बुक्क

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुक्क, कि श्वादिशब्दे । इति कविकल्पदुमः ॥ (चुरा०-पक्षे भ्वा०-पर०-सक०-पक्षे अक०- सेट् ।) पञ्चमस्वरी कोपधः । चुरादिपक्षे कथने भ्वादिपक्षे कुक्कुरादिशब्देऽयमिति रमानाथः । कि, बुक्कयति वाचा बहुलोकः । बुक्कति श्वा । इति दुर्गादासः ॥

बुक्कम्, त्रि, (बुक्कयति बुक्बुक् इत्यव्यक्तशब्दं करो- तीति । बुक्क + पचाद्यच् ।) वक्षोऽभ्यन्तरमांस- विशेषः । तत्पर्य्यायः । अग्रमांसम् २ हृदयम् ३ हृत् ४ । इत्यमरः । २ । ६ । ६४ ॥ केचित्तु बुक्कात् पृथगेव हृदयान्तर्गतमांसविशेषे पद्मा- कारे हृदयादिद्वयमाहुः । धातोरनेकार्थत्वात् बुक्क्यते स्वादुत्वात् मृग्यते बुक्कं बुक्क किं श्वादि- शब्दे घञ् । नान्तः पुंलिङ्गोऽप्ययम् । स्त्रीलि- ङ्गाऽपीत्येके । इति स्वामी ॥ बुक्का स्त्री बुक्कः पुमानपि । शोणितेषु स्त्रियां बुक्का बुक्कस्तु समये द्वयोरिति रभसात् । नदादित्वात् स्त्रियां बुक्वीत्यन्ये । बुक्कनान्तं क्लीवमव्युत्पन्नमितिरुद्र- कलिङ्गादयः ॥ उरस्यपि च बुक्कायां हृदयं मानसेऽपि चेति त्रिकाण्डशेषः ॥ बुक्कशब्दस्य उकारस्य ऋकारादेशे तथैव बृक्कादिरूपञ्च । अग्रञ्च तन्मांसञ्चेति अग्रमांसं बुक्कस्याग्रं संमुखीभूतं मांसं बुक्काग्रमांसमित्येकं नामे- त्यन्ये । इति तट्टीकायां भरतः ॥

बुक्कः, पुं, (बुक्कयति शब्दायते इति । बुक्क + अच् ।) छागः । इति त्रिकाण्डशेषः ॥ समये पुं, स्त्री । इति रभसः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुक्क¦ कुक्कु रादिशब्दे कथने च वा चु॰ उभ॰ पक्षे म्बा॰ पर॰ सक॰सेट्। बुक्कयति ते बुक्कति अबुबुक्कत् त इरित् अवुक्वत्अबुक्कीत्।
“कथने चुरा॰ कश्वादिशब्दे तु भ्वा॰” रमानाथः।

बुक्क¦ न॰ बुक्व अच।

१ हृदयस्थे मांसपिण्डे

२ अग्रमांसे

३ हृदयेच अमरः अस्य स्त्रीत्वमपि स्त्रीत्वे टाप् गौ॰ ङीष् वा।
“बुक्वाथातैर्युबतिनिकटे प्रौढवाक्येन राधा” उद्भटः।

४ छागे पु॰ (बोका) त्रिका॰।

५ समने च पु॰।

६ शोणिते भरतःस्त्री टाप्।

५ पी॰ बूक्कबुक्के अपि हृदये। [Page4578-b+ 38]

बुक्क¦ न॰ बुक्क + पृषो॰ दीर्घः। बुक्कशब्दार्थे रमानाथः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुक्क¦ r. 1st and 10th cls. (बुक्कति बुक्कयति-ते)
1. To bark.
2. To speak. r. 10th cl. To give pain.

बुक्क¦ Subst. mfn. (-क्कः-क्का-क्वी-क्वं)
1. The heart.
2. The chest.
3. Blood. m. (-क्कः)
1. A goat.
2. Time. E. बुक्क to bark, &c., aff. अच्; also बुक्कन् mn. (-क्का-क्कं) and बूक्क |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुक्कः [bukkḥ] क्कम् [kkam], क्कम् 1 The heart.

The bosom, chest; बुक्काघातैर्युवतिनिकटे प्रौढवाक्येन राधा Udb.

Blood.

क्कः A goat.

Time (समय). -क्का Blood.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुक्क mf( आor ई)n. the heart L. ( आf. Mcar. )

बुक्क m. a goat L.

बुक्क m. the Ricinus plant L.

बुक्क m. N. of a prince (who reigned at विद्या-नगर1359-79 and was the patron of सायण; he is also called बुक्क-भूपति, -महीपति, -राज, -राय, and बुक्कण) Nya1yam. Col. Cat.

बुक्क m. and f. = समय( w.r. for हृदय?) L.

"https://sa.wiktionary.org/w/index.php?title=बुक्क&oldid=390085" इत्यस्माद् प्रतिप्राप्तम्