फुत्कारः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फुत्कारः, पुं, (कृ + भावे घञ् । फुदित्यव्यक्तशब्दस्य कारः करणम् ।) फुत्करणम् । फु इति फु~क् इति च भाषा । फुत्कारवति पावके आहुति- निषेधो यथा, तिथ्यादितत्त्वे । “अल्पे रूक्षे सस्फुलिङ्गे वामावर्त्ते भयानके । आर्द्रकाष्ठैः समुतपन्ने फुत्कारवति पावके ॥ कृष्णार्च्चिषि सुदुर्गन्धे तथा लिहति मेदिनीम् । आहुतिं जुहुयाद्यस्तु तस्य नाशो भवेद्- ध्रुवम् ॥”

"https://sa.wiktionary.org/w/index.php?title=फुत्कारः&oldid=152674" इत्यस्माद् प्रतिप्राप्तम्