बाहुः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाहुः, पुं, स्त्री, (बाधते शत्रून् इति । बाध + “अर्जिदृशिकम्यमिपंसिबाधामृजिपशि तुक् धुक् दीर्घहकाराश्च ।” उणा० १ । २८ । इति कुप्रत्य- योऽन्तस्य हकारादेशश्च ।) कक्षाद्यङ्गुल्यग्र- पर्य्यन्तावयवविशेषः । तत्पर्य्यायः । भुजः २ प्रवेष्टः ३ दोः ४ । इत्यमरः । २ । ६ । ८० । दोषः ५ बाहः ६ । इति जटाधरशब्दरत्ना- वल्यौ ॥ तद्वैदिकपर्य्यायाः । आयती १ च्यवना २ अनीशू ३ अप्लवाना ४ विनंगृसौ ५ गभस्ती ६ कवस्नौ ७ बाहू ८ भूरिजौ ९ क्षिपस्ती १० शक्करी ११ भरित्रे १२ । इति द्वादश बाहु- नामानि । इति वेदनिर्घण्टौ २ अध्यायः ॥ * ॥ (यथा ऋग्वेदे । ५ । ५७ । ६ । “ऋष्टयो वो मरुतो अंसयोरधि सह ओजो बाह्वोर्वो बलं हितम् ॥” नृपत्वसूचकबाहुलक्षणम् । यथा, -- “निर्मांस्रौ चैव भग्नाल्पौ श्लिष्टौ च विपुलौ भुजौ । आजानुलम्बिनौ बाहू वृत्तौ पीनौ नृपेश्वरे ॥” इति गारुडे ६६ अध्यायः ॥ (अस्य शुभाशुभलक्षणमुक्तं यथा सामुद्रके । “उद्वद्धबाहुः पुरुषो वधबन्धनमाप्नुयात् । दीर्घबाहुर्भवेद्राजा समुद्रवचनं यथा ॥ प्रलम्बबाहुरैश्वर्य्यं प्राप्नुयाद्गुणसंयुतम् । ह्रस्वबाहुर्भवेद्दासः परप्रेष्यकरस्तथा ॥ वामावर्त्तभुजा ये तु ये च दीर्घभुजा नराः । संपूर्णबाहवो ये तु राजानस्ते प्रकीर्त्तिताः ॥ पुरुषस्य दक्षिणबाहुस्पन्दने स्त्रियो वामबाहु- स्पन्दने शुभं तद्वीपरीते तु अशुभम् । यथा शाकुन्तले १ अङ्के । “शान्तमिदमाश्रमपदं स्फुरति च बाहुः कुतः फलमिहास्य । अथवा भवितव्यानां द्वाराणि भवन्ति सर्व्वत्र ॥” बाहुर्दक्षिणबाहुः । फलं वरस्त्रीलाभरूपम् ॥ “वामेतरभुजस्पन्दो वरस्त्रीलाभसूचकः ॥” इतिवचनात् ॥) कूर्परस्य ऊर्द्धभागः । यथा, -- “मुखं बाहू प्रबाहू च मनः सर्व्वेन्द्रियाणि च । रक्षत्वव्याहतैश्वर्य्यस्तव नारायणोऽव्ययः ॥” अस्य टीका । बाहू प्रबाहू च कूर्परस्य ऊर्द्ध्वा- धोभागौ । इति विष्णुपुराणे । ५ । ५ ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाहुः [bāhuḥ], [बाध् कु धस्य हः Tv.]

The arm; शान्तमिदमाश्रम- पदं स्फुरति च बाहुः कुतः फलमिहास्य Ś.1.16; so महाबाहुः &c.

The fore-arm.

The fore-foot of an animal.

A door-post.

The base of a right-angled triangle (in geom.).

(In medic.) The whole upper extremity of the body (opp. सक्थि).

The bar of a chariotpole.

The shadow of the gnomon on a sun-dial.

The arm as a measure of length (= 12 Aṅgulas).

The limb of a bow. -हू (du.) The lunar mansion Ārdrā. -Comp. -अन्तरम् the chest; संवर्त्य मुष्टिं सहसा जघान बाह्वन्तरे शैलनिकाशरूपः Rām.6.7.154. -उत्क्षेपम् ind. having raised or tossed up the arms; बाहूत्क्षेपं क्रन्दितुं च प्रवृत्ता Ś.5.3. -कर a. active with the arms; P.III. 2.21. -कण्टकम् a mode in fighting; 'एकां जङ्घां पदा$$ क्रम्य परामुद्यम्य पाठ्यते । केतकीपत्रवच्छत्रुर्युद्धं तद्बाहुकण्टकम् ॥'; बाहु- कण्टकयुद्धेन तस्य कर्णो$थ युध्यतः Mb.12.5.4. -कुण्ठ, -कुब्जa. crippled in the arms. -कुन्थः a wing (of a bird).-चापः the distance measured by the extended arms.

जः a man of the Kṣatriya caste; cf. बाहू राजन्यः कृतः Rv.1.9.12; also Ms.1.31; स बाहुजो महाबाहुस्तदु- वाह महाबलम् Śiva B.; N.12.12.

a parrot.

sesamum growing spontaneously. -ज्या a sine (in math.). -तरणम् crossing a river (with the arms). -त्रः, -त्रम्, -त्राण vantbrass (armour for the arms).

दण्डः a long, staff-like arm.

punishment with the arm or fist. -दन्तकम् N. of a Nītiśāstra treatise. -निःसृतम् a mode of fighting (by which a sword is twisted out of a person's hand). -पाशः a particular attitude in fighting.

the arm thrown round, as in the act of embracing. -प्रचालकम् ind. shaking the arms. -प्रति- बाहौ the opposite sides of a figure. -प्रसारः, -प्रसारणम् stretching the arms (for embracing &c.) -प्रहरणः a boxer. (-णम्) boxing.

फलम् (in geom.) the result for the base sine.

(in astro.) the sine of an arc of a circle of position contained between the sun and the prime verticle.

बन्धनम् encircling arms. (-नः) the shoulder-blade. -बलम् strength of arm, muscular strength. -भङ्गिः f. bending or twisting the arms.-भूषण, -भूषा an ornament worn on the arm, an armlet. -भेदिन् m. an epithet of Viṣṇu.

मूलम् the armpit.

the shoulderblade. -युद्धम् a hand-to-hand or close fight, personal or pugilistic encounter, boxing; बाहुयुद्धं हि मल्लानामशास्त्रमृषिभिः स्मृतम् । मृतस्य तत्र न स्वर्गो यशो नेहापि विद्यते ॥ Mallaśāstram. -योधः, -योधिन् m. a pugilist, boxer. -रक्षा armour for the upper arm. -लता an arm-like creeper. ˚अन्तरम् the breast, bosom.-लोहम् bell-metal (कांस्य).

विक्षेपः the act of throwing about the arms, moving the arms.

swimming.-विघट्टनम्, -विघट्टितम् a particular attitude in wrestling. -वीर्यम् strength of arms. -व्यायामः athletic exercise. -शालिन् m.

an epithet of Śiva.

of Bhīma.-शिखरम् the upper part of the arm, the shoulder.-संभवः a man of the Kṣatriya caste. -सहस्रभृत् m. an epithet of king Kārtavīrya (also called सहस्रार्जुन).

"https://sa.wiktionary.org/w/index.php?title=बाहुः&oldid=387835" इत्यस्माद् प्रतिप्राप्तम्