फेन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फेनः, पुं, (स्फायते वर्द्धते इति । स्फाय + “फेन- मीनौ ।” उणा० ३ । ३ । इति नक् फेशब्दा- देशश्च ।) फेणः । फेना इति भाषा । तत्- पर्य्यायः । हिण्डीरः २ अब्धिकफः ३ । इत्य- मरः । २ । ९ । १०५ । ॥ हिण्डिरः ४ । इति शब्दरत्नावली ॥ समुद्रकफः ५ जलहासः ६ फेनकः ७ । इति त्रिकाण्डशेषः ॥ स्फायते फेनः स्फायी ङ वृद्धौ नाम्नीति डेनः निपात- नात् सलुक् दन्त्यनान्तः । इत्यमरटीकायां भरतः ॥ अस्य दन्त्यनान्तस्य प्रमाणान्तरं यथा, “वानीरं गगनं फेनमूनञ्च दन्त्यनान्वितम् । आहुर्गगनमिच्छन्ति केचिन्मूर्द्धन्यणान्वितम् ॥” इति भरतसेनविरचितं सुखलेखनम् ॥ (यथा, रघुः । १३ । ११ । “मातङ्गनक्रैः सहसोत्पपतद्भि- र्भिन्नान् द्विधा पश्य समुद्रफेनान् ॥” तरलद्रव्योपरिसमुत्थितवुद्वुदाकारवस्तुमात्रम् । यथा, महाभारते । १ । ३ । ५२ । “भोः फेनं पिबामि यमिमे वत्सा मातॄणां स्तनान् पिबन्त उद्गिरन्ति ॥” * ॥ उशद्रथस्य पुत्त्रः । यथा, हरियंशे । ३१ । २९ । “उशद्रथो महाराज ! फेनस्तस्य सुतोऽभवत् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फेन पुं।

समुद्रफेनः

समानार्थक:हिण्डीर,अब्धिकफ,फेन

2।9।105।1।3

डिण्डीरोऽब्धिकफः फेनः सिन्दूरं नागसंभवम्. नागसीसकयोगेष्टवप्राणि त्रपु पिञ्चटम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, मूलकम्

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फेन m. once n. (often written फेणand prob. connected with फण्; but See. Un2. iii , 3 )foam , froth , scum RV. etc.

फेन m. moisture of the lips , saliva Mn. iii , 19

फेन n. ( m. L. )Os Sepiae (white cuttle-fish bone , supposed to be indurated foam of the sea) Car.

फेन m. N. of a man (son of उषद्-रथand father of सु-तपस्) Hariv.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PHENA : A King of the race of Uśīnara. His son was Sutapas and his grandson Auśīnara. (Harivaṁ{??}a, 1, 31, 32).


_______________________________
*3rd word in right half of page 588 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=फेन&oldid=503067" इत्यस्माद् प्रतिप्राप्तम्