बन्ध्या

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन्ध्या, स्त्री, (बन्ध + “अघ्न्यादयश्च ।” उणा० ४ । १११ । इति यक् ।) अप्रजस्त्री । इति मेदिनी ॥ बा~जा इति भाषा ॥ (यथा, भागवते । ६ । १४ । १२ । “रूपौदार्य्यवयोजन्मविद्यैश्वर्य्यश्रियादिभिः । संपन्नस्य गुणैः सर्व्वैश्चिन्ता बन्ध्यापतेरभूत् ॥” बन्ध्या स्त्री अष्टमे वर्षे अधिवेदनीया भवति यथाह मनुः । ९ । ८१ । “बन्ध्याष्टमेऽधिवेद्याब्दे दशमे तु मृतप्रजा ॥”) अपत्यशून्यगौः । तत्पर्य्यायः । वशा २ । इत्य- मरः । २ । ९ । ६९ ॥ बालाख्यगन्धद्रव्यम् । इति शब्दचन्द्रिका ॥ वृषलीविशेषः । यथा, -- “बन्ध्या च वृषली ज्ञेया वृषली च मृतप्रजा । अपरा वृषली ज्ञेया कुमारी या रजस्वला ॥” इति प्रायश्चित्तविवेके उशनसो वचनम् ॥ * ॥ योनिरोगविशेषः । यथा, -- “उदावर्त्ता तथा बन्ध्या विप्लुता च परिप्लुता । वातला योनिजो रोगो वातदोषेण पञ्चधा ॥” तस्या लक्षणं यथा, -- “सा फेनिलमुदावर्त्ता रजःकृच्छ्रेण मुञ्चति । बन्ध्या निरार्त्तवा ज्ञेया विप्लुता नित्यवेदना ॥ परिप्लुता या भवति ग्राम्यधर्म्मे रुजा भृशम् । वातला कर्कशास्तब्धा शूलनिस्तोदपीडिता ॥” तस्याश्चिकित्सा यथा, -- “बला सिता सातिबला मधूकं वटस्य शुङ्गं गजकेशरञ्च । एतन्मधुक्षीरघृतैर्निपीय बन्ध्या सुपुत्त्रं नियतं प्रसूते ॥ अश्वगन्धाकषायेण सिद्धं दुग्धं घृतान्वितम् । ऋतुस्नाताङ्गना प्रातः पीत्वा गर्भं दधाति हि ॥ पुष्पोद्धृतं लक्ष्मणाया मूलं दुग्धेन कन्यया । पिष्ट्वा पीत्वा ऋतुस्नाता गर्भं धत्ते न संशयः ॥ कुरुण्टमूलं धातक्याः कुसुमानि वटाङ्कुराः । नीलोत्पलं पयोयुक्तमेवं गर्भप्रदं ध्रुवम् ॥ या बला पिबति पार्श्वपिप्पलं जीरकेण सहितं हिताशना । श्वेतया विशिखपुङ्खया युतं सा सुतं जनयतीह नान्यथा ॥” इति भावप्रकाशः ॥ (चिकित्सान्तरमस्या यथा, -- “पिप्पल्यः शृङ्गवेरञ्च मरिचं केशरन्तथा । घृतेन सह पातव्यं बन्ध्यापि लभते सुतम् ॥” इति वैद्यकचक्रपाणिसंग्रहे योनिव्यापदधिकारे ॥ “बला चातिबला यष्टिशर्करा मधुसंयुता । बन्ध्यागर्भकरी पीता नात्र कार्य्या विचारणा ॥” इति भैषज्यधन्वन्तरौ स्त्रीरोगाधिकारे ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन्ध्या [bandhyā], (= वन्ध्या)

A barren woman; न हि बन्ध्या विजानाति गुर्वी प्रसववेदनाम् Subhāṣ.

A barren cow.

A kind or perfume (बाल). -Comp. -तनयः, -पुत्रः, -सुतः, or दुहिता, -सुता &c. the son or daughter of a barren woman; i. e. a wild impossibility, anything that does not and cannot exist; एष बन्ध्यासुतो याति खपुष्पकृतशेखरः; see खपुष्प.

"https://sa.wiktionary.org/w/index.php?title=बन्ध्या&oldid=380645" इत्यस्माद् प्रतिप्राप्तम्