फाणित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फाणितम्, क्ली, (फण गतौ + णिच् + क्तः ।) अर्द्धा- वर्त्तितेक्षुरसः । फेणीति ख्यातम् । इत्यमर- भरतौ ॥ (यथा, महाभारते । १३ । ६४ । २३ । फल्गुनी पूर्ब्बसमये ब्राह्मणानामुपोषितः । भक्ष्यान् फाणितसंयुक्तान् दत्त्वा सौभाग्य- मृच्छति ॥”) अस्य गुणाः । गुरुत्वम् । अभिष्यन्दित्वम् । बृंहणत्वम् । कफशुक्रलत्वम् । वातपित्तश्रमनाशि- त्वम् । मूत्रवस्तिविशोधनत्वञ्च ॥ * ॥ “इक्षो रसस्तु यः पक्वः किञ्चिद्गाढो बहुद्रवः । स एवेक्षुविकारेषु ख्यातः फाणितसंज्ञया ॥” इति भावप्रकाशः ॥ (यथा च । “शिराहर्षेऽञ्जनं कुर्य्यात् फाणितं मधुसंयुतम् ॥” इति वैद्यकचक्रपाणिसंग्रहे नेत्ररोगाधिकारे ॥ “फाणितं शक्तवः सर्पि र्दधिमण्डोऽम्लकाञ्जिकम् । तर्पणं मूत्रकृच्छ्रघ्नमुदावर्त्तहरं पिबेत् ॥” इति चरके सूत्रस्थाने २३ अध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फाणित नपुं।

फाणितम्

समानार्थक:मत्स्यन्डी,फाणित,खण्डविकार

2।9।43।2।2

सौवर्चलेऽक्षरुचके तिलकं तत्र मेचके। मत्स्यण्डी फाणितं खण्डविकारः शर्करा सिता॥

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फाणित¦ न॰ फण--णिच्--क्त। गुडविकारभेदे (फेणी) अमरः
“इक्षो रमसस्तु य पक्वः किञ्चिद्गाढो बहुद्रवः। सएवेक्षुविकारेषु ख्यातः फाणितसंज्ञया” भावप्र॰।
“फाणितंगुर्वभिशन्दि वृंहणं कफशुककृन्। वातपित्तश्रमहरंमूत्रवस्तिविशोधनम्” तद्गुणास्तत्रीक्ताः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फाणित¦ n. (-तं) Raw sugar, the inspissated juice of the sugarcane. E. फण् to go, causal form, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फाणितम् [phāṇitam], Raw sugar; इक्षोः रसस्तु यः पक्वः किंचिद् गाढो बहुद्रवः । स एवेक्षुविकारेषु ख्यातः फाणितसंज्ञया ॥ Bhāva. P.; condensed juice of sugarcane (Mar. काकवी); फाणितेषु मरिचावचूर्णना सा स्फुटं कटुरपि स्पृहावहा N.14.118.

A product of milk (गोरसविकार); भक्ष्यान् फाणितसंयुक्तान् दत्वा सौभाग्यमृच्छति Mb.13.64.13.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फाणित m. ( Ni1lak. ) n. (fr. Caus. of फण्; cf. Pa1n2. 7-2 , 18 Sch. )the inspissated juice of the sugar cane and other plants A1past. MBh. Hariv. [ cf. Arab. ? ; Pers. ? ; medieval Lat. penidium.]

"https://sa.wiktionary.org/w/index.php?title=फाणित&oldid=377774" इत्यस्माद् प्रतिप्राप्तम्