बालः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बालः, त्रि, (बलतीति । बल प्राणने + “ज्वलि- तिकसन्तेभ्यो णः ।” ३ । २ । १४० । इति णः ।) मूर्खः ॥ (यथा, मनुः । २ । १५३ । “अज्ञो भवति वै बालः पिता भवति मन्त्रदः । अज्ञं हि बालमित्याहुः पितेत्येव तु मन्त्रदम् ॥” “वैशब्दोऽवधारणे अज्ञ एव बालो भवति नत्वल्पवयाः ।” इति तट्टीकायां कुल्लूकभट्टः ॥) अर्भकः । इति मेदिनी । ले, ४० ॥ द्बितीयस्य पर्य्यायः । माणवकः २ । इत्यमरः । २ । ६ । ४२ ॥ बालकः ३ माणवः ४ किशोरः ५ बटुः ६ मुष्टि- न्धयः ७ बटुकः ८ किशोरकः ९ । इति शब्द- रत्नावली ॥ पाकः १० गर्भः ११ हितकः १२ पृथुकः १३ शिशुः १४ शावः १५ अर्भः १६ डिम्भकः १७ डिम्बः १८ । इति राजनिर्घण्टः ॥ स तु षोडशवर्षपर्य्यन्तः प्रथमवयस्कः । यथा, -- “आषोडशाद्भवेद्बालस्तरुणस्तत उच्यते । वृद्धः स्यात् सप्ततेरूर्द्ध्वं वर्षीयान् नवतेः परम् ॥” इति स्मृतिः । इति भरतः ॥ तस्य रक्षकाः सर्व्वदेवताः । यथा, -- “अनाथबालवृद्धानां रक्षकाः सर्व्वदेवताः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८६ अध्यायः ॥ अथ बालस्य परिचर्य्याविधिः । “बालमङ्के सुखं दध्यान्न चैनं तर्ज्जयेत् क्वचित् । शूद्रायाः कन्यापुत्त्रजनने त्रयोदशाहोत्तरं लौकिककर्म्माधिकारः वैदिककर्म्मणि तु मासो- त्तरस्नानात् शुद्धिः । एतत् सर्व्वं कन्यापुत्त्रयो- र्विद्यमानत्वे बोध्यम् ॥ जननाशौचोत्तरं षण्मासाभ्यन्तरमजातदन्त- मरणे मातापित्रोरेकाहः । सपिण्डानान्तु सद्यः शौचम् ॥ षण्मासाभ्यन्तरेऽपि जातदन्तस्य मरणे मातापित्रोस्त्र्यहः । सपिण्डानामेकाहः । षण्मासोपरिद्विवर्षपर्य्यन्तं पित्रोस्त्य्रहः । सपिण्डा- नामकृतचूडे एकाहः कृतचूडे त्र्यहः । द्बिवर्षो- परिमासत्रयाधिकषड्वर्षपर्य्यन्तमनुपनीतबाल- कस्य मरणे मातापित्रादिसपिण्डानां त्र्यहः ॥ तन्मध्येऽप्युपनीतस्य मरणे दशाहः । मासत्रया- धिकषड्वर्षोपरि मरणे पित्रादिसपिण्डानां दशाहः ॥ शूद्रस्य षण्मासाभ्यन्तरे अनुत्पन्नदन्तस्य मरणे त्रिरात्रम् । उत्पन्नदन्तस्य पञ्चाहः । षण्मा- सोपरिद्बिवर्षाभ्यन्तरे अकृतचूडमरणे पञ्चाहः । तत्रापि कृतचूडमरणे द्बादशाहः । द्विवर्षोपरि षड्वर्षाभ्यन्तरे मरणे द्बादशाहः । अत्रापि कृतोद्वाहेऽपि मासो व्यवह्रियते षड्वर्षोपरि- मासः ॥ * ॥ “बालकजननान्तरकर्त्तव्यमाह वैद्यके । यथा,--“अथबालं क्षौमपरिवृतं क्षौमवस्त्रास्तृतायां शय्यायां शाययेत् । पीलु- बदरीनिम्बपरूषकशाखाभिश्चैनं वीजयेत् । मूर्द्ध्नि चास्याहरहस्तैलपिचुमवचारयेत् । धूपयेच्चैनं रक्षोघ्नैधूपैः । रक्षोघ्नानि चास्य पाणिपादशिरोग्रीवास्ववसृजेत् तिलातसी- सर्षपकणांश्चात्र प्रकिरेत् । अघिष्ठाने चाग्निं प्रज्वालयेत् । व्रणितोपासनीयञ्चावेक्षेत ॥ ततो दशमेऽहनि मातापितरौ कृतमङ्गल- कौतुकौ स्वस्तिवाचनं कृत्वा नाम कुर्य्यातां यदभिप्रेतं नक्षत्रनाम वा ॥ ततो यथावर्णं धात्रीमुपेयान्मध्यमप्रमाणां मध्यमवयसमरोगां शीलवतीमचपलामलोलु- पामकृपामस्थूलां प्रसन्नक्षीरामलम्बौष्ठीमल- म्बोर्द्धस्तनीमव्यङ्गामव्यसनिनीं जीवद्बत्सां दोग्ध्रीं वत्मलामक्षुद्रकर्म्मिणीं कुले जातामतो भूयि- ष्ठैश्च गुणैरन्वितां श्यामामारोग्यब्रलवृद्धये बालस्य । तत्रोर्द्धस्तनी करालं कुर्य्यात् । लम्ब- स्तनीं नासिकामुखं छादयित्वा मरणमापा- दयेत् । ततः प्रशस्तायां तिथौ शिरःस्नात- महतवाससमुदङ्मुखं शिशुमुपवेश्य धात्रीं प्राङ्मुखीमुपवेश्य दक्षिणं स्तनं धौतमीषत्परि- स्रुतमभिमन्त्र्य मन्त्रेणानेन पाययेत् । चत्वारः सागरास्तुभ्यं स्तनयोः क्षीरवाहिणः । भवन्तु सुभगे नित्यं बालस्य बलवृद्धये ॥ पयोऽमृतरसं पीत्वा कुमारस्ते शुभानने । दीर्घमायुरवाप्नोतु देवाः प्राश्यामृतं यथा ॥

"https://sa.wiktionary.org/w/index.php?title=बालः&oldid=153140" इत्यस्माद् प्रतिप्राप्तम्