फलकयन्त्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलकयन्त्र¦ न॰ सि॰ शि॰ उक्ते यन्त्रभेदे यथा
“कर्तव्यं चतुरस्रकं सुफलकं खाङ्का

९० ङ्गुलैर्विस्तृतं वि-स्ताराद्द्विगुणा

१८

० यतं सुगणकेनायाममध्ये तथा। आधारः श्लथशृङ्खलादिघटितः कार्य्या च रेखा तत-स्त्वाधारादवलम्बसूत्रसदृशी सा लम्बरेखोच्यते। लम्बंनवत्य

९० ङ्गुलकैर्विभज्य प्रत्यङ्गुलं तिर्य्यगतः प्रसार्य्य। सूत्राणि तत्रायतसूक्ष्मरेखा जीवाभिधानाः सुधिया वि-धेयाः। आधारतोऽधः खगुणा

३० ङ्गुलेषु ज्यालम्बयोगेसुषिरं च सूक्ष्मम्। इष्टप्रमाणा सुषिरे शलाका क्षे-प्याऽक्षसंज्ञा खलु सा प्रकल्प्या। षष्ट्यङ्गुलच्यासमतश्चरन्ध्रात् कृत्वा सुवृत्तं परिधौ तदङ्क्यम्। षष्ट्या घटीनांमगणांश

३६

० कैश्च प्रत्यंशकं चाम्बुपलैश्च दिग्भिः। अग्रेसरन्ध्रा तनुपट्टिकैका षष्ट्यङ्गुला दीर्घतया तथाङ्क्या” मू॰।
“अत्रादौ धातुमयं श्रीपर्ण्यादिदारुमयं वा फलकं चतु-रस्रं श्लक्ष्णं समं कर्तव्यम्। तच्च नवत्यङ्गुलविस्तारं द्वि-गुण

१८

० विस्तारदैर्घ्यम्। तत्समीपे दैर्घ्यामध्ये तस्याधारःशिथिलः शृङ्खलादिः कार्यः। आधारे धृतं यन्त्रं यथालम्बमानं स्यात् तथा धृते फलके आधारादधःसूबामव-लम्बरेखा कार्या। सा च सम्बसंज्ञा। तं लम्बं नव-तिभागं कृत्वा भागे भागे तिर्य्यग्रेस्वा दीर्घा कार्य्या। तिर्य्यकत्वं तु लम्बभवाम्मत्स्यात्। सा रेखा ज्यासंज्ञाज्ञेया। आधारादधस्त्रिंशदङ्गुलान्तरे या ज्या तस्याःलम्बस्य च सम्पाते सुषिरम्। तत्रेष्टप्रमाणा शलाकाक्षेप्या साऽक्षसंज्ञा। तस्माद्रन्ध्रात् त्रिंशदङ्गुलेन कर्क-टकेन वृत्तरेखा कार्या। सा षष्टि

६० घटिकाभिर्भगणां-सकैः खषडग्निसंख्यैः

३६

० प्रत्यंशं दशभिर्दशभिः पानी-यफलैश्चाङ्क्या। अथ ताम्रादिमयी वंशशजा काष्ठमयीवा पट्टिका षष्ट्यङ्गुला

६० दीर्घतया तैरेव फलकाङ्गुलैस्तथै-वाङ्किता कार्य्या। सा पट्टिकार्धाङ्गुलविस्तृता। एकस्मि-न्नग्रेऽङ्गुलविस्तृता कुठाराकारा कार्या। तत्र विस्तार-मध्ये छिद्रं कार्यम्। अक्षपोतायाः पट्टिकाया लम्बो-[Page4552-a+ 38] परि धृताया एक पार्श्वं यथा लम्बरेखां न जहातितथा सरन्ध्रा कार्य्येत्यर्थः” सि॰ शि॰ व्याख्या प्रमिताक्षरा।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलकयन्त्र¦ n. (-न्त्रं) An astronomical instrument invented by Bha4skara4- cha4rya.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलकयन्त्र/ फलक--यन्त्र n. an astronomical instrument invented by भास्-करGol.

"https://sa.wiktionary.org/w/index.php?title=फलकयन्त्र&oldid=376233" इत्यस्माद् प्रतिप्राप्तम्