बन्धनम्

विकिशब्दकोशः तः

बन्धनम्

संस्कृतभाषा[सम्पाद्यताम्]

  • बन्धः, बन्धनं, पाशः, जालम्।

अर्थः[सम्पाद्यताम्]

  • बन्धनं नाम बन्धः।

आङ्ग्लभाषा[सम्पाद्यताम्]

  • बन्धनम् - Arrest.
  • बन्धः - Bond.

अनुवादाः[सम्पाद्यताम्]

  • कन्नड - ಬಂಧ, ಬಂಧನ.
  • तेलुगु - బంధించడం.
  • हिन्दी - बन्धन, बन्ध.

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन्धनम्, क्ली, (बन्ध + भावे ल्युट् ।) बन्धनक्रिया । बा~धा इति भाषा । तत्पर्य्यायः । उद्दानम् २ । इत्यमरः । २ । ८ । २६ ॥ कङ्कनम् ३ बन्धः ४ संयमनम् ५ । इति शब्दरत्नावली ॥ (यथा, हितोपदेशे । १ । ९५ । “आपदामापतन्तीनां हितोऽप्यायाति हेतुताम् । मातृजङ्घा हि वत्सस्य स्तम्भीभवति बन्धने ॥”) वधः । इति मेदिनी । ने, ९७ ॥ हिंसा । इति शब्दरत्नावली ॥ रज्जुः । इति हेम- चन्द्रः ॥ बध्यतेऽनेनेति करणव्युत्पत्त्या त्रि ॥ (बध्यतेऽस्मिन् इति अधिकरणे ल्युट् । कारा- गारम् । बन्धनस्थानम् । यथा, भागवुते । ३ । २ । २५ । “वसुदेवस्य देवक्यां जातो भोजेन्द्रबन्धने ॥” बन्ध + कर्त्तरि ल्युः । महादेवस्य नामभेदे, पुं । यथा, महाभारते । १३ । १७ । १०० । “बन्धनो बन्धकर्त्ता च सुबन्धनविमोचनः ॥” बन्धनकर्त्तरि, त्रि । यथा, तत्रैव । १३ । १७ । ६१ । “बन्धनस्त्वसुरेन्द्राणां युधि शत्रुविनाशनः ॥”)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--jail; escaping from and letting one to do so will be punished; फलकम्:F1: M. २२७. २०८-10.फलकम्:/F also बन्धस्थानम्। फलकम्:F2: Ib. २५६. ३५.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=बन्धनम्&oldid=506846" इत्यस्माद् प्रतिप्राप्तम्