प्रहेलिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहेलिका, स्त्री, (प्रहिलति अभिप्रायं सूचय- तीति । प्र + हिल अभिप्रायसूचने + क्वुन् । टापि अत इत्वम् ।) दुर्विज्ञानार्थप्रश्नः । कूटार्थ- भाषिता कथा । हेयालि इति भाषा । तत्- पर्य्यायः । प्रवल्हिका २ । इत्यमरः । १ । ६ । ६ ॥ प्रवह्लिका ३ प्रवह्लिः ४ प्रवह्ली ५ प्रहेलिः ६ । इति भरतः ॥ प्रश्नदूती ७ प्रवह्लीका ८ । इति शब्दरत्नावली ॥ तस्य लक्षणम् । “व्यक्तीकृत्य कमप्यर्थं स्वरूपार्थस्य गोपनात् । यत्र बाह्यान्तरावर्थौ कथ्येते सा प्रहेलिका ॥ सा द्विधार्थी च शाब्दी च विख्याता प्रश्नशासने । आर्थी स्यादर्थविज्ञानात् शाब्दी शब्दस्य भङ्गतः ॥” आर्थी । यथा, -- “तरुण्यालिङ्गितः कण्ठे नितम्बस्थलमाश्रितः । गुरूणां सन्निधानेऽपि कः कूजति मुहुर्मुहुः ॥” पानीयकुम्भ इति ॥ शाब्दी यथा, -- “सदारिमध्यापि न वैरियुक्ता नितान्तरक्ताप्यसितैव नित्यम् । यथोक्तवादिन्यपि नैव दूती का नाम कान्तेति निवेदयन्ति ॥” सारिका । इति विदग्धमुखमण्डनम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहेलिका स्त्री।

दुर्विज्ञानार्थः_प्रश्नः

समानार्थक:प्रवह्लिका,प्रहेलिका

1।6।6।1।4

प्रबन्धकल्पना कथा प्रवह्लिका प्रहेलिका। स्मृतिस्तु धर्मसंहिता समाहृतिस्तु संग्रहः॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहेलिका¦ स्त्री प्र + हेल--इन् संज्ञायां कन्। दुर्विज्ञानार्थप्रश्ने(हें यालि) अमरः। तद्भेदलक्षणादि विदग्धमु॰ उक्तं यथा
“व्यक्तीकृत्य कमप्यर्थं स्वरूपार्थस्य गोपनात्। यत्र बाह्या-न्तरावर्थौ कथ्येते सा प्रहेलिका। सा द्विधार्थी च शा-व्दी च विख्याता प्रश्नशासने। आथीं स्यादर्थविज्ञानात्शाब्दी शब्दस्य भङ्गतः” आर्थी यथा
“तरुण्यालिङ्गितःकण्ठे नितम्बस्थलमाश्रितः। गुरूणां सन्निधानेऽपि कःकूजति सुहुर्मुहुः” (ईषदूनजलपूर्णकुम्भः उत्तरम्) शाब्दीयथा
“सदारिमध्यापि न वैरियुक्ता नितान्तरक्ताप्यसितैवनित्यम्। यथोक्तवादिग्यपि नैव द्वती का नाम कान्तेतिनिवेदयन्ती” (सारिका उत्तरम्) काव्यादर्शे तु
“प्रहेलिकाप्रकाराणां पुनरुद्दिश्यते गतिः। क्रीडागोष्ठीविनोदेषुतज्ज्ञैराकीर्णमन्त्रणे। परव्यामोहने चापि सोपयोगाःप्रहेलिकाः। आहुः समासतां

१ नाम गूढार्थां पदस-न्धिना। वञ्चिता

२ ऽन्यत्र रूढेन यत्र शब्देन वञ्चना। व्युत्क्रान्ता

३ ऽतिव्यवहितप्रयोगान्मोहकारिणी। सा स्यात्प्रमुषिता

४ यस्यां दुर्बोधार्था पदावली। समानरूपा

५ गौणार्थारोपितैर्ग्रथिता पदैः। परुषा

६ लक्षणास्तित्वमा-त्रव्युत्पादितश्रुतिः। संख्याता

७ नाम संख्यानं यत्रव्यामोहकारणम्। अन्यथा भासते यत्र वाक्यार्थः साप्रकल्पिता

८ । वा नामान्तरिता

९ नाम यस्यं नानार्थ-कल्पना। निभृता

१० निभृतान्यार्था तुल्यधर्मस्पृशा[Page4503-b+ 38] गिरा। समानशब्दो

११ पन्यस्तशब्दपर्य्यायसाधिता। संमू-ढा

१२ नाम या साक्षान्निर्दिष्टार्थापि मूढये। योगमाला-त्मिका नाम या स्यात् सा परिहारिका

१३ । एक-च्छन्ना

१४ श्रितं व्यक्तं यस्यामाश्रयगोपनम्। सा भवे-दुभयच्छन्ना

१५ यस्यामुभयगोपनम्। सङ्कीर्णा

१६ नामसा यस्यां नानालक्षणसङ्करः। एताः षोडश नि-र्दुष्टाः पूर्वाचार्य्यैः प्रहेलिकाः। दुष्टप्रहेलिकाश्चान्या-स्तैरधीताश्चतुर्दश”। एताः समागताप्रभृतयः षोडशप्रहेलिकाः पूर्वाचार्य्यैः निर्दुष्टाः अदुष्टत्वेन कथिताःइत्यर्थः, तैः पूर्वाचार्य्यैरेव अन्याः चतुर्दश दुष्टाः प्रहे-लिकाः च्युताक्षरादिकाः अधीता पठिताः सदोषत्वेनकीर्त्तिता इत्यर्थः”। एतासामुदाहरणानि तत्र दृश्यानि। ताश्चतुर्दश सरस्वतीकण्ठा॰ दृश्याः।
“काम्यान्तर्गडु-भूतत्वात् नालङ्कारः प्रहेलिका” सा॰ द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहेलिका¦ f. (-का) An enigma, a riddle, a puzzling or enigmatical ques- tion. E. प्र before, हिल् to play and इन्-संज्ञायां कन् aff. It is thus defined in Va4chaspatya. “व्यक्तीकृत्य कमप्यर्थं स्वरूपार्थस्य गोपनात् | यत्र बाह्यान्तरावर्थौ कथ्यते सा प्रहेलिका ||”

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहेलिका/ प्र- ( Ka1vya7d. , 6 kinds) f. an enigma , riddle , puzzling question.

"https://sa.wiktionary.org/w/index.php?title=प्रहेलिका&oldid=502967" इत्यस्माद् प्रतिप्राप्तम्