बालम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बालम्, क्ली, पुं, (बलतीति । बल + णः ।) गग्धद्रव्यविशेषः । बाला इति ख्यातम् । इति मेदिनी ॥ तत्पर्य्यायः । ह्रीवेरम् २ बर्हिष्ठम् ३ उदीच्यम् ४ केशनामकम् ५ अम्बुनामकम् ६ । इत्यमरः । २ । ४ । १२२ ॥ ह्रिवेरम् ७ वर्हि- ष्ठम् ८ । इति भरतः ॥ बालकम् ९ बारिदम् १० इति शब्दरत्नावली ॥ वरम् ११ ह्रीवेरकम् १२ केश्यम् १३ वज्रम् १४ पिङ्गम् १५ ललना- प्रियम् १६ कुन्तलोशीरम् १७ कचामोदम् १८ । अस्य गुणाः । शीतलत्वम् । तिक्तत्वम् । पित्त- वान्तितृषाज्वरकुष्ठातिसारश्वासव्रणनाशित्वम् । केशहितत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “बाला वाट्यालिका वाट्या सैव वाद्यालिका- पि च । महाबला पीतपुष्पा सहदेवी च सा स्मृता ॥ ततोऽन्यातिबला ऋष्यप्रोक्ता कङ्कतिकासह । गाङ्गेरुकी नागबला झसा ह्रस्वा गवेधुका ॥ अस्य गुणाः । बलाचतुष्टयं शीतं मधुरं बलकान्तिकृत् । स्निग्धं ग्राहि समीरास्रपित्तास्रक्षतनाशनम् ॥ बालाचतुष्टयविशेषगुणाः । बलामूलत्वचश्चूर्णं पीतं सक्षीरशर्करम् । मूत्रातिसारं हरति दुष्टमेतन्न संशयः ॥ हरेन्महाबला कृच्छ्रं भवेद्वातानुलोमनी । हन्यादतिबला मोहं पयसा सितया सह ॥” इति भावप्रकाशः ॥

"https://sa.wiktionary.org/w/index.php?title=बालम्&oldid=153139" इत्यस्माद् प्रतिप्राप्तम्