सामग्री पर जाएँ

प्रातिपदिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रातिपदिकः, पुं, (प्रतिपदि तिथौ भव इति । प्रतिपद् + “कालात् ठञ् ।” ४ । ३ । ११ । इति ठञ् ।) अग्निः । यथा, -- “इत्थम्भूतो महानग्निर्ब्रह्मक्रोधोद्भवो महान् । उवाच देवं ब्रह्माणं तिथिर्मे दीयतां प्रभो ! ॥ यस्यामहं समस्तस्य जगतः ख्यातिमाप्नुयाम् ॥ ब्रह्मोवाच । देवानामथ यक्षाणां गन्धर्व्वाणाञ्च सत्तम ! । आदौ प्रतिपदा येन त्वमुत्पन्नोऽसि पावक ! ॥ त्वत्पदात् प्रातिपदिकं सम्भविष्यन्ति देवताः । अतस्ते प्रतिपन्नाम तिथिरेषा भविष्यति ॥” इति वराहपुराणम् ॥ (प्रतिपदे धातुभिन्नपदे भव इति । प्रति- पद + ठक् ।) नाम्नि, क्ली । यथा । अधातुविभ- क्त्यर्थवत् प्रातिपदिकम् । इति सुपद्मव्याकरणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रातिपदिक¦ त्रि॰ प्रतिपदायां तिथौ भवः
“कालाट् ठञ्” पा॰ ठञ्।

१ प्रतिपदायां तिथौ भवे

२ तत्राविर्भूते वह्नौ पु॰
“आदौ प्रतिपदा येन त्वमुत्पन्नोऽसि पावक!। त्वत्पदात्प्रातिपदिकं संभविष्यन्ति देवताः” वराहपु॰।

३ नाम्निशब्दभेदे
“यत् प्रातिपदिकं नाम तन्नाम्नो नातिरिच्यते” शब्दश॰। तल्लक्षणन्तु
“अर्थवदघातरप्रत्ययः प्रातिपदिकम्”
“कृत्तद्धितससासाश्च” पा॰ व्याख्याते चैते सरलायामस्माभिः
“अधातुरप्रत्यय इति पुंलिङ्गनिर्देशस्त परवल्लिङ्गं द्वन्द्वतत्पुरुषयोरित्यभिधानात्। एतत्सूत्रे परसूत्रे चार्थव-त्त्वमेतत्सज्ञाफलीभूतबिभक्तीतरसमभिव्याहारानपेक्षयालोकेऽर्थबोधजनकत्वम् अन्थथाऽधातुरिति पर्युदासेनव्याख्यानाद्वाऽर्थवत्त्वे सादृश्यग्रहणेन सिद्धे उत्तरसूत्रेकृदादीनामनर्थकानामसिद्धेश्चार्थवत्त्वग्रहणं व्यर्थं स्यात्। अहन्निति धातौ काण्डे इत्यादि प्रत्ययान्ते च एतत्-साद्यविभक्त्यनपेक्षत्वेऽपि तदितरानपेक्षत्वसत्त्वेऽपिअधातुरप्रत्यय इति तत्पर्युदासः। एकदेशवर्णेऽर्थबोध-जनकत्वाबावान्नातिप्रसङ्गः। अत्र प्रत्ययपदं प्रत्ययप्रत्य-[Page4523-b+ 38] यान्तपरं तन्त्रावृत्त्यैवोभयग्रहणादित्याह (प्रत्ययं प्रत्य-यान्तञ्चेति) सि॰ कौ॰)। अतएव भाष्ये
“न लोके केवलेनप्रत्ययेनार्थोऽवगम्यते केन तर्हि सप्रकृतिकेन” इत्युक्तम् ह-रिणाप्युक्तम्।
“धात्वादीनां विशुद्धानां लौकिकार्थो नविद्यते। कृत्तद्धितानामर्थश्च केवलानामलौकिकः। प्रा-ग्विभक्तेस्तदन्तस्य तथैवार्थो न विद्यते” इति। भू सत्ता-यामित्यादौ कर्मण्यणित्यादौ चार्थकथनन्तु अलौकिकार्थ-कथनमात्रं प्रक्रियादशायामिति वेदितव्यम्
“ब्राह्मणार्थोयथा नास्ति कश्चिद् ब्राह्मणकम्बले। देवदत्तादयो वाक्येतथैव स्युर्निरर्थकाः” इत्युक्तेरखण्डवाक्यस्यापि बोधकत्वा-त्तस्यापि प्रातिपदिकत्वापत्त्या तदुत्तरं स्वादिप्रसङ्ग इतितन्निवारणायेदं नियमसूत्रमित्याह
“पूर्वसूत्रेणेति” सि॰ कौ॰। प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य ग्रहणमितिन्यायादेव प्रत्ययान्तत्वलाभात् कृत्तद्धितादीनामपि प्रत्यय-त्वात् पूर्वसूत्रेण संज्ञासिद्धेरिति भावः। पदमिति स्वा-तन्त्र्येण प्रयोगार्हमर्थवदित्यर्थः। अनुकरणस्य शब्दमात्रपरतया न प्रातिपदिकत्वमनुकरणस्यानितिपरस्य प्रयोगा-सत्त्वेऽपि इतिपरस्य पृथक् प्रयोगार्हत्वादिति गवि-त्ययमाहेत्यादौ न प्रसङ्गः” हरिणाप्युक्तम्। अतएव
“गवित्याह भू सत्तायामितीदृशम्। न प्रातिपदिकं नापिपदं साधु तु तत् स्मृतम्”। प्रातिपदिकार्थे द्योत्ये प्रथ-मेव। तदर्थश्च नामार्थाः
“स्वार्थो द्रव्यञ्च लिङ्गञ्च संख्याकर्मादिरेव च। अमी पञ्चैव नामार्थास्त्रवः कोषाञ्चिद-ग्निमाः” इत्युक्ताः। तत्र अलिङ्गा, नियतलिङ्गाश्च प्राति-पदिकार्थे प्रथमाया उदाहरणम्” सि॰ कौ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रातिपदिक¦ n. (-कं) A crude noun, a noun before any of its inflections are formed with appropriate affixes. m. (-कः) Fire. E. प्र and अति before, पद an inflected word, ठञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रातिपदिक [prātipadika], a. Express, explicit. -कः Fire. -कम् The crude form of a substantive, a noun in its uninflected state (before receiving the case-terminations); अर्थवद- धातुरप्रत्ययः प्रातिपदिकम् P.I.2.45.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रातिपदिक/ प्राति--पदिक mf( ई)n. (fr. -पदम्)express , explicit(639873 का-नुरोधात्ind. in conformity with express terms , expressly) Ni1lak.

प्रातिपदिक/ प्राति--पदिक n. the crude form or base of a noun , a -nnoun in its uninflected state Pa1n2. 1-2 , 45 etc. APra1t. Sa1h. (639874 -त्वn. Pa1n2. 1-2 , 45 Sch. )

प्रातिपदिक/ प्राति--पदिक m. fire L.

"https://sa.wiktionary.org/w/index.php?title=प्रातिपदिक&oldid=366905" इत्यस्माद् प्रतिप्राप्तम्