प्लवगः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लवगः, पुं, (प्लवेन प्लुतगत्या गच्छतीति । गम् + “अन्येष्वपि दृश्यते ।” ३ । २ । १०१ । इति डः ।) वानरः । (यथा, रघुवंशे । १२ । ७० । “स सेतुं बन्धयामास प्लवगैर्लवणाम्भसि । रसातलादिवोन्मग्नं शेषं स्वप्नाय शार्ङ्गिनः ॥”) भेकः । सूर्य्यसारथिः । इति मेदिनी । गे, ४२ ॥ प्लवपक्षी । इति शब्दरत्नावली ॥ शिरीषवृक्षः । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=प्लवगः&oldid=152374" इत्यस्माद् प्रतिप्राप्तम्