious -mmendicant MBh. Var.

"https://sa.wiktionary.org/w/index.php?title=प्रव्रज्या&oldid=502680" इत्यस्माद् प्रतिप्राप्तम्