प्रायश्चित्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रायश्चित्तम्, क्ली, (प्रायस्य पापस्य चित्तं विशोधनं यस्मात् । यदुक्तं स्मृतौ । “प्रायः पापं समुद्दिष्टं चित्तं तस्य विशोधनम् ॥” यद्वा, प्रायस्य तपसः चित्तम् निश्चय इति । “पारस्करप्रभृतीनि च संज्ञायाम् ।” ६ । १ । १५७ । इत्यत्र । “प्रायस्य चित्तिचित्तयोः ।” इति वार्त्तिकोक्त्या सुट् निपात्यते च । निरु- क्तिस्तु निम्ने द्रष्टव्या ।) पापक्षयमात्रसाधनं कर्म्म । यथा, हारीतः । प्रयतत्वाद्बोपचित- मशुभं नाशयतीति प्रायश्चित्तम् ॥ * ॥ (“प्राय- श्चित्तमिति । यत्तपःप्रभृतिकं कर्म्म उपचितं सञ्चितमशुभं पापं नाशयतीति कृततत्तत्- कर्म्मभिः कर्त्तुः प्रयतत्वाद्वा शुद्धत्वादेव तत्- प्रायश्चित्तम् । तथाच पुनर्हारीतः । यथा, क्षारोपस्वेदचण्डनिर्णोदनप्रक्षालनादिभिर्वासांसि शुध्यन्ति एवं तपोदानयज्ञैः पापकृतः शुद्धि- मुपयान्ति । शुद्धिं पापक्षयम् । यथा, महा- भारते । ‘अद्भिर्गात्रान् मलमिव तमा ह्यग्निभयाद्यथा । दानेन तपसा चैव सर्व्वपापमपोहति ॥’ तेन पापक्षयमात्रसाधनत्वेन विधिबोधितं कर्म्म प्रायश्चित्तम् । मात्रार्थलाभस्तु प्रयतत्वाद्- वेत्येवकारार्थकवाशब्दात् । तथाच विश्वः । ‘वा स्याद्विकल्पोपमयोरेवार्थे च समुच्चये ।’ एवञ्च । ‘अश्वमेधेन शुध्यन्ति महापातकिनस्त्विमे ।’ इति विष्णूक्तस्याश्वमेधस्यापि प्रायश्चित्तत्वम् । पापक्षयस्वर्गोभयसाधकस्य तु तस्यापि न प्राय- श्चित्तत्वम् । प्रायश्चित्तस्य स्वध्वं सादिजनकत्वेऽपि

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रायश्चित्त¦ न॰ पापक्षयमात्रसाधनत्वेन विधिवोधिते कर्म-भेदे यघोक्तं प्रा॰ वि॰तत्राङ्गिराः
“पायो नाम तपः पोक्तं चिर्त्तः” निश्चय[Page4526-b+ 38] उच्यते। तपो निश्चयसंयुक्तं प्रायश्चित्तमिति स्मृतम्। निश्चयसंयुक्तं पापक्षयसाधनत्वेन निश्चितमित्यर्थः। तथाहारीतः
“प्रयतत्वाद्वापचितमशुभं नाशयतीति प्राय-श्चित्तम्”। एतेन पापक्षयमात्रसाधनं कर्म प्रायश्चित्त-मिति तल्लक्षणम्। मात्रशब्दात् तुलापुरुषाश्वमेधादिव्या-वृत्तिः। तत्र पापविशेषस्यैव कामाकामकृतस्य शक्तिविशेषस्यततो नाशः मतभेदेन अव्यवहार्य्यशब्दे

४७

० ।

७१ दर्शितः।
“प्रायश्चित्तैरपेत्येनो यदज्ञानं कृतं भवेत्। कामतो व्य-वहार्य्यस्तु वचनादिह जायते” याज्ञ॰ वचनस्य प्रा॰ वि॰व्याख्यानं मतभेदेन दर्शितं यथा
“कामत इति अज्ञानकृतपापप्रायश्चित्तेन कामकृतपापाप-गमो न भवति। किन्तु व्यवहार्य्य तामात्रम्। ननु सतिपापे कथं व्यवहर्य्यतामात्रम् अत्राह वचनादिति। अय-मभिप्रायः अर्द्धप्रायश्चित्तानुष्ठानेनार्द्धपापक्षयात् सम्भा-षणस्पर्शनदर्शनादिलघुव्यवहारो न दुष्टः न तु भोजन-परिणयनव्यवहारोऽपि वचनादेव यथा कुनखित्वादि-सूचितमहापापशेषसद्भावे व्यवहार्य्यतेति। अथ वाअकारप्रश्लेषादुयथोक्तेन प्रायश्चित्तेन कामतोऽषि पापक्षयोभवत्येव किन्त्वव्यवहार्य्यः पापाभावेऽपि वचनात्। अतएव मनुः
“बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः। शरणागतहन्तृंश्च स्त्रीहन्तृंश्च न संवसेत्”। याज्ञवल्क्यः
“शरणागतबालस्त्रीहिंसकान् संवसेन्न तु। चीर्णव्रतानपिसदा कृतघ्नसहितानिमान्। कृतनिर्णेजनांश्चैव न जुगु-पसेत कर्हिचित्” इति मनुवचनं त्वज्ञानकृतमहापापे बो-द्धव्यमिति। भवदेवस्तु सर्वत्र
“मृतः शुद्धिमवाप्नुयादिति” दर्शनादत्राव्यवहार्य्यतावचन निन्दार्थनित्याह। जिक-नस्तु पापकर्मणा हि द्वयं जन्यते शरीरततमप्रायत्यमात्म-मतञ्च पापं तच्च स्पर्शादौ वैटिककर्मणि चानर्हत्वलक्षणंतेनात्र कामनाकृते केवलशरीरदोषः प्रायश्चित्तेनापनीयतेजन्मान्तरकृतदुरितस्येवात्मनः शरीरान्तरस्य व्यवहारा-धिकारित्वम् आत्मगतञ्च पापं भोगादेव क्षीयते” तन्न काम-कारकृतेऽप्याहुरेके श्रुतिनिदर्शनात् इति मनुवचनादुक्त-श्रुतिविरोधाच्च”। मिताक्षरामतन्तु अवहार्य्य शब्दे दर्शितम्। प्रायत्तिश्चस्य काम्यत्वं नैमित्तिकत्वं नित्यत्वञ्च यथाहजावालः
“काम्यानां सफलार्थञ्च दोषधातार्थमेव च। अतः काम्यं नैमित्तिकञ्च प्रायश्चित्तमिति स्थितिः। च-रितव्यमतो नित्यं प्रायश्चित्तं विशुद्धये। निन्द्यैश्च ल-क्षणैर्युक्ता जाथन्तेऽनिष्क्रतैनसः”। ज्ञानाज्ञानन्नत-[Page4527-a+ 38] पापयोः प्रायश्चित्तभेदो यथा अङ्गिराः
“अकामतः कृतेपापे प्रायश्चित्तं, न कामतः। स्यात्त्वकामकृते यत्तु द्वि-गुणं बुद्धिपूर्वके”। प्रायश्चित्ताकथने दोषो यथा
“आर्त्तानां मार्गमाणानां प्रायश्चित्तानि ये द्विजाः। जा-नन्तो न प्रयच्छन्ति तेऽपि तद्दोषभागिनः। अनर्च्चितै-रनाहुतैरपृष्टैश्चैव संसदि। प्रायश्चित्तं न वक्तव्यं जा-नद्भिरपि जल्पतः। न्यायतो मार्गमाणस्य क्षत्रियादेःप्रणामिनः। अन्तरा ब्राह्मणं कृत्वा व्रतमेतत् समादिशेत्” हारोतः
“यथावयो यथाकालं यथाप्राणञ्च ब्राह्मणे। प्रायश्चित्तं प्रदातव्यं ब्राह्मणैर्धर्मपाठकैः। तस्मात् कृच्छ्रम-थाप्यर्द्धं पादं वापि (पादमेव नातो न्थूनम्) विधानतः। ज्ञात्वा बलाबलं कालं प्रायश्चित्तं प्रकल्पयेत्। अशक्ता-वनुग्रहमाह पराशरः।
“दुर्वलेऽनुग्रहः कार्य्यस्तथा वैशिशुवृद्धयोः। अतोऽन्यथा भवेद्दोषस्तस्यान्नानुग्रही भवेत्”। स्नेहादिनानुग्रहे दोषो यथा
“स्नेहाद्वा यदि वा लो-भात् मोहादज्ञानतोऽपि वा। कुर्वन्त्यनुग्रहं ये तु तत्पापं तेषु गच्छति। शास्त्रीयप्रायश्चित्तमुदाहृत्य पश्चा-दनुग्रहः कार्य्य इत्याहाङ्गिराः
“कृत्वा पूर्वमुदाहारंयथोक्तं धर्मवक्तृभिः। पश्चात् कार्य्यानुसारेण शक्त्याकुर्वन्त्यनुग्रहम्”। वृद्धत्वादिभेदात् प्रायश्चित्तं यथा
“अ-शीतिर्यस्य वर्षाणि बालो वाप्यूनषोडशः। प्रायश्चित्तार्द्ध-मर्हन्ति स्त्रियो रोगिण एव च”। पापनिष्क्रमणोपाया-नाह मनुः
“ख्यापनेनानुतापेन तपसाऽध्ययनेनच। पापकृन्मुच्यते पापात्तथा दानेन चापदि”। आप-दीत्यनेन अध्ययनतपसोर्दानमनुकल्प इत्युक्तम्। एत-द्धिंसाव्यतिरिक्तविषयम्। हिंसायान्तु दानं मुख्यम्। यथा भविष्ये
“हिंसात्मकानां सर्वेषां कीर्त्तितानां मनी-षिभिः। प्रायश्चित्तकदम्बानां दानं प्रथममुच्यते”। तथामनुः
“दानेन ब्रधनिर्णेकं सर्पादीनामशक्नुवन्। एकैकश-श्चरेत् कृच्छ्रं द्विजः पापापनुत्तये”। समान्यप्रायश्चित्ता-न्याह संवर्त्तः
“हिरण्यदानं गोदानं भूमिदानं तथैव च। नाशयन्त्याशु पापानि भहापातकजान्यपि”। यमः
“शोषणेन शरीरस्य तपसाऽध्ययनेन च। पापकृन्मुच्यतेधावात् दानेन च दमनेच”। मनुः
“कृत्वा पापं हिसन्तप्य तस्मात् पापात् प्रमुच्यते। नैतत् कुर्य्यां पुनरितिनिवृत्त्या पूयते नरः”। विष्णुपुराणम्
“प्रायश्चित्तान्यशे-षाणां कृष्णानुस्मरणं परम्”। यमः
“गवाह्निकं देवपूजावैद{??}ः सरित्प्लवः। नाशयन्माशु॰ पापानि महा-[Page4527-b+ 38] पातकजान्यपि”। गोतमः
“हिरण्यं गौर्वासोऽश्वो भूमि-स्तिला घृतमन्नमिति देयानि”। एनान्येवानादेशे विक-ल्पेन क्रियेरन् एनसि लघुनि लघूनि गुरुणि गुरूणि”। विष्णुपुराणम्
“एवं विषयभेदाद्वैव्यवस्थाप्यानि पुत्रक!। प्रायश्चित्तानि सर्वाणि गुरूणि च लथूनि च। अ-न्यथा हि महावाहो! लघूनामुपदेशतः। गुरूणा-मुपदेशो हि निषप्रयोजनतां व्रजेत्”। महाभारते
“यद्यकार्य्यशतं कृत्वा कृतं गङ्गाभिषेचनम्। सर्वंदहति गङ्गाम्भस्तूलराशिमिवानलः”। शुद्धिकारणानिव्रतान्याह विश्वामित्रः
“कृच्छ्रचान्द्रायणादीनि शुद्ध्यभ्यु-दयकारणम्। प्रकाशे वा रहस्ये वा संशयेऽनुक्तकेस्फुटे। प्राजापत्यं सान्तपनं शिशुकृच्छ्रं पराककः। अतिकृच्छ्रः पर्णकृच्छ्रः सौम्यकृच्छोऽतिकृच्छ्रकः। भहासान्तपनः शुद्ध्यै तप्तकृच्छ्रस्तु पावनः। जलोपवासकृच्छ्रश्च ब्रह्मकूर्चस्तु शोधकः। एते समस्ता व्यस्ता वाप्रत्येकमेकशोऽपि वा। पातकादिषु सर्वेषु पापकेषु प्रय-त्नतः। कार्य्याश्चान्द्रायणैर्युक्ताः केवला वा विशुद्धये। शिशुचान्द्रायणं प्रोक्तं यतिचान्द्रायणं तथा। यवमध्यंतथा प्रोक्तं तथा पिपीलिकाकृति। उपवासस्त्रिरात्रंवा मासं पक्ष तदर्द्धकम्। षडहद्वादशाहादि कार्य्यंशुद्धिफलार्थिना। उपपातकयुक्तानामनादिष्टेषु चैवहि। प्रकाशे च रहस्ये च अभिसन्ध्याद्यपेक्षया। जाति-शक्तिगुणान् दृष्ट्वा सकृदुबुद्धिकृतं तथा। अनुबन्धादिकंदृष्ट्वा सर्वं कार्य्यं यथाक्रमम्”। प्रकाशकृते पापे व्रतानिमुख्यानि रहस्यकृते जपादीनि यथा प्राजापत्या-दीन्यभिधाय मनुः
“एतैर्द्विजातयः शोध्या व्रतैरावि-ष्कृतैनसः। अनाविष्कृतपापांस्तु मन्त्रैर्होमैस्तु शोध-येत्”। देवलः
“प्रकाश उक्तं यत्किञ्चित् विंशभागोरहस्यके। त्रिंशभागः षष्टिभागः कल्प्यो जात्याद्य-पेक्षया” प्रा॰ वि॰। क्वचिद्विषयभेदे प्रायश्चित्ताभावःयथोक्तं प्रा॰ त॰अथ गोवधाद्यपवादः। पराशरः
“धूर्य्येषु वहमानेषुदण्डेनाभिहतस्य च। काष्ठेन लेष्टुना वापि पाषाणेनतु ताडितः। मूर्च्छितः पतितश्चैव मृतो वा सद्य एवच। एवं गतानां धूर्य्याणां प्रवक्ष्यामि यथाविधि। उ-त्थितस्तु पदं गच्छेत् पञ्च सप्त दशाथ वा। ग्रासं वा यदिगृह्णाति तोयं वा पिनति स्वयम्। पूर्वव्याधिविनष्टानांप्रायश्चित्तं न विद्यते” यदि व्याधिप्रयुक्तानां वृषाणां[Page4528-a+ 38] हलयोजनमात्रेण स्वल्पतरदण्डाघातेन वा मूर्च्छयापतनं भवति अनन्तरं गमनं ग्रासादौ कृते मरणं भवतितदा गमनग्रासग्रहणतोयपानैस्तदानीन्तनमरणे हेत्वभावंनिश्चित्य पूर्वव्याधिविनष्टत्वं ज्ञायते। यदि तु पूर्व-व्याधिरहित एव प्रहारजनितव्याधिना ग्रासादि कृत्वापिम्रियते तदा प्रायश्चित्तमस्त्येव। संवर्त्तः
“यन्त्रणे गो-चिकित्सायां मूढगर्भविमोचने। यत्ने कृते विपत्तिःस्यात् प्रायश्चित्तं न विद्यते। औषधं स्नेहमाहारान्दद्याद् गोब्राह्मणेषु च। प्राणिनां प्राणवृत्त्यर्थं प्राय-श्चित्तं न विद्यते। दाहच्छेदशिराभेदप्रयत्नैरुपकुवताम्। द्विजानां गोहितार्थं वा प्रायश्चित्तं न विद्यते” मूढगर्भःअन्तर्मृतगर्भः मुह वैचित्त्ये इत्थनेन तथार्थत्वात्। याज्ञवल्क्यः
“क्रियमाणोपकारे तु मृते विप्रे न पात-कम्। विपाके गोवृषाणाञ्च भेषजाग्निक्रियासु च”। विशेषमाहाङ्गिराः
“शृङ्गभङ्गेऽस्थिभङ्गे च चर्मनिर्मो-चनेऽपि वा। दशरात्रं चरेत् कृच्छ्रं सुस्था सा यदिगौर्भवेत्”। द्विजानां गवाञ्च हितार्थमित्यर्थः। अत्रप्राणरक्षार्थमाहारादिदानैर्मरणे दोषाभावस्य वाचनिक-त्वात् गललग्नान्न मरणे नात्मघातादि। एवं
“गोपालकोगवां गोष्ठे धूमं यस्तु न कारयेत्। मक्षिकालीननरकेमक्षिकाभिः स भक्ष्यते” इति देवीपुराणानुसारादग्निंप्रज्वाल्य तत्रैव स्थितस्य दैवात्तदग्निना मरणे दोषा-भावः। तत्रास्थितस्य तु अपालननिमित्तगोबधजन्य-दोषः। मिताक्षरायां पराशरः
“कूपे स्वाते चधर्मार्थे गृहदाहे च ये मृताः। ग्रामदाहे तथा घोरेप्रायश्चित्तं न विद्यते” इदन्तु बन्धनरहितस्य पशोः कदा-चित् दाहादिना मृतविषयम्। इतरत्रापस्तम्बोक्तं
“कान्तारेष्वथ वा दुर्गे गृहदाहावटादिषु। यदि तत्रविपत्तिः स्यात् पाद एको विधीयते”। इति ज्ञेयम्। एत-दुवचनं यमस्येति भवदेवभट्टः। चिकित्सायां पापाभावोयथावदुपचारे बोध्यः। न पुनः सन्निपाताभिभूतस्योदक-पानादिना। णतएव मनुः
“चिकित्सायाञ्च सर्वेषांमिथ्याप्रचरतां दमः”। काश्यपोऽप्यत्र प्रायश्चित्तमाह
“दोग्ध्री दमनातिदोहान्नासापाशदामघण्टाभरणयोज-नात् तेलपानौषधविनियोगाद्व्यापन्नानां प्रायश्चित्तंब्राह्मणेभ्यो विनिवेद्य सशिखवपनं कृत्वा प्राजापत्यकृच्छ्र-{??}चरेत्। चोर्णान्ते गां दक्षिणां ब्राह्मणाय दद्यात्धेनुं तिलधेनुं वेति”। [Page4528-b+ 38] प्रायश्चित्तपूर्वाहकृत्यम्। शङ्खलिखितौ
“वाप्य केशन-खान् पूर्वं घृतं प्राश्य बहिनिशि। प्रत्येकं नियतं का-लमात्मनो ब्रतमादिशेत्। प्रायश्चित्तमुपासीनो वाग्-यतस्त्रिसवनं स्पृशेत्”। केशधारणेच्छायां द्विगुणव्र-तांदिकमाह हारीतः
“राजा वा राजपुत्रो वा ब्रा-ह्मणो वा बहुश्रुतः। केशानां वपनं कृत्वा प्राय-श्चित्तं समाचरेत्। केशानां धारणार्थं तु द्विगुणंव्रतमाचरेत्। द्विगुणे तु व्रते चीर्णे द्विगुणा दक्षिणाभवेत्। विद्वद्विप्रनृपस्त्रीणां नेष्यते केशवापनम्। ऋते महापातकिनो गोहन्तुश्चापकीर्णिनः”। सधवा-स्त्रीणां विशेषमाह भवदेवभट्टधृतं वचनम।
“वपनंनैव नारीणां नानुव्रज्या जप्राद्रिकम्। न गोष्ठे शयनंतासां न च दध्याद्गवाजिनम्। सर्वान् केशान् समु-द्धृत्य छेदयेदङ्गुलिद्वयम्। सर्वत्रैवं हि नारीणां शिरसोमुण्डनं स्मृतम्”। पापभेदेषु प्रायश्चित्तभेदाः प्रायश्चित्तवि-वेविवेकादौ दृश्याः विस्तरभयान्नोक्ताः। तस्येदं छ। प्रायश्चित्तीय तदाचरणे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रायश्चित्त¦ m. (-त्तः) Expiation, penance. E. प्राय sin, चित्त or चित्ति reflec- tion, and सुट् aug.; hence also प्रायश्चित्ति f. (-तिः) |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रायश्चित्तम् [prāyaścittam] प्रायश्चित्तिः [prāyaścittiḥ], प्रायश्चित्तिः f.

Atonement, expiation, indemnification, a religious act to atone for sin; न संसर्गं व्रजेत् सद्भिः प्रायश्चित्ते$कृते द्विजः Ms.11.47; मातुः पापस्य भरतः प्रायश्चित्तमिवाकरोत् R.12.19. (प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते । तपोनिश्चयसंयोगात् प्रायश्चित्तमितीर्यते ॥ Hemādri).

Satisfaction, amends (in general).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रायश्चित्त/ प्रा n. ( प्रायश्-; " predominant thought " or " thought of death " See. Pa1n2. 6-1 , 157 Sch. )atonement , expiation , amends , satisfaction S3Br. Gr2S3rS. Mn. MBh. ( v , 1086 as m. ) etc.

प्रायश्चित्त/ प्रा n. N. of sev. works.

प्रायश्चित्त/ प्रा mfn. relating to atonement or expiation , expiatory Shad2vBr.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--expiation: of no use to one not devoted to नारायण. भा. VI. 1. ११, १८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PRĀYAŚCITTA : In ancient Bhārata sacred injunctions existed about religious rites to be performed for the atonement of sins committed. The following are a few of them.

Murder is that act which ends in loss of life. One who kills a brahmin is a Brahmaghātaka. Even if murder is actually committed by one man, all those involved in a conspiracy for murder are murderers. If death occurs while treating a patient it is no murder. If death occurs when you punish your son, disciple or wife it is no sin. If he who has killed a brahmin or a cow commits suicide he will be absolved from his sin. Or he should go about begging with a skull and the organ of generation of any animal. If he spends twelve years begging eating little and with repentance in his heart the Brahmaghātaka will be absolved of his sin and he will become pure. If the murder is done to serve a purpose of his he should live as a beggar for twelve years but if it is not done to gain any end of his, he need live only for six years as a beggar. If a brahmin attempts to murder another brahmin he should observe the above vow for three years. If the attempt is made by a Kṣatriya he should double the period; if by a Vaiśya or Śūdra, triple the period If a brahmin kills a Kṣatriya he need observe only three fourths of the prāyaścitta. If a brahmin kills a Vaiśya or Śūdra he need observe only an eighth part of the prāyaścitta. If he kills a woman he should observe the punishment fixed for killing a Śūdra.

If a brahmin does ‘gohatyā’ (killing a cow) he should practise penance drinking Pañcagavya (five products of the cow taken collectively). He should sleep in a cow- shed and go about feeding the cow and should also give away cows as gift. If a gohatyā is committed by a per- son of any other caste, he need observe only three fourths of the prāyaścitta. Hitting the cows by fists, piercing their body with nails and cutting their horns are to be classified under gohatyā. If one kills a cat mongoose, frog dog, or a bird, one should drink milk for three days.

Though wine, date-palm-juice sugar-cane-juice, black-palm-juice, tamarind-juice and toddy are intoxi- cants they are not classified under alcoholic liquors. Real liquor or surā is that made from rice flour. Drinking liquor is prohibited to Brahmins, Kṣatriyas and Vaiśyas. If any one of these castes drinks he should drink water after performing penance or live eating pippalī (long pepper) for a year or eat oil cake at night for a year. If one drinks water in a pot used for taking liquor one should observe the prāyaścitta for seven days. If he drinks water from a cāṇḍāla he should observe the prāyaścitta for six days. If one eats rice from a cāṇḍāla one should observe Cāndrāyaṇa. (an expiatory penance of decreasing and then increasing food according to the waxing and waning of the moon). If one eats food in the house of a Śūdra during times of distress, one would be absolved of the sin by repentance alone. Taking another man's property and appropriating it to himself is called theft. He who steals gold should be struck on the head by a wooden pestle by the king and killed. Alternatively he should live for twelve years with matted hair, eating one time a day only such things as leaves, fruits and roots and lying on earth. He who steals diamonds, pearls, corals, copper, silver, iron, bronze and granite stones should fast for twelve years. He who enjoys sexual intercourse with his father's wife, own sister, daughter of his preceptor or wife of the preceptor should burn himself in a hot iron pot. Alter- natively he should embrace a red hot iron idol of a woman and die. (Chapters 183 and 184, Agni Purāṇa).


_______________________________
*1st word in right half of page 606 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रायश्चित्त न.
एक प्रायश्चित्तिककर्म (धू. प्रायश्चित्तं विनष्टस्य कर्मणः सन्धानम्), आप.श्रौ.सू. 9.1.1; यज्ञीय नियम का उल्लङ्घन करने पर (विध्यपराधे, आ.श्रौ.सू. 3.1०.1) आवश्यक शमन इस दृष्टि से कि इस प्रकार (यज्ञीय नियम के भङ्ग) से जो क्षति होती है, वह सत्फल में परिणत हो जाय; धार्मिक कर्तव्यों की उपेक्षा, सोद्देश्य अथवा निरुद्देश्य, स्वाभाविक न्यूनताओं (त्रुटियों), दुर्घटनाओं अथवा नैतिक नियमों के विरुद्ध वास्तविक अपराधों के बीच कोई अन्तर नहीं किया गया है। सामान्य रूप से प्रायश्चित्त के अनुष्ठान का कार्य ब्रह्मा करता है; श.ब्रा. 6.12. किन्तु इसका अनुष्ठान अध्वर्यु भी कर सकता है। इसका अनुष्ठान त्रुटि होने के तुरन्त बाद किया जाता है, आप.श्रौ.सू. 9.1.5; और इसमें जप, होम, आदि समाहित है, द्रष्टव्य-श्रौतप.नि. 9.61; -होम 39.33०। प्रायश्चित्ति (कल्प) स्त्री. एक प्रकार की प्रायश्चित्तिक कर्मकाण्डीय प्रक्रिया जिसमें दो आज्य-भाग रक्षितवन्त (सा.वे.) एवं संयाज (सा.वे.) पार्यद्वत् हैं, मा.श्रौ.सू. 5.1.1.27; श्रौ.को. (अं.) I.54०; श.ब्रा. 12.4.1.2।

"https://sa.wiktionary.org/w/index.php?title=प्रायश्चित्त&oldid=479572" इत्यस्माद् प्रतिप्राप्तम्