फणी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणी, [न्] पुं, (फणास्त्यस्येति । फणा + “ब्रीह्या- दिभ्यश्च ।” ५ । २ । ११६ । इति इनिः ।) सर्पः । इत्यमरः ॥ (यथाच सुश्रुते कल्पस्थाने ४ अध्याये । “ज्ञेया दर्व्वीकराः सर्पाः फणिनः शीघ्रगामिनः । मण्डलैर्विविधैश्चित्राः पृथवो मन्दगामिनः ॥” तद्दंशनप्रतीकारविधिर्यथा, -- “फणिनां विषवेगे तु प्रथमे शोणितं हरेत् । द्वितीये मधुसर्पिर्भ्यां पाययेतागदं भिषक् ॥ नस्यकर्म्माञ्जने युञ्ज्यात्तृतीये विषनाशने । वान्तं चतुर्थे पूर्ब्बोक्तां यवागूमथ दापयेत् ॥ शीतोपचारं कृत्वादौ भिषक्पञ्चमषष्ठयोः । दापयेच्छोधनं तीक्ष्णं यवागूञ्चापि कीर्त्तिताम् ॥ सप्तमे त्ववपीडेन शिरस्तीक्ष्णेन शोधयेत् । तीक्ष्णमेवाञ्जनं दद्यात्तीक्ष्णशस्त्रेण मूर्द्ध्नि च ॥ कुर्य्यात्काकपदं चर्म्म सासृग्वा पिशितं क्षिपेत् ॥” इति च सुश्रुते कल्पस्थाने पञ्चमेऽध्याये ॥) सर्पिणीनामकौषधिः । इति राजनिर्घण्टः ॥ (केतुः । यथा, ग्रहभावप्रकाशे । “कविरत्यन्तधवलः फणी कृष्णः शनिस्तथा ॥” सीसकं अस्य विषयो यथा, -- “रसो गन्धष्टङ्गणः सोषणोऽयं फणी पिप्पलीत्येष धुस्तूरपिष्ठः जयेत् सन्निपातं द्बिगुञ्जकानुपानं भवेदर्कमूलाम्बु सव्योषचूर्णम् ॥” इति वैद्यकरसेन्द्रसारसंग्रहे ज्वराधिकारे पञ्च- वक्त्ररसे ॥ मरुवकनामौषधं यथा, -- “मारुतोऽसौ मरुवको मरुन्मरुरपि स्मृतः । फणी फणिज्झकश्चापि प्रस्थप्रष्पः समीरणः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे १ भागे ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणी f. N. of a river Cat.

"https://sa.wiktionary.org/w/index.php?title=फणी&oldid=375984" इत्यस्माद् प्रतिप्राप्तम्