सामग्री पर जाएँ

प्रसव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसवः, पुं, (प्र + सू + “ऋदोरप् ।” ३ । ३ । ५७ । इत्यप् ।) गर्भमोचनम् । तत्पर्य्यायः । प्रसूतिः २ । इत्यमरः । ३ । २ । १० ॥ (यथा, रघुः । ३ । १२ । “पतिः प्रतीतः प्रसवोन्मुखीं प्रियां ददर्श काले दिवमभ्रितामिव ॥” गर्भग्रहणम् । यथा, मनुः । ९ । ७० । “यथाविध्यभिगम्यैनां शुक्लवस्त्रां शुचिव्रताम् । मिथो भजेताप्रसवात् सकृत्सकृदृतावृतौ ॥”) उत्पादः । (जन्म । यथा, रघुः । १ । २२ । “ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्य्ययः । गुणागुणानुबन्धित्वात्तस्य सप्रसवा इव ॥” “सह प्रसवो जन्म येषां ते सप्रसवाः सोदरा इव ।” इति तट्टीकायां मल्लिनाथः ॥) अप- त्यम् । (यथा, रघुः । ८ । ३० । “ऋषिदेवगणस्वधाभुजां श्रुतयागप्रसवैः स पार्थिवः । अनृनत्वमुपेयियान् बभौ परिधेर्मुक्त इवोष्णदीधितिः ॥”) फलम् । कुसुमम् । इति मेदिनी । वे, ४२ ॥ (यथा, रघुः । ४ । २३ । हीनाङ्गा अधिकाङ्गाश्च जायन्ते यदि वा स्त्रियः ॥ पशवः पक्षिणश्चैव तथैव च सरीसृपाः । विनाशं तस्य देशस्य कुलस्य च विनिर्द्दिशेत् ॥ निर्व्वासयेत्तां नृपतिः स्वराष्ट्रात् स्त्रियञ्च पूज्याश्च ततो द्विजेन्द्राः । किमिच्छकैर्ब्राह्मणतर्पणञ्च लोके ततः शान्तिमुपैति पापम् ॥” इति मात्स्ये अद्भुतशान्तिस्त्रीप्रसवविकृतो नाम २०९ अध्यायः ॥ * ॥ प्रसवाद्भुतत्वं यथा, -- “एको वृषस्त्रयो गावः सप्ताश्वा नवदन्तिनः । सिंहप्रसूतिकाश्चैव कथिताः स्वामिघातकाः ॥” तिस्र इति वक्तव्ये छान्दसत्वात् त्रय इत्युक्तम् । सिंहप्रसूताश्च स्त्रियो बोध्याः । “भानौ सिंहगते चैव यस्य गौः संप्रसूयते । मरणं तस्य निर्द्दिष्टं षड्भिर्मासैर्न संशयः ॥ * ॥ अत्र शान्तिं प्रवक्ष्यामि येन सम्पद्यते शुभम् । प्रसूतां तत्क्षणादेव तां गां विप्राय दापयेत् ॥ ततो होमं प्रकुर्व्वीत घृताक्तै राजसर्षपैः । आहुतीनां घृताक्तानामयुतं जुहुयात्ततः ॥” व्याहृतिभिश्चायं होमः । “सोपवासः प्रयत्नेन दद्याद्विप्राय दक्षिणाम् ॥” अपि च । “सिंहराशौ गते सूर्य्ये गोप्रसूतिर्यदा भवेत् । पौषे च महिषी सूते दिवैवाश्वतरी तथा ॥ तदानिष्टम्भवेत् किञ्चित् तच्छान्त्यै शान्तिकञ्चरेत् । अस्य वामेतिसूक्तेन तद्विष्णोरितिमन्त्रतः ॥ जुहुयाच्च तिलाज्येन शतमष्टोत्तराधिकम् । मृत्युञ्जयविधानेन जुहुयाच्च तथायुतम् । श्रीसूक्तेन ततः स्नायात् शान्तिसूक्तेन वा पुनः ॥” इत्यद्भुतसागरे नारदः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसव पुं।

प्रसवनम्

समानार्थक:प्रसूति,प्रसव

3।2।10।2।2

विधा समृद्धौ स्फुरणे स्फुरणा प्रमितौ प्रमा। प्रसूतिः प्रसवे श्च्योते प्राधारः क्लमथः क्लमे॥

पदार्थ-विभागः : , क्रिया

प्रसव पुं।

फलम्

समानार्थक:व्युष्टि,प्रसून,प्रसव

3।3।208।2।1

भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु। स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने॥

पदार्थ-विभागः : , द्रव्यम्

प्रसव पुं।

पुष्पम्

समानार्थक:सुमनस्,पुष्प,प्रसून,कुसुम,सुम,पीलु,प्रसव

3।3।208।2।1

भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु। स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने॥

अवयव : पुष्पमधुः,पुष्परेणुः

 : अविकसितपुष्पम्, विकासोन्मुखपुष्पम्, ईषद्विकासोन्मुखपुष्पम्, पाटलकुसुमः, जपा, तिलपुष्पम्

पदार्थ-विभागः : अवयवः

प्रसव पुं।

उत्पादः

समानार्थक:प्रसव

3।3।208।2।1

भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु। स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसव¦ पु॰ प्र + सू--भावादौ अप्।

१ गर्भमोचने

२ उत्पत्तौ

३ कार्ये

४ फले

५ कुसुमे

६ अपत्ये च मेदि॰ नारीणां गर्घमुक्तिकालश्च भावप्र॰ उक्तो यथा
“नवमे दशमे मासि नारी नर्भं प्रसूयते। एकादशेद्वादशे वा ततोऽन्यत्र विकारतः”। वैकृतं यथा
“गर्गउवाच
“अकालप्रसवा नार्य्यः कालातीताः प्रजास्तथा। विकृतप्रसवाश्चैव युग्मप्रसवनास्तथा। अमानुषा अवण्डाश्चनजातव्यञ्जनास्तथा। हीनाङ्गा अधिकाङ्गाश्च जायन्तेयदि वा स्त्रियः। पशवः पक्षिणश्चैव तथैव च सरी-सृपाः। विनाशं तम्य देशस्य नृपस्य च विनिर्दिशेत्। निर्वासयेत्तां नृपतिः स्वराष्ट्रात् स्त्रियञ्च, पूज्याश्च ततोद्विजेन्द्राः। किमिच्छिकैर्ब्राह्मणतर्पणञ्च लोके ततः शा-न्तिमुपैति पापम्” मात्स्ये

२०

९ अ॰।
“भानौ सिंहगतेचैव यस्य गौः सप्रसूयते। मरणं तस्य निर्दिष्टं षड्-भिर्मासैर्न संशयः। अत्र शान्तिं प्रवक्ष्यामि येन सम्प-द्यते शुभम्। प्रसुतां तत्क्षणादेव तां गां विप्रायदापयेत्। ततो होमं प्रकुर्वीत घृताक्तैराजसर्षपैः। आहुतीनां घृताक्तानामयुतं जुहुयात्ततः” नारदः।
“प्रसबविकारे स्त्रीणां द्वित्रिचतुःप्रभृति सम्प्रसूतौ वा। हीनातिरिक्तकाले च देशकुलसङ्क्षयो भवति। बडवोष्ट्रमहिमगोहस्तिनीषु यमलोड्भवे मरणमेमाम्। षण्मा-[Page4497-b+ 38] सात् सूतिफलं शान्तौ श्लोकौ च गर्गोक्तौ
“नार्य्यःपरस्य विषये त्यक्तव्यास्ता हितार्थिना। तर्पयेच्च द्विजानकामैः शान्तिं चैवात्र कारयेत्। चतुष्पदाः स्वयूथेभ्य-स्त्यक्तव्याः परमूमिषु। नगरं स्वामिनं यूथमन्यथा हिविनाशयेत्” वृ॰ सं॰

४६ अ॰। सुखव्रसवप्रकारः ज्यो॰त॰ उक्तो यथा
“अस्ति गोदावरीतीरे जम्भला नामराक्षसीं। तस्याः स्मरणमात्रेण विशल्या गर्भिणीभवेत्”।
“पञ्च रेखाः समुल्लिख्य तिर्य्यगूर्द्ध्वक्रमेण हि। पदानि

१६ षड्दशापाद्य त्वेकमाद्ये मुनौ

७ त्रयम्। नबमे सप्त दद्यात्तु वाणं

५ पञ्चदशे तथा। द्वितीयेऽष्टाव-ष्टमे षट् दिशि

१० द्वौ षोडशे श्रुति

४ म्। एकादिना समंदेयमिच्छार्द्धाङ्कं त्रिकोणके। तदा द्वात्रिं शदादिः स्यात्चतुः कोष्ठेषु सर्वतः। दर्शनाद्धारणात्तासां शुभं स्यादेषुकर्मसु। द्वात्रिंशत् प्रसबे नार्य्याश्चतूस्त्रिंशद्गमे नृणाम्। भूतारिष्टेषु पञ्चाशद् मृतापत्यासु वै शतम्। द्वासप्रतिस्तुसन्ध्यायां चतुः षष्टीरणाध्वनि। विषे विंशो धान्यकीटे-ष्वष्टाविंशतिरेव च। चतुरष्टौ

३२ च बालानां रोदनेपरि कीर्त्तिता”। स्थानविशेषादिस्थग्रहभेदानां विकृत-प्रसवसूचकताभेदः वृ॰ जा॰ उक्तो यथा
“उदयस्थेऽपि वा मन्दे कुजे वास्तं

७ समागते। स्थितेवाऽन्तःक्षपानाथे शशाङ्कसुतशुक्रयोः। शशाङ्के पाप-लग्ने वा वृश्चिकेश (कुज) त्रिभागगे। शुभैःस्वाय

२ ।

११ । स्थितैर्जातः सर्पस्तद्वेष्टितोऽपि वा। चतुष्पदे गते भानौशेषैर्वीर्य्यसमन्वितैः। द्वितनुस्थैश्च यमलौ भवतःकोशवेष्टितौ। छागसिंहवृषैर्लग्ने तत्स्थे सौरेऽथ वाकुजे। राश्यं शसदृशे गात्रे जायते नालवेष्टितः”। स्थानभेदे प्रसवसूचकयोगः वृ॰ जा॰ उक्ती यथा
“पूर्णे शशिनि स्वराशिगे सौम्ये लग्नगते शुभे सुखे। लग्नः जलजेऽस्तगेऽपि वा चन्द्रे पोतगता प्रसूयते। आप्योदयमाप्यगः शशीसम्पूर्णः समवेक्षतेऽथ वा। मेषूरणबन्धुलग्नः ग स्यात् सूतिः सलिले न संशयः। उदयोडुप-योर्व्यय

१२ स्थिते गुप्त्यां पापनिरीक्षिते यमे। अलिकर्कि-युते विलग्नगे सौरे शीतकरेक्षितेऽवटे। मन्देऽब्जगतेविलग्नगे बुधसूर्य्येन्दू निरीक्षिते क्रमात्। क्रीडाभवनेसुरालये शेखरभूमिषु च प्रसूयते। नृलग्नगं प्रेक्ष्य कुजःश्मशाने रम्ये सितेन्दूगुरुरग्निहीत्रे। रविर्नरेन्द्रामरगो-कुलेषु शिल्पालये ज्ञः प्रसवं करोति। राश्यंशसमानगो-चरे मार्गे जन्म चरे न्यिरे गृहे। स्वर्क्षांशिगते स्वमन्दिरे[Page4498-a+ 38] बलयोगात् फलमंशकर्क्षयोः। आरार्कजयोस्त्रिकोणगेचन्द्रेऽस्ते च विसृज्यतेऽम्बया। दृष्टेऽमरराजमन्त्रिणादीर्घायुः सुखभाक् च स स्मृतः। पापेक्षिते तुहिनगावुदये कुजेऽस्ते

११ त्यक्तो विनश्यति कुजार्कजयोस्तथाये। सौम्येऽपि पश्यति तथाविधहस्तमेति सौम्येतरेषु पर-हस्तगतोऽप्यनायुः। पितृमातृगृहेषु तद्बलात्तरुशाला-दिषु नीचगैः शुभैः। यदि नैकगतौ तु वीक्षितौ ल-ग्नेन्दू विजने प्रसूयते। मन्दर्क्षांशे शशिनि हिवुके भ-न्ददृष्टेऽब्जगे वा तद्युक्ते वा तमसि शयने नीचसंस्थैश्चभूमौ। यद्वद्राशिर्व्रजति हरिजं गर्भमीक्षस्तु तद्वा पापै-श्चन्द्रात् स्मर

७ सुख

४ गतैः क्लेशमाहुर्जनन्याः”। अथसूतिकागृहमानम्
“अष्टहस्तायतञ्चारु चतुर्हस्तविशा-लकम्। प्राचीद्वारमुद्ग्द्वारं विदध्यात् सूतिकागृहम्”। आसन्नपसवायालक्षणमाह
“याते हि शिथिले कुक्षीमुक्ते हृदयबन्धने। सशूले जघने नारी विज्ञेया प्रसवोतसुका। आसन्न{??}सवायास्तु कटीपृष्ठन्तु सव्यथम्। भवेन्मुहुः प्रवृत्तिश्च मूत्रस्य च मलस्य च”। अथासन्नप्रस-वाया उपचारः
“तैलेनाभ्यक्तगात्राणां संस्नातामुष्णा-रिणा। यबागूम्पाययेत् कोष्णां मात्रया घृतसयुताम्। कृतोपधाने मृदुभिर्विस्तीर्णे शयने शनैः। आभुग्नसक्थि चोत्ताना नारी तिष्ठेद्व्ययान्विता”। (अभुग्नसक्थि असङ्कोचितोरुः) अथ धात्री
“चतस्रो-ऽशङ्कनीयाश्च स्रावणे कुशला हिताः। वृद्धः परिचरेयुस्ताः सम्यक् छिन्ननखाः स्त्रियः”। अथ त{??}कृत्यम्
“अपत्यमार्गं तैलेन समभ्यज्य समन्ततः। एका तुतासु सुभगे! प्रवाहस्वेति तां वदेत्। अव्यथा माप्रवाहिष्ठाः प्रवाहेथा व्यथा यदि। प्रवाहेथाः शनैपूर्वं प्रगाढञ्च ततःपरम्। ततो ग ढनरं गर्भे योनि-द्दारमुपागते। अपरासहितो गर्भो यावत् पतति भू-तले”। व्यथारहितायाः प्रवाहणाद्वैगुण्यमाह
“मूकंवा बधिरं कुब्जं श्वासकामक्षयान्वितम्। सूते स्रस्ततनुंवालमकाले च प्रवाहणात्” भावप्र॰। नवममाठादिप्रस-वकालश्च नारीणामन्यजन्तूनां मासाभेदाअन्यत्रा दृयाः

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसव¦ m. (-वः)
1. Bringing forth, bearing, (as young.)
2. Birth, pro- duction.
3. Offspring, posterity.
4. Fruit.
5. A blossom, a flower.
6. Source, origin. E. प्र before, सू to bear, aff. अप् |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसवः [prasavḥ], 1 Begetting, generation, procreation, birth, production; प्रसवविकारो स्त्रीणां द्वित्रिचतुःप्रभृति संप्रसूतौ वा । हीनातिरिक्तकाले च देशकुलसंक्षयो भवति Bṛi. S.

Child-birth, delivery, confinement; an in आसन्नप्रसवा.

Offspring, progeny, young ones, children; oft. at the end of comp.; केवलं वीरप्रसवा भूयाः U.1; Ku.7.87.

Source, origin, brith-place (fig. also); प्रसवः कर्मफलस्य भूरिणः Ki.2.43.

Flower, blossom; प्रसवविभूतिषु भूरुहां विरक्तः Śi.7.42; नीता लोध्रप्रसवरजसा पाण्डुतामानने श्रीः Me.67; कुन्दप्रसवशिथिलं जीवितम् 113; R.9.28; Ku.1.55;4.14; Ś.5.9; Māl.9.27.31; U.2.2.

A fruit, product; यज्ञप्रसववर्जिताः Mb.12.18.46.

Ved. Extracting Soma juice; अपुत्रः प्रसवेनार्थी वनवासमुपावसत् Mb.13.4.6.

Setting in motion.

A current, stream.

Excitement, animation.

Enjoining, ordering.

Assistance, help.

pursuit, acquisition. -Comp. -उन्मुखः a. about to be delivered or confined; पतिः प्रतीतः प्रसवोन्मुखीं प्रियां ददर्श R.3.12. -कालः the time of delivery or bringing forth. -गृहम् a lying-in-chamber.-धर्मिन् a. productive, prolific. -बन्धनम् the foot-stalk of a leaf or flower, peduncle. -वेदना, -व्यथा pangs of child-birth, throes. -स्थली a mother.

सथानम् a place for delivery.

a nest.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसव/ प्र-सव 1. 2. 3. प्र-सव. See. प्र-3. सुand प्र-1. 2. सु.

प्रसव/ प्र-सव m. (for 2. and 3. See. p. 698 , col. 1) the pressing out ( सोमjuice) RV. S3rS.

प्रसव/ प्र-सव m. (for 1. प्र-3. सु)setting or being set in motion , impulse , course , rush , flight RV. AitBr.

प्रसव/ प्र-सव m. stimulation , furtherance , aid RV. AV. Br. etc.

प्रसव/ प्र-सव m. pursuit , acquisition VS.

प्रसव/ प्र-सव m. =next TBr. 1.

प्रसव/ प्र-सव m. ( ifc. f( आ). ; for 1. 2. See. above ) begetting , procreation , generation , conception , parturition , delivery , birth , origin VS. etc.

प्रसव/ प्र-सव m. augmentation , increase MBh.

प्रसव/ प्र-सव m. birthplace ib. S3am2k.

प्रसव/ प्र-सव m. offspring , posterity Mn. MBh. etc. ( किसलय-प्र्, " a young shoot " Ragh. )

प्रसव/ प्र-सव m. a flower MBh. Ka1v. Sus3r. (also n. R. )

प्रसव/ प्र-सव m. fruit L.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of भृगु. वा. ६५. ८७.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसव पु.
(प्र + सु + अच्) (‘ब्रह्मा’ नाम के ऋत्विज् का) अनुदेश, आप.श्रौ.सू. 1.16.4; किसी विशिष्ट कर्म के अनुष्ठान के लिए अध्वर्यु की ‘ब्रह्मा’ द्वारा दी गई सहमति, आप.श्रौ.सू. 1.16.6 भाष्य-अनुज्ञा। इसमें उन कार्यों से सम्बद्ध शब्द समाहित है, जिनके लिए अध्वर्यु उसकी अनुमति चाहता है ः ‘ब्रह्मन् अपः प्रणेष्यामि’ और प्रसव होगा ‘ओम् प्रणय’ आदि 3.19.1-2 (दर्श); विभिन्न स्तोत्रों के गायन के लिए ‘प्रस्तोता’ को ब्रह्मा और मैत्रावरुण की सहमति, 14.9.7।

"https://sa.wiktionary.org/w/index.php?title=प्रसव&oldid=502784" इत्यस्माद् प्रतिप्राप्तम्