प्राग्ज्योतिषः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राग्ज्योतिषः, पुं, (प्राक् ज्योतिषं नक्षत्रं यत्र । तदुक्तं कालिकापुराणे । “अत्रैव हि स्थितो ब्रह्मा प्राङ् नक्षत्रं ससर्ज ह । ततः प्राग्ज्योतिषाख्येयं पुरी शक्रपुरीसमा ॥”) कामरूपदेशः । इति हेमचन्द्रः । ४ । २२ ॥ स तु नरकराजपुरम् । यथा, -- श्रीभगवानुवाच । “करतोया सत्यगङ्गा पूर्ब्बभागावधिश्रिता । यावल्ललितकान्तास्ति तावद्देशं पुरं तदा ॥ तत्र देवी महामाया योगनिद्रा जगत्प्रसूः । कामाख्यारूपमादाय सदा तिष्ठति शोभना ॥ अत्रास्ति नदराजोऽयं लौहित्यो ब्रह्मणः सुतः । अत्रैव दशदिक्पालाः स्वे स्वे पीठे व्यवस्थिताः ॥ अत्र स्वयं महादेवो ब्रह्मा चाहञ्च सर्व्वदा । चन्द्रः सूर्य्यश्च सततं वसतेऽत्रैव पुत्त्रक ! ॥ सर्व्वे क्रीडार्थमायाता रहस्यदेशमुत्तमम् । अत्र श्रीः सर्व्वतो भद्रा भोग्यमत्र सदा बहु ॥ अत्रैव हि स्थितो ब्रह्मा प्राङ्नक्षत्रं ससर्ज्ज ह । ततः प्राग्ज्योतिषाख्येयं पुरी शक्रपुरीसमा ॥ अत्र त्वं वस भद्रन्ते ह्यभिषिक्तो मया स्वयम् । ततो विदर्भराजस्य पुत्त्रीं मायाह्वयां हरिः । पुत्त्रार्थे वरयामास नरकस्य समां गुणैः ॥” इति कालिकापुराणे ३७ अध्यायः ॥ (इदानीं प्रसिद्धमासामप्रदेशकियदंशकुचविहार- कामरूपं पुरा प्राग्ज्योतिषाख्ययाभिहितम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=प्राग्ज्योतिषः&oldid=151830" इत्यस्माद् प्रतिप्राप्तम्