प्रियवादी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रियवादी, [न्] त्रि, (प्रियं मनोज्ञं वदतीति । वद् + णिनिः ।) मनोज्ञवक्ता । यथा, चाणक्ये । “कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सविद्यानां कः परः प्रियवादिनाम् ॥” (यथा च पञ्चतन्त्रे । २ । १७४ । “सुलभाः पुरुषा राजन् ! सततं प्रियवादिनः । अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥”)

"https://sa.wiktionary.org/w/index.php?title=प्रियवादी&oldid=152182" इत्यस्माद् प्रतिप्राप्तम्