बाढम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाढम्, क्ली, (बाह प्रयत्ने + क्तः । “क्षुब्धस्वान्त- ध्वान्तेति ।” ७ । २ । १८ । इति निपातनात् साधुः ।) अतिशयः । (यथा, कथासरित्- सागरे । २४ । ६८ । “बाढं मया सा नगरी दृष्टा विद्यार्थिना सता ॥”) प्रतिज्ञा । इत्यमरः । ३ । ३ । ४४ ॥ बाढमित्य- व्ययमपीति वृद्धाः । इति भरतः ॥ “बाढं त्रिषु दृढे क्लीवमनुमत्यामथ त्रिषु ॥” इति नानार्थरत्नमाला ॥ (सत्यम् । यथा, रघुः । १९ । ५२ । “बाढमेषु दिवषेषु पार्थवः कर्म्म साधयति पुत्त्रजन्मने ॥”)

"https://sa.wiktionary.org/w/index.php?title=बाढम्&oldid=153119" इत्यस्माद् प्रतिप्राप्तम्