बन्धुः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन्धुः, पुं, (बन्ध बन्धने + “शॄस्वृस्निहित्रपीति ।” उणा० १ । ११ । इति उः ।) स्नेहेन मनो बध्नाति यः । तत्पर्य्यायः । सगोत्रः २ बान्धवः ३ ज्ञातिः ४ स्वः ५ स्वजनः ६ । इत्यमरः । २ । ६ । ३४ ॥ दायादः ७ गोत्रः ८ । इति शब्दरत्नावली ॥ बन्धवश्च त्रिविधा । आत्मबन्धवः पितृबन्धवो मातृबन्धवश्चति । यथोक्तम् । “आत्मपितृष्वसुः पुत्त्रा आत्ममातृष्वसुः सुताः । आत्ममातुलपुत्त्राश्च विज्ञेया ह्यात्मबान्धवाः ॥ पितुः पितृष्वसुः पुत्त्राः पितुर्मातृष्वसुः सुताः । पितुर्मातुलपुत्त्राश्च विज्ञेयाः पितृबान्धवाः ॥ मातुःपितृष्वसुः पुत्त्रा मातुर्मातृष्वसुः सुताः । मातुर्मातुलपुत्त्राश्च विज्ञेया मातृबान्धवाः ॥” तत्रचान्तरङ्गत्वात् प्रथममात्मबन्धवो धनभाज- स्तदभावे पितृबन्धवस्तदभावे मातृबन्धव इति क्रमो वेदितव्यः । बन्धूनामभावे आचार्य्यः । इति मिताक्षरा ॥ * ॥ (यथा, मनुः । २ । १३६ । “वित्तं बन्धुर्वयः कर्म्म विद्या भवति पञ्चमी । एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम् ॥” “बन्धुः पितृव्यादिः ।” इति तट्टीकायां कुल्लूक- भट्टः ॥) बन्धूकः । (यथा, अशोकवधे । २९ । “अभ्यर्च्य बन्धुपुष्पमालयेति ॥”) मित्रम् । (यथा, मेघदूते । ३४ । “बन्धुप्रीत्या भवनशिखिभिर्दत्तनृत्योपहारः ॥”) भ्राता । इति मेदिनी ॥ (यथा, रघुः । १२ । १२ । “अथानाथाः प्रकृतयो मातृबन्धुनिवासिनम् । मौलैरानाययामासुर्भरतं स्तम्भिताश्रुभिः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन्धुः [bandhuḥ], [बध्नाति मनः स्नेहादिना बन्ध्-उ]

A relation, kinsman, relative in general; यत्र द्रुमा अपि मृगा अपि बन्धवो मे U.3.8; मातृबन्धुनिवासिनम् R.12.12; Ś.6.23; Bg.6.9; Ms.2.136.

Any one connected or associated with another, a brother; प्रवासबन्धुः a brothertraveller; धर्मबन्धुः a spiritual brother; अनुमतगमना शकुन्तला तरुभिरियं वनवासबन्धुभिः Ś.4.1.

(In law) A cognate kinsman, one's own kindred or kinsmen generally; (three kinds are enumerated: आत्म˚ personal, पितृ˚ paternal, and मातृ˚ maternal; see these three words).

A friend (in general); as in बन्धुकृत्य below; oft. at the end of comp.; मकरन्दगन्धबन्धो Māl.1.38 'a friend of, (i. e.) charged with fragrance'; &c.; 9.13.

A husband; वैदेहिबन्धोर्हृदयं विदद्रे R.14.33.

A father.

A mother.

A brother.

The tree called बन्धुजीव q. v.

One who belongs to or is connected with any tribe or profession only nominally;i. e. one who belongs to it, but does not do the duties pertaining thereto (often used by way of contempt); स्वयमेव ब्रह्मबन्धुनोद्भिन्नो दुर्गप्रयोगः M.4; cf. क्षत्रबन्धु.

Connection, relationship, association in general; समुद्र एवास्य बन्धुः Bṛi. Up.1.1.2; B. R.3.89.

A controller, governor; (नमः) गुणत्रयाभासनिमित्तबन्धवे Bhāg.6.4.23.

(In astrol.) N. of the 3rd mansion. -Comp. -काम a. affectionate towards kinsmen.

कृत्यम् the duty of a kinsman; त्वयि तु परिसमाप्तं बन्धुकृत्यं प्रजानाम् Ś.5.8.

the business of a friend, a friendly or kind act or service; कच्चित् सौम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे Me.116.

जनः a relative, kinsman.

kindred, kinsmen taken collectively. -जीवः, -जीवकः N. of a tree; दृश्यन्ते बन्धुजीवाश्च श्यामाश्च गिरिसानुषु Rām.4.3.62; बन्धुजीवमधुरा- धरपल्लवमुल्लसितस्मितशोभम् Gīt.2; R.11.24. -दग्धः an abandoned wretch (हतक). -दत्तम् a kind of Strīdhana or woman's property, the property given to a girl by her relatives at the time of marriage; बन्धुदत्तं तथा शुल्कमन्वा- धेयकमेव च Y.2.144; बान्धवा भ्रातरो बन्धुदत्तप्रदेन कन्यादशायां यत् पितृभ्यां दत्तं तदुच्यते Dāy. B. -दायादः kinsman and heir; Ms.9.158. -a. entitled to inheritance by relationship. -प्रिय a. dear to friends or relations.-प्रीतिः f.

love of a relative; बन्धुप्रीत्या Me.51 (v. l.).

love for a friend.

भावः friendship.

relationship. -वर्गः kinsmen, kindred. -हीन a. destitute of relatives or friends.

"https://sa.wiktionary.org/w/index.php?title=बन्धुः&oldid=380395" इत्यस्माद् प्रतिप्राप्तम्