प्लीहा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्लीहा, स्त्री, (प्लिह + कः । पृषोदरादित्वात् दीर्घः । स्त्रियां टाप् ।) प्लिहरोगः । यथा, यकृत्प्लीहे च सम्बन्धे । इति बालकास्यः । इत्यमरटीकायां भरतः ॥
प्लीहा, [न्] पुं, (प्लिह + “श्वनुक्षन्पूषन्प्लीह- न्निति ।” उणा० १ । १५८ । इति कनिन् प्रत्ययेन साधुः ।) कुक्षिवामपार्श्वस्थमांसखण्डम् । पिला इति ख्यातम् । तत्पर्य्यायः । गुल्मः २ प्लिहा ३ । इत्यमरभरतौ ॥ अस्य निदानम् । “विदाह्यभिष्यन्दिरतस्य जन्तोः प्रदुष्टमत्यर्थमसृक् कफश्च । प्लीहाभिवृद्धिं कुरुतः प्रवृद्धौ प्लीहोत्थमेतज्जठरं वदन्ति ॥ तद्बामपार्श्बे परिवृद्धिमेति विशेषतः सीदति चातुरोऽत्र । मन्दज्वराग्निः कफपित्तलिङ्गै- रुपद्रुतः क्षीणबलोऽतिपाण्डुः ॥” इति माधवकरः ॥ * ॥ रक्तजस्य तस्य लक्षणम् । “क्लमो भ्रमो विदाहश्च वैवर्ण्यं गात्रगौरवम् । मोहो रक्तोदरत्वञ्च ज्ञेयं रक्तजलक्षणम् ॥” * ॥ पैत्तिकस्य तस्य लक्षणम् । “सज्वरः सपिपासश्च सदाहो मोहसंयुतः । पीतगात्रो विशेषेण प्लीहा पैत्तिक उच्यते ॥” श्लैष्मिकस्य तस्य लक्षणम् । “प्लीहा मन्दव्यथः स्थूलः कठिनो गौरवान्वितः । अरोचकयुतः शीतः प्लीहा कफज उच्यते ॥” वातिकस्य तस्य लक्षणम् । “नित्यमानद्धकोष्ठः स्यान्नित्योदावर्त्तपीडितः । वेदनाभिः परीतश्च प्लीहा वातिक उच्यते ॥ दोषत्रितयरूपाणि प्लीह्न्यसाध्ये भवन्ति हि ॥” अथ तस्य चिकित्सा । “पातव्यो युक्तितः क्षारः क्षीरेणीदधिशुक्तिजः । तथा दुग्धेन पातव्याः पिप्पल्यः प्लीहशान्तये ॥ १ ॥ अर्कपत्रं सलवणं पुटदग्धं सुचूर्णितम् । निहन्ति मस्तुना पीतं प्लीहानमपि दारुणम् ॥ २ ॥ हिङ्गु त्रिकटुकं कुष्ठं यवक्षारञ्च सैन्धवम् । मातुलुङ्गरसोपेतं प्लीहशूलहरं रजः ॥ ३ ॥ पालाशक्षारतोयेन पिप्पली परिभाविता । प्लीहगुल्मार्त्तिशमनी वह्रिमान्द्यहरी मता ॥ ४ ॥ रसेन जम्बीरफलस्य शङ्ख- बाभीरजः पीतमवश्यमेव । शाणप्रम्मणं शमयेदशेषं प्लीहामयं कूर्म्मसमानमाशु ॥ ५ ॥ शरपुङ्खमूलकल्कस्तक्रेणालोडितः पीतः । प्लीहानं यदि न हरते शैलोऽपि तदा जले प्लवते ॥ ६ ॥ सुपक्वसहकारस्य रसः क्षीद्रसमन्वितः । पीतः प्रशमयत्येव प्लीहानं नेह संशयः ॥ ७ ॥ सुस्विन्नं शाल्मलीपुष्पं निशापर्य्युषितं नरः ॥ राजिकाचूर्णसंयुक्तं खादेत् प्लीहोपशान्तये ॥” ८ ॥ इति भावप्रकाशः ॥ * ॥ “पिप्पलीमधुपानाच्च यथा मधुरभोजनात् । प्लीहा विनश्यते रूद्र इति ॥ ९ ॥ केतकीपत्रजं क्षारं घृतेन सह भक्षयेत् । तक्रेण शरपुङ्खाभ्यां पीत्वा प्लीहां विना- शयेत् ॥” १० ॥ इति गारुडे १८७ । १८८ अध्यायौ ॥ (“शोणितकफप्रसादजं हृदयं तदाश्रया हि ध्वमन्यः प्राणवहाः । तस्याधो वामतः प्लीहा फुप्फुसश्च ॥” इति सुश्रुते शारीरस्थाने चतुर्थे- ऽध्याये ॥ अस्य सहेतुकलक्षणादीनि यथा, -- “अशितस्यातिसंक्षोभाद् यानयानाभिचेष्टितैः । अतिव्यवायभाराध्ववमनव्याधिकर्षणैः ॥ वामपार्श्वाश्रितः प्लीहा च्युतः स्थानात् प्रवर्द्धते । शोणितं वा रसादिभ्यो विवृद्धन्तं विवर्द्धयेत् ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्लीहा¦ स्त्री प्लिह--क पृषो॰ दीर्घः। प्लीहरोगे भरतः।
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्लीहा [plīhā], The spleen.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्लीहा f. = प्लीहन्L.