फलश्रुतिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलश्रुतिः, स्त्री, (फलस्य कर्म्मफलस्य श्रुतिः श्रव- णम् ।) कर्म्मफलश्रवणम् । यथा, -- “फलशुतिरियं नॄणां न श्रेयो रोचनं परम् । श्रेयो विवक्षया प्रोक्तं यथा भैषज्यरोचनम् ॥” अपि च । “वेदोक्तमेव कुर्व्वाणो निःसङ्गोऽर्पितमीश्वरे । नैष्कर्म्यां लभते सिद्धिं रोचनार्था फलश्रुतिः ॥” इति श्रीभागवते ११ स्कन्धः । इति मलमासतत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=फलश्रुतिः&oldid=152559" इत्यस्माद् प्रतिप्राप्तम्