बाला

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाला, स्त्री, (बालाः केशा इव पदार्था विद्यन्ते यस्याः । बाल + अर्श आद्यच् ततष्टाप् ।) नारिकेलः । हरिद्रा । मल्लिकाभेदः । अलङ्कार- भेदः । मेध्यम् । त्रुटिः । स्त्री । इति मुद्राङ्किता मेदिनी ॥ घृतकुमारी । ह्रीवेरम् । इति शब्द- चन्दिका ॥ अम्बष्ठा । नीलझिण्टी । इति राज- निर्घण्टः ॥ एकवर्षवयस्का गौः । यथा, -- “वर्षमात्रातुबाला स्यादतिबाला द्विवार्षिकी ।” इति प्रायश्चित्ततत्त्वम् ॥ षोडशवर्षोया स्त्री । सा ग्रीष्मशरत्काले च प्रशंसनीया हर्षदा च । इति राजवल्लभः ॥ (यथा, रतिमञ्जर्य्याम् । “बाला स्त्री प्राणदा प्रोक्ता तरुणी प्राण- हारिणी । प्रौढा करोति वृद्धत्वं वृद्धा मरणमादिशेत् ॥” यथा, मेघदूते । ८३ । “गाढोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छत्सु बालां जातां मन्ये शिशिरमथितां पद्मिनीं बाल्य- रूपाम् ॥” कन्यामात्रेऽपि । यथा, मार्कण्डये । २१ । २८ । “इयञ्च मूर्च्छामगत् कारणं यत् शृणुष्व तत् । त्वयि प्रीतिमती बाला दर्शनादेव मानद ! ॥” पञ्चवर्षा स्मृता बाला । इति हारीते । १ । ५ ।) ऊनद्बिवार्षिकी कन्या । तस्यास्तद्बयस्कबालस्य च अग्निसंस्कारादिनिषेधो यथा, -- “अजातदन्ता ये बाला ये च गर्भाद्बिनिःसृताः । न तेषामग्निसंस्कारो न पिण्डं नोदकक्रिया ॥” इति गारुडे १०७ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाला¦ स्त्री॰ बालाः केशाकाराः पदार्थाः सन्त्यं स्य अच्।

१ नारिकेले

२ हरिद्रायां

३ मल्लिकाभेदे,

४ बलये,

५ मेध्ये च

६ त्रुटौ स्त्री मेदि॰

७ घृतकुमार्य्यां (वाला)

८ गन्धद्रव्यभेदे,शब्दच॰।

९ अम्बष्ठायां,

१० नीलझिण्ट्याम् स्त्री राजनि॰

११ षोडशवर्षीयायां स्त्रियां

१२ कन्यायाञ्च
“बर्षमात्रा भवेद्बाला” प्रा॰ त॰ उक्तायामेकवर्षीयायां

१३ गवि स्त्री

१४ देवीमूर्त्तिभेदे तन्त्रसारः। स्वार्थे क अत इत्त्वम्। बालिकातत्रैव। बालुकायां, पत्रकाहलायां मेदि॰ कर्णभूषणे(कानबाला) मेदि॰ एलायां शब्द॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाला [bālā], 1 A girl, a female child.

A young woman under sixteen years of age.

A young woman (in general); जाने तपसो वीर्यं सा बाला परवतीति मे विदितम् Ś.3.2; इयं बालां मां प्रत्यनवरतमिन्दीवरदलप्रभाचोरं चक्षुः क्षिपति Bh.3.67; Me.85.

A variety of jasmine.

The cocoanut.

The plant घृतकुमारी.

Small cardamoms.

Turmeric. -Comp. -हत्या female infanticide.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाला f. a female child , girl , young woman ( esp. one under 16 years) Mn. MBh. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a daughter of प्रजापति, fell down upon the earth while going across the sky. वा. ७५. ४०.

"https://sa.wiktionary.org/w/index.php?title=बाला&oldid=503112" इत्यस्माद् प्रतिप्राप्तम्