फणिचक्रम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणिचक्रम्, क्ली, (फण्याकारं चक्रम् ।) विवाहादि- कर्म्मसु शुभाशुभज्ञानार्थं सप्तविंशतिनक्षत्र- घटितसर्पाकारत्रिनाडिकचक्रम् । यथा, -- “अश्विन्यादि लिखेच्चक्रं सर्पाकारं त्रिनाडिकम् । तत्र वेधवशाज्ज्ञेयं विवाहादौ शुभाशुभम् ॥ त्रिनाडीवेधनक्षत्रमश्विन्यार्द्रायुगोत्तराः । हस्तेन्द्रमूलवारुण्यः पूर्ब्बभाद्रपदास्तथा ॥ याम्यः सौम्यो गुरुर्योनिश्चित्रा मित्रजलाह्वयम् । धनिष्ठा चोत्तरा भाद्रा मध्यनाडीव्यवस्थिताः ॥ कृत्तिका रोहिणी सर्पो मघा स्वातीविशाखके । उत्तरा श्रवणा पौष्णं पृष्ठनाडीव्यवस्थिताः ॥ अश्वादिनाडीवेधर्क्षे षष्ठं द्वितीयकं क्रमात् । याम्यादितुर्य्यतुर्य्यञ्च कृत्तिकादिद्विषट्ककम् ॥ एवं निरीक्षयेद्बेधं कन्यामन्त्रे गुरौ सुरे । पण्यस्त्रीस्वामिमित्रेषु देशे ग्रामे पुरे गृहे ॥ एकनाडीस्थधिष्टानि यदि स्युर्व्वरकन्ययोः । तदा वेधं विजानीयाद्गुर्व्वादिषु तथैव च ॥ प्रकटं यस्य जन्मर्क्षं तस्य जन्मर्क्षतो व्यधः । प्रनष्टं जन्मभं यस्य तस्य नामर्क्षतो भवेत् । द्वयोर्जन्मभयोर्व्वेधे न कर्त्तव्यं कदाचन ॥ एकनाडीस्थिता चेत् स्याद्भर्त्तुर्नाशाय चाङ्गना । तस्मान्नाडीव्यधो वीक्ष्यो विवाहे शुभमिच्छता ॥ प्राङ्नाड्या वेधतो भर्त्ता भध्यनाड्यो भयन्तथा । पृष्ठनाडीव्यधे कन्या म्रियते नात्र संशयः ॥ एकनाडीस्थिता यत्र गुरुर्मन्त्रश्च देवता । तत्र द्वेषं रुजं मृत्युं क्रमेण फलमादिशेत् ॥ समासन्ने वधे शीघ्रं दूरवेधे चिरेण तु । वेधान्तरभमानेन वर्षे दुष्टं प्रजायते ॥ प्रभुः पण्याङ्गना मित्रं देशो ग्रामः पुरं गृहम् । एकनाडीगता भव्या अभव्या वेधवर्ज्जिताः । एकराश्यादियोगे तु नाडीदोषो न विद्यते ॥” इति ज्योतिस्तत्त्वम् ॥ अपि च । “सर्पाकारो घटनविशेषः कृत्तिकादियमदैवतशेषः । पृष्ठे सुतहतिसङ्कटरोगः क्रोडे कान्तापुत्त्रवियोगः । मध्ये रेखे विहितविवाह उभयोर्म्मरणं वदति वराहः ॥ क्रोडे पृष्ठे यश उद्दामम् मध्ये क्रोडे बहुसम्मानम् । मध्ये पृष्ठे भवति विवाहो बहुसुतवित्तमिति च मुनिराह ॥” इति समयप्रदीपः ॥ * ॥ तस्य विन्यासो यथा, -- पृष्ठे १ ६ ७ १२ १३ १८ १९ २४ २५ मध्ये २ ५ ८ ११ १४ १७ २० २३ २६ क्रोडे ३ ४ ९ १० १५ १६ २१ २२ २७ ॥

"https://sa.wiktionary.org/w/index.php?title=फणिचक्रम्&oldid=152457" इत्यस्माद् प्रतिप्राप्तम्