बुद्ध

Wiktionary तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुद्धः, पुं, (बुध्यते स्म इति । बुध + क्त । यद्वा भावे क्त बुद्धं ज्ञानमस्यास्तीति अर्शआद्यच् ।) भगवदवतारविशेषः । स तु दशावतारान्तर्गत- नवमावतारः । यथा, -- “ततः कलौ संप्रवृत्ते संमोहाय सुरद्विषाम् । बुद्धो नाम्नाञ्जनमुतः कीकटेषु भविष्यति ॥” इति श्रीभागवते १ स्कन्धे ३ अध्यायः ॥ अञ्जनस्य सुतः । अजिनसुत इति पाठे अजि- नोऽपि स एव । कीटकेषु मध्ये गयाप्रदेशे । इति श्रीधरस्वामी ॥ तत्पर्य्यायः । सर्व्वज्ञः २ सुगतः ३ धर्म्मराजः ४ तथागतः ५ समन्त- भद्रः ६ भगवान् ७ मारजित् ८ लोकजित् ९ जिनः १० षडभिज्ञः ११ दशबलः १२ अद्वय- वादी १३ विनायकः १४ मुनीन्द्रः १५ श्रीघनः १६ शास्ता १७ मुनिः १८ । इत्यमरः । १ । १ । १३ ॥ धर्म्मः १९ त्रिकालज्ञः २० धातुः २१ बोधि- सत्त्वः २२ महाबोधिः २३ आर्य्यः २४ पञ्च- ज्ञानः २५ दशार्हः २६ दशभूमिगः २७ चतु- स्त्रिंशज्जातकज्ञः २८ दशपारमिताधरः २९ द्वादशाक्षः ३० त्रिकायः ३१ संगुप्तः ३२ दया- कूर्च्चः ३३ खजित् ३४ विज्ञानमातृकः ३५ महामैत्रः ३६ । इति हेमचन्द्रः । २ । १४६ ॥ धर्म्मचक्रः ३७ महामुनिः ३८ असमः ३९ खसमः ४० मैत्री ४१ बलः ४२ गुणाकरः ४३ अकनिष्ठः ४४ त्रिशरणः ४५ बुधः ४६ वक्री ४७ वागाशनिः ४८ जितारिः ४९ अर्हणः ५० अर्हन् ५१ महासुखः ५२ । इति शब्दरत्ना- वली ॥ महाबलः ५३ । इति जटाधरः ॥ * ॥ ईश्वरनिरूपणे बुद्धविशेषाणां मतमाह । सर्व्वज्ञ इति सौगताः । निरावरण इति दिगम्बराः । लोकव्यवहारसिद्ध इति चार्व्वाकाः । शरीराण्येव चेतनानि गौरोऽहं जानामीत्यादिज्ञानेन गौर वत्त्वज्ञानवत्त्वयोः सामानाधिकरण्यानुभवा- दिति चार्व्वाकाणां मतञ्च । तेषां मते जगतः क्षणभङ्गुरत्वं नन्वस्तु क्षणभङ्गः पूर्ब्बपुञ्जाच्चोत्तर- पुञ्जोत्पत्तिस्तथा च पुञ्जनिष्ठ एव कुर्व्वद्रूप- त्वाख्यजातिविशेषः स्मरणजनकतावच्छेदक इति न दोषः । इति कुसुमाञ्जलिप्रथमस्तवक- टीकायां रामभद्रः ॥ * ॥ बुद्धानां दशविध मतभेदमाह । “वदन्ति पुत्त्र आत्मेति १ दृढप्राकृतबुद्धयः । देह आत्मेति २ चार्व्वाका इन्द्रियाण्यपरे ३ च ते ॥ तेऽन्ये प्राण ४ स्ततोऽन्ये ते मन ५ आत्मेति वादिनः । बुद्धिरात्मेति ६ बौद्धा वै शून्यमात्मेति ७ तेऽपरे ॥ याज्ञिका यज्ञपुरुषं सर्व्वज्ञं ८ स्रौगता विदुः । निरावरण ९ माहुर्यं दिगम्बरमतानुगाः ॥ चार्वाकाश्चापि लोकानां व्यवहारप्रसिद्ध- कम् १० ॥” इत्यात्मप्रकाशः ॥ * ॥ पण्डितः । बुधिते, त्रि । इति मेदिनी । धे, १० ॥ (बुद्धावतारस्य विवरणं यथा, --

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुद्ध पुं।

बुद्धः

समानार्थक:सर्वज्ञ,सुगत,बुद्ध,धर्मराज,तथागत,समन्तभद्र,भगवत्,मारजित्,लोकजित्,जिन,षडभिज्ञ,दशबल,अद्वयवादिन्,विनायक,मुनीन्द्र,श्रीघन,शास्तृ,मुनि

1।1।13।1।3

सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः। समन्तभद्रो भगवान्मारजिल्लोकजिज्जिनः॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ऋषिः

बुद्ध वि।

अवगतम्

समानार्थक:बुद्ध,बुधित,मनित,विदित,प्रतिपन्न,अवसित,अवगत

3।1।108।1।1

बुद्धं बुधितं मनितं विदितं प्रतिपन्नमवसितावगते। उरीकृतमुररीकृतमङ्गीकृतमाश्रुतं प्रतिज्ञातम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुद्ध¦ पु॰ बुध क्त।

१ भगवतोऽवतारभेदे येन वेदतत्कर्मणोर्निन्दा-कृता।

२ जानरिते,

३ ज्ञातवति च त्रि॰।

४ षण्डिते पु॰ मेदि॰। युद्धश्च विष्णोः चतुर्विशत्यवतारभध्ये एकविं नोऽततारोयथोक्तं
“ततः कलौ संप्रकृत्ते सम्मोहाय सुरद्विषाम्। बुद्धो नाम्नाऽञ्जनसुतः कीकटेषु भविष्यति” भाग॰ स्क॰। बुद्धेन प्रोक्तम् अण् तद्वेति अण्। बौद्धप्रोक्तशास्त्रे तद-भित्ते च त्रि॰। तद्दर्शनभेदतन्मतादिकं सर्वद॰ दं॰ दर्शितंयथा
“अत्र बीर्द्धरभिधीयते यदभ्यधायि अविनाभावो दुर्बोधइति तदसाधीयः तादात्म्यतदुत्पत्तिभ्यामविनाभावस्य सु-ज्ञानत्वात्। तदुक्तम्
“कार्य्यकारणभावाद्वा स्वभावाद् वानियामाकात्। अबिवाभावनियमो दर्शनान्तरदर्शनादिति” अन्वयव्यतिरेकावविनाभावनिश्चायकाविति। ननु पक्षे सा-ध्यसाधनयोरव्यभिचारो दुरवधारणो भवेत्, भविष्यति,भूते अनुपलभ्यमाने च व्यभिचारशङ्काया अनिवार-णात्। ननु तथाविधस्थले तावकेऽपि मते व्यभि-चारशङ्का दुष्परिहरेति चेत् मैवं वोचः विनापिकारण कार्य्यमुत्पद्यतामित्येवंविधायाः शङ्कायाव्याधातावधिकतया निवृत्तत्वात्। तदेव ह्याशङ्क्येत यस्मि-न्नाशङक्यमाने व्याघातादयो नावतरेयुः तदुक्तम्।
“व्याघातावधिराशङ्केति” तस्मात् तदतपत्तिनिश्चयेन अवि-नाभावो निश्चीयते तदुत्पत्तिनिश्चयश्च कार्य्यहेत्वोः प्रत्यक्षो-पलम्भानुपलम्भपञ्चकनिबन्धनः। कार्य्यस्योत्पत्तेः प्रागनु-पलम्भः

१ कारणोपलम्भे

२ सत्युपलम्भः

३ उपलब्धस्य पश्चात्कारणानुपलम्भात्

४ अनुपलम्भ

५ इति पञ्चकारण्या धूमधूम-ध्वजयोः कार्य्यकारणभावो निसीयते। तथा तादात्म्यनि-सयिनाप्यविनाभावो निसीयते यदि शिंशपा वृक्षत्वमतिपतेत्स्वात्मानमेव ब्रह्मादिति विपक्षे वाधकप्रवृत्तेः। अप्रवृत्ते[Page4579-a+ 38] तु बाधके भूयःसहभावोपलम्भेऽपि व्यभिचारशङ्कायाःको निवारयिता। शिंशपावृक्षयोश्च तादात्म्यनिश्चयोवृक्षोऽर्यं शिंशपेति सामानाधिकरण्यबलादुपपद्यते। न ह्यत्यन्ताभेदे तत् सम्भवति पर्य्यायत्वेन युगपदपिप्रयोगायोगात् नाप्यत्यन्तभेदे गवाश्वयोरिवानुपलम्भात्। तस्मात् कार्य्यात्मानौ कारणमात्मानमनुमापयत इतिसिद्धम्। यदि कश्चित् प्रामाण्यमनुमानस्य नाङ्गीकुर्य्यात्तं प्रतिव्रूयात् अनुभानं न भवतीत्येतावन्मात्रं प्रमाणं तत्रन किञ्चन साधनमुपन्यस्यते उपन्यस्यते वा। न प्रथमःएकाकिनी प्रतिज्ञा हि प्रतिज्ञातं न साधयेष्टिति न्यायात्। नापि चरमः अनुमानं प्रमाणं न भवतीति ब्रुवाणेनत्वया अशिरस्कवचनस्योपन्यासे मम माता बन्ध्येतिवद्व्याघातापातात्। किञ्च प्रमाणतदामासव्यवस्थापनं तत्-समानजातीयत्वादिति वदता भवतैव स्वीकृतं स्वभावा-नुमानम्। परगता विप्रतिपत्तिस्तु वचनलिङ्गेनेतिब्रुवता कार्य्यलिङ्गकमनुमानम्। अनुपलद्ध्या कञ्चिदर्थंपातषधयतानुपलब्धिलिङ्गकमनुमानम्। तथाचोक्तं तथा-गतैः
“प्रमाणान्तरसामान्यस्थिरत्वान्यधियां गतेः। प्रमा-णान्तरसद्भावः प्रतिषेधाच्च कस्यचिदिति” पराक्रान्तञ्चात्रसूरिभिरिति ग्रन्थभूयस्त्वभ्यादुपरम्यते। ते च बौद्धा-चतुर्विधया भावनया परमपुरुषार्थं कथयन्ति। ते चमाध्यमिकयोगाचारसौत्रान्तिकवैभाषिकसंज्ञाभिः प्रसिद्धाबौद्धा यथाक्रमं सर्वशून्यत्व--बाह्यशून्यत्वबाह्यर्थानुमेयत्वबाह्यार्थप्रत्यक्षत्रवादानातिष्ठन्ते। यद्यपि भगवान् बुद्धएक एव बोधयिता तथापि बोद्धव्यानां बुद्धिभेदाच्चातु-र्विध्यं यथा गतोऽस्तमर्क इत्युक्ते जारचौरानूचाना-दयः स्वेष्टानुसारेणाभिसरणपरस्वहरणसदाचरणादिस-मयं बुध्यन्ते। सर्वं क्षणिकं क्षणिकम्, दुखं दुःखं,स्वलक्षणं स्वलंक्षणं, शून्यं शन्यमिति भावनाचतुष्टपमुपदिष्टं द्रष्टव्यम्। तत्र क्षणिकत्वं भीलादिक्षणानांसत्त्वेनानुमातव्यं यत् सत् तत् क्षणिकं यथा जलधरपटल सन्तश्चामी भावा इति। न चायमसिद्धो हेतुः अर्थक्रियाकारित्वलक्षणस्य सत्त्वस्य नीलादिक्षणानां प्रत्यक्षसिद्धत्वात् व्यापकव्यावृत्त्या व्याप्यव्यावृत्तिन्यायेन व्यापकफमाक्रमव्यावृत्तावक्षणिकात् सत्त्वव्यावृत्तेः सिद्धत्वाञ्च। तच्चार्थाक्रियाकारित्वं क्रमाक्रमाभ्यां व्याप्तं न च क्रमा-क्रमाभ्यामन्यः प्रकारः समस्ति
“परम्परविरोधे हि न प्रका-रान्तरस्थितिः। नैकताप्रि विरुद्धानामुक्तिमात्रविरोधतः” [Page4579-b+ 38] इति न्यायेन व्याथातस्योद्भटत्वात्। तौ च क्रमाक्रमौस्थायिनः सकाशाद् व्यावर्त्तमानौ अर्थक्रियामपि व्याव-र्त्तयन्तौ क्षणिकत्वपक्ष एव सत्तं व्यवस्थापयत इतिसिद्धम्। नन्वक्षणिकस्यार्थक्रियाकारित्वं किं न स्यादितिचेत् तदयुक्त विकल्पासहत्वात् तथा हि वर्त्तमानाथ-क्रियाकरणकाले अतीतातागतयोः किमर्थक्रिययोःस्थायिनः सामर्थ्यमस्तिः? नो वा? आद्ये तयोरनिरा॰करणप्रसङ्गः समर्थस्य क्षेपायोगात् यत् यदा यत्करण-समर्थं तत् तदा तत्करोत्येव यथा समग्री स्वकार्य्यंसमर्थश्चायं भावः इति प्रसङ्गानुमानाच्च। द्वितीयेऽपिकदापिनि कुर्य्यात् सामर्थ्यमात्रानुबन्धित्वादर्थक्रियाकारि-त्वस्य यत् यदा यन्न करोति तत् तदा तत्रासमर्थंयथा हि शिलाशकलमङ्कुरे, न चैष वर्त्तमानार्थक्रिया॰करणकाले वृत्तवर्त्तिष्यमाणे अर्थक्रिये करोतीतितद्विपर्य्ययाच्च। ननु क्रमवत्सहकारिणः स्थायिनःअतीतानागतयोः क्रमेण क्रमणमुपपद्यते इति चेत्तत्रेदं भवान् पृष्टो व्याचष्टां सहकारिणः किं भाव-स्योपकुर्वन्ति? न वा? न चेत् नापेक्षणीयास्ते अकि-ञ्चित्कुर्वतां तेषां तादर्थ्यायोगात्। उपकारकत्वपक्षेसोऽयमुपकारः किं भावाद्भिद्यते? न वा? भेदपक्षेआगन्तुकस्यैब तस्य कारणत्वे स्यात् न भावस्याक्षणि-कस्य, आगन्तुकातिशयान्ववव्यतिरेकानुविधायित्वात्कार्य्यस्य। तदुक्तम्
“वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्तितयोः फलम्?। चर्मोपमश्च सोऽनित्यः खतुल्यश्चेदसत्-फल इति”। अथ भावस्तैः सहकारिभिः सहैव कार्य्यंकरोतीति स्वभाव इति चेत् अङ्ग तर्हि सहारिणोन जह्यात् प्रत्युत पलायमानानपि पाशेन बद्घा कृत्यंकार्य्यं कुर्य्यात् स्वभावस्यानपायात्। किञ्च सह-कारिजन्योऽतिशयः किमतिशयान्वरमारभते न वा उभ-यथापि प्रागुक्तदूषणपापाणवर्षणप्रसङ्गः। अतिशयान्त-रारम्भपक्षे बहुमुखानवस्थादौस्थ्यमपि स्यात् अतिशयेजनयितव्ये सहकार्य्यन्तरापेक्षायां तत्परम्परापात इ-त्येकानवस्थास्थेया, तथाहि सहकारिभिः सलिल-पवनादिभिः पदार्थसार्थैराधीयमाने वीजस्यातिशंये वीज-मुत्पादकमभ्यु पेयम् अपरथा तदभावेऽप्यतिशयः प्रादुर्भ-येत् वीजञ्चातिशयमादधानं सहकारिसापेक्षमेवाधचअन्यथा सर्वदोपकारापत्तौ अङ्कुरस्यापि सदोदयः प्रस-ज्येत। तस्मादतिशयार्थमपेक्षमाणैः सहकारिभिरद्वि-[Page4580-a+ 38] शयान्तरमाधेयं वीजे, तस्मिन्नत्युपकारे पूर्वन्यायेनसहकारिसापेक्षस्य वीज{??} जनकत्वे सहकारिसम्पा-द्यवीजगतातिशयानवस्था प्रथमा व्यवस्थिता। अथोप-कारः कार्य्यार्थमपेक्ष्यमाणोऽपि वीजादिनिरपेक्षं कार्य्यंजनयति तत्सापेक्षो वा। प्रथमे वीजादरहेतुत्वमाप॰तेत्। द्वितीये अपेक्ष्यमाणेन वीजादिना उपकारे अति-शय आधेयः एवं तत्र तत्रापीति वीजादिजन्याति-शयनिष्ठातिशयपरम्परापात इति द्वितीयानवस्था स्थिराभवेत्। एवमपेक्ष्यमाणेनोपकारेण वीजादौ धर्मिण्युप-कारान्तरमाधेयमित्युपकाराधेयवीजातिशयाश्रयातिशय-परम्परापात इति तृतीयानवस्था दुरवस्था स्यात्। अथ भावादभिन्नोऽतिशयः सहकारिभिराधीयत इत्य-भ्युपगम्यते तर्हि प्राचीनो भावोऽनतिशयात्मा निवृत्तःअन्यश्चातिशयात्मा कुर्वद्रूपादिपदवेदनीयो जायत इतिकलितं ममापि मनोरथद्रुमेण। तस्मादक्षणिकस्यार्थ-क्रिया दुर्घटा। नाप्यक्रमेण घटते विकल्पासहत्वात्। तथा हि युगपत्सकलकार्य्यकरणसमर्थः स भावस्तदुत्तर-कालमनुवर्त्तते न वा। प्रथमे तत्कालवत् कालान्तरेऽपितावत्कार्य्यकरणमापतेत्। द्वितीये स्थायित्ववृत्त्याशामूषिकभक्षितवोजादावङ्करादिजननप्रार्थनामनुहरेत्। यत्विरुद्धधर्माध्यस्तं तन्नाना यथा शीतोष्णे। विरुद्ध-धर्माध्यस्तश्चायमिति जलधरे प्रतिबन्धसिद्धिः। न चायमसिद्धो हेतुः, स्थायिनि कालभेदेन सामर्थ्यासाम-र्थ्ययोः प्रसङ्गतद्विपर्य्ययसिद्धत्वान् तत्रासामर्थ्यसाधकौप्रसङ्गतद्विर्य्ययौ प्रागुक्तौ सामर्थ्यसाधकावभिधीयेतेयद्यदा यज्जननासमर्थं तत् तदा तन्न करोति यथाशिकाशकलमङ्कुरम् असमर्य{??}यं वर्त्तमानार्थक्रिया-करणकाले अतीतानागतयोरर्थक्रिययोरिति प्रसङ्गःयद्यदा यत् करोति तत् तदा तत्र समर्थं यथा सा-मग्रो स्वकार्य्येति, करोति चायमतीतानागतकाले तत्-कालवर्त्तिन्यावर्थक्रिये भाव इति प्रसङ्गव्यत्ययः विप-र्ध्ययः। तस्माद् विपक्षे क्रमयौगपद्यव्यावृत्त्या व्याप-कानुपलम्भेनाधिगतव्यतिरेकव्याप्तिक प्रसङ्गतद्विप-र्य्ययबलात् गृहीतान्वयव्याप्तिकं सत्त्वं क्षणिकत्व-पक्ष एव व्यवस्थास्यतीति सिद्धम्। तदुक्तं ज्ञान-श्रिया
“यत् सत्तत् क्षणिकं यथा जलधरः सन्तश्चभावा अमी सत्ताशक्तिरिहार्थकर्मणि मितेः सिद्धेषुसिद्धा न सा। नाप्येकैव विधाऽन्ययः परकृतेनापि[Page4580-b+ 38] क्रियादिर्भवेत् द्वेधापि क्षणभङ्गसङ्गतिरतः साध्ये चविश्राम्यतीति”। न च कणभक्षाक्षन्वरणादिपक्षकक्षी-कारेण सत्तासामान्ययोगित्वमेव सत्त्वमिति मन्तव्यंसामान्यविशेषसमवायानामसत्त्वप्रसङ्गात्। न च तत्रस्वरूपसत्तानिबन्धनः सद्व्यवहारः प्रयोजकगौरवा-पत्तेः अनुगतत्वाननुगतत्वविकल्पपराहतेश्च, सर्षपमही-धरादिषु विलक्षणेषु क्षणेष्वनुगतस्याकारस्य मणिषु सूत्र-वद्भूतगणेषु गुणवच्चाप्रतिभासनाच्च। किञ्च सामान्यंसर्वगतं स्वाश्रयसर्वगतं वा प्रथमे सर्ववस्तुसङ्करप्रसङ्गःअपसिद्धन्तापत्तिश्च यतः प्रोक्तं प्रशस्तपादेन
“स्वविषय-सर्वगतमिति। किञ्च विद्यमाने घटे वर्त्तमानं सामा-न्यमन्यत्र जायमानेन संबधमानं तस्यादागच्छत् मब-ध्यते अनागच्छत् वा आद्ये द्रव्यत्पापत्तिः द्वितीये स-म्बन्धानुपपत्तिः। किञ्च विनष्टे घटे सामान्यमत्रति-ष्ठते, विनश्यति, स्थानान्तरं गच्छति वा प्रथमे निरा-धारत्यापत्तिः, द्वितीये नित्यत्ववाचोयुक्त्ययुक्तिः, तृतीयेद्रष्टव्यत्वप्रसक्तिः इत्यादि दूषणग्रहग्रस्तत्वात् सामान्य-मप्रामाणिकम्।
“अन्यत्र वर्त्तमानस्य ततोऽन्यस्थान-जन्मनि। तस्मादचलतः स्थानाद् वृत्तिरित्यतियुक्तता। यत्रासौ वर्त्तते भावस्तेन संबध्यते न तु। तद्देशिनञ्चध्याप्नोति किमप्येतन् महाद्भुतम्। न याति न चतत्रासीदस्ति पश्चान्नचांशवत्। जहाति पूर्वं नाधार-महो व्यसनसन्ततिरिति” अनुवृत्तप्रत्ययः किमालम्बनइति चेत् अङ्ग अन्यापोहालम्बन एवेति सन्तोष्टव्यमा-युष्मतेति अलमतिप्रसङ्गेन। सर्वस्य ससारस्य दुःखा-त्मकत्वं सर्वतीर्थकरसम्मतम् अन्यथा तन्निविवर्त्तयिषूणांतेषां तन्निवृत्युपाये प्रवृत्त्यनुपपत्तेः। तस्मात् सर्वंदुःखं दुःखमिति भावनीयम्। ननु किंवदिति पृष्टेदृष्टान्तः कथनीय इति चेन्मैवं स्वलक्षणानां क्षणानांक्षणिकतया सालक्षण्याभावात् नैनेन सदृशमपरमितिवक्तुमशक्यत्वात्। ततः स्वलक्षणं स्वलक्षणमितिभाविनीयम्। एवं शन्यं शून्यमपि मावनीयं स्वप्नेजागरणे च न मया दृष्टमिदं रजतादीति विशिष्ट-निषेघस्योपलम्भात्। यदि दृष्टं सत् तदा तद्विशिष्टस्यदर्शनखेदन्ताया अधिष्ठानस्य च तस्मिन्नध्यस्तस्य रजत-त्वादेस्तत्सम्बन्धस्य च समवायादेः सत्त्वं स्यात् नचैतदिष्टं कस्यचिद् वादिनः। न चार्द्धजरतीयसुचितंस हि कुक्कुट्या एको भागः पाकाय अपरो भागः प्रस-[Page4581-a+ 38] वाय कल्प्यतामिति कल्प्यते। तस्मादध्यस्ताधिष्ठान-तत्सम्बन्धदर्शनद्रष्टृणां मध्ये एकस्यानेकस्य वा अ-सत्त्वे निषेधविषयत्वेन सर्वस्यासत्त्वं बलादापतेदिति। (माध्यमिकाः) भगवतोपदिष्टे माध्यमिकास्तावदुत्तमप्रज्ञा इत्थ-मचीकथन् भिक्षुपादप्रसारणन्यायेन क्षणभङ्गाद्यभिधान-मुखेन स्थायित्वानुकूलेवेदनीयत्वानुगतसर्वसत्यत्वभ्रमव्याव-र्त्तनेन सर्वशून्यतायामेव पर्य्यवसानम्। अतस्तत्त्वं सदस-दुभयानुभयात्मकचतुष्कोटिविनिर्मुक्तं शून्यमेव। तथा हियदि घटादेः सत्त्वं स्वभावस्तर्हि कारकव्यापारवैयर्थ्यम्। असत्त्वं सवभाव इति पक्षे प्राचीन एव दोषः प्रादुःष्यात्। यथोक्तम्
“न सतः कारणापेक्षा व्योमादेरिवयुज्यते। कार्य्यस्यसम्भवो हेतुः खपुष्पादेरिवासतः” इतिविरोधादितरौ पक्षावनुपपन्नौ तदुक्तं भगवता लङ्कारतारे
“बुद्ध्या विविच्यमानानां स्वमावो नावधार्य्यते। अतोनिरभिलप्यास्ते निःस्वभावाश्च दर्शिताः” इति।
“इदं वस्तुबलायतं यद्वदन्ति विपश्चितः। यथा यथार्थाश्चिन्त्यन्तेविशीर्य्यन्ते तथा तथेति” च। न क्वचिदपि पक्षेव्यवतिष्ठत इत्यर्थः। दृष्टार्थव्यवहारश्च न स्वप्नव्यवहार-वत् संवृत्त्या सङ्गच्छते। अतएवोक्तन्न
“परिव्राट्कामुकशुनामेकस्यां प्रमदातनौ। कुणपः कामिनी भक्ष्य इतितिस्रो विकल्पना इति। ” तदेवं भावनाचतुष्टयवशान्नि-खिलवासनानिवृत्तौ निर्वाणं शून्यरूपं सेत्स्यतीतिवयं कृतार्थाः नास्माकसुपदेश्यं किञ्चिदस्तीति। शिव्यै-स्तावद्योगश्चाचारश्चेति द्वयं करणीयम्। तत्रापाप्त-स्यार्थस्य प्राप्तये पर्य्यनुयोगो योगः गुरूक्तस्यार्थस्याङ्गीकर-णमाच्चारः गुरूक्तस्याङ्गीकरणादुत्तमाः पर्य्यनुयोगस्या-करणादपमाश्च अतस्तेषां माध्यमिका इति प्रसिद्धिः। (योगाचाराः) गुरूक्तमावनाचतुष्टयं बाह्यार्थस्य शून्यत्वंचाङ्गीकृत्यान्तरस्य शून्यत्वञ्चाङ्गीकृतं कथमिति?पर्य्यनुयोगस्य करणात् केषाञ्चिद् योगाचारप्रथा एषाहि तेषां परिभाषा स्वयंवेदनं तावदङ्गीकार्य्यम् अन्यथाजगदान्ध्यं प्रसज्येत। तत्कीर्त्तितं धर्म्मकीर्त्तिना
“अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यतीति। ” वाह्यंग्राह्यं नोदपद्यत एव विकल्पानुपपत्तेः। अर्थो ज्ञान-ग्राह्यो भावादुत्पन्नो भवति अनुत्पन्नो वा, न पूर्वः उत्पन्नम्भ स्थित्यभावात् नापरः अनुत्पन्नस्यासत्त्वात्। अथ-मन्येथाः अतीत एवार्थो ज्ञानग्राह्यः तज्जनकत्वादितितदपि बालमाषितं वर्त्तमानतावभासविरोधात् इन्द्रिया-[Page4581-b+ 38] देरपि ग्राह्यत्वप्रसङ्गाच्च। किञ्च ग्राह्यः कि परमाणु-रूपोऽर्थः अवयविरूपो वा। त चरमः कृत्म्रैकदेशवि-कल्पादिना तन्निराकरणात्। न प्रथमः अतीन्द्रियत्वात्षट्केन युगपद्योगस्य बाधकत्वाच्च। यथोक्तम्
“षट्केनयुगपद् योगात् परमाणोः षडंशता। तेषामप्येकदेशत्वेपिण्डः स्यादणुमात्रकः” इति। तस्मात् स्वव्यतिरिक्त-ग्राह्यविरहात्तदात्मिफा बुद्धिः स्वयमेव स्वात्मरूपपका-शिका प्रकाशवदिति सिद्धम्। तदुक्तम्
“नान्योऽनुभाव्योबुद्ध्यास्ति तस्या नानुभवोऽपरः। ग्राह्यग्राहकवैधुर्य्यात्स्वयं सैव प्रकाशते इति। ” ग्राह्यग्राहकयोरभेदश्चानु-मातव्यः यद्वेद्यते येन वेदनेन तत्ततो न भिद्यते यथाज्ञानेनात्मा, वेद्यन्ते तैश्च नीलादयः। भेदं हि सत्य-धुना अनेनार्थस्य सम्बन्धितं न स्यात् तादात्म्यस्य निय-महेतोरभावात् तदुत्पत्तेरनियामकत्वात् यश्चायं ग्राह्य-ग्राहकसंवित्तीनां पृथगवभासः स एकस्मिंश्चन्द्रमसिद्वित्वावभास इव भ्रमः अत्राप्यनादिरविच्छिन्नप्रवाहा भेद-वामनैव निमित्तम्। यघोक्तम्
“सहोपलम्भनियमा-दभेदो नीलतद्धियोः। भेदश्च भ्रान्तिविज्ञानैर्दृश्येतेन्दा-विवाद्वये” इति।
“अविभागोऽपि बुद्ध्यात्मा विपर्यासित-दर्शनैः। ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते” इति च। न च रसवीर्य्यविपाकादिसमानमाशामोदकोपार्जितमो-दकानां स्यादिति वेदितव्यं वस्तुतो वेद्यवेदकाकार-विधुराया अपि बुद्धेर्व्यवहर्तृपरिज्ञानानुरोधेन विभिन्न-ग्राह्यग्राहकाकाररूपवत्तया तिमिराद्युपहताक्षाणां केशे-न्द्रनाडीज्ञानाभेदवदनाद्युपप्लवबासनासामर्थ्याद् व्यवस्थो-पपत्तेः पर्य्यनुयोगायोगात्। यथोक्तम्
“अवेद्यवेदका-कारा यथा भ्रान्तैर्निरीक्ष्यते। विभक्तलक्षणग्राह्यग्राह-काकारविप्लवा। तथा कृतय्य्वस्थेयं केशादिज्ञानभेद-वत्। यदा तदा न सञ्चोद्या ग्राह्यग्राहकलक्षणेति” तस्माद् बुद्धिरेवानादिवासनावशादनेकाकारावभासत इतिसिद्धम्

१ ततश्च प्रागुक्तभावनाप्रचयबलान्निखिलवास-नोच्छेदविगलितविवधविषयाकारोपप्लवविशुद्धविज्ञानोदयोमहोदय इति। (सौत्रान्तिकाः) अन्ये तु मन्यन्ते यथोक्तं वाह्यं वस्तु-जातं नास्तीति तदयुक्त प्रमाणाभावात्। न चसहोपलम्भनियमः प्रमाणमिति वक्तव्यं वेद्यवेदकयो-रभेदसाधकत्वेनाभिमतस्य तस्याप्रयोजकत्वेन सन्दिग्ध-विपक्षव्यावृत्तिकत्वात्। ननु भेदे महीपलम्भनियमात्मकं[Page4582-a+ 38] साधन न स्यादिति चेन्न ज्ञानस्यान्तर्मुखतथा चभेदेन प्रतिभासमानतया एकदेशत्वैककालत्वलक्षणसहत्व-नियमासम्भवाच्च नीलार्थस्य ज्ञानाकारत्वे अहमितिप्रतिभासः स्यात् नत्विदमिति प्रतिपत्तिः प्रत्ययाव्य-तिरेकात्। अथोच्यते ज्ञानस्वरूपोऽपि नीलाकारोभ्रान्त्या बहिर्वद्भेदेन प्रतिभासत इति न च तत्राह-मुल्लेख इति यथोक्तम्
“परिच्छेदान्तराद् योऽयं भागोबहिरिव स्थितः। ज्ञानस्याभेदिनो भेदप्रतिभासोऽप्यु-पप्लवः” इति।
“यदन्तर्ज्ञेयतत्त्वं तद् वहिर्वदवभासत इतिच” --तदयुक्तं बाह्यार्थाबावे तदुत्पत्तिरहिततया बहिर्व-दित्युपमानोक्तेरयुक्तेः न हि वसुमित्रो बन्ध्यापुत्रवदब-भासत इति प्रेक्षावानाचक्षीत। भेदप्रतिभासस्य भ्रान्तत्वेअभेदप्रतिभासस्य प्रामाण्यं, तत्प्रामाण्ये च भेदप्रति-भासस्य भ्रान्तत्वमिति परस्पराअश्रयप्रसङ्गाच्च। अविसंवा-दान्नीलतादिकमेव संविदाना बाह्यमेवोपाददते जगत्यु-पेक्षन्ते चान्तरमिति व्यवस्थादर्शनाच्च। एवञ्चायमभेद-साधको हेतुर्गोमयपायसीयन्यायवदाभासतां भजेत् अतोचहिर्वदिति वदता बाह्यं ग्राह्यमेवेति भावनीयमितिभवदीय एव वाणो भवन्तं प्रहरेत्। ननु ज्ञानाभि-न्नकालस्यार्थस्य बाह्यत्वमनुपपन्नमिति चेत् तदनुपपन्नम्इन्द्रियसन्निकृष्टस्य विषयस्योत्पाद्ये ज्ञाने स्वाकार-समर्पकतया समर्पितेन चाकारेण तस्यार्थस्यानुमेयतोप-पत्तेः अतएव पर्य्यनुयोगपरिहारौ समग्राहिषाताम्।
“भिन्नकालं कथं ग्राह्यमिति चेत् ग्राह्यतां विदुः। हेतुत्वमेव च व्यक्तेर्ज्ञानाकारार्पणक्षममिति” तथा चयथा पुष्ट्या भोजनमनुमीयते यथा च भाषया देशःयथा वा सम्भ्रमेण स्नेहः तथा ज्ञानाकारेण ज्ञेयमनु-मेयम्। तदुक्तम्
“अर्द्धेन घटयत्येनां न हि मुक्त्वाऽ-र्द्धरूपताम्। तस्मात् प्रमेयाधिगतेः प्रमाणं मेयरूप-तेति” न हि वित्तिसत्तैव तद्वेदना युक्ता तस्याः सर्व-त्राविशेषात् तान्तु सारूप्यमाविशत् सरूपयितुं घटये-दिति च। तथा च बाह्यार्थसद्भावे प्रयोगः ये य-स्मिन् सत्यपि कादाचित्काः ते सर्वे तदतिरिक्तसापेक्षाःयथा अविवक्षति, अजिगमिषति मयि वचनगमनप्रति-भासा विवक्षुजिगमिषुपुरुषान्तरसन्तानसापेक्षाः तथाच विवादाध्यासिताः प्रवृत्तिप्रत्ययाः सत्यप्यालयविज्ञानेकदाचिदेव नीलाद्युल्लेखना इति। तत्रालयविज्ञानंनामाहमास्पदं विज्ञानं, नीलाद्यल्लेखि च प्रवृत्ति-[Page4582-b+ 38] विज्ञानम्। यथोक्तम्
“तत् स्यादालयविज्ञानं यद्-भवेदहमास्प्यदम्। तत् स्यात् प्रवित्तिविज्ञानं यन्नी-लादिकमुल्लिखेदिति” तस्मादालयविज्ञानसन्तानातिरिक्तःकादाचित्कः प्रवृत्तिविज्ञानहेतुर्बाह्योऽर्थो ग्राह्य एवन वासनापरिपाकप्रत्ययः कादाचित्कत्वात् कदाचि-दुत्पाद इति वेदितव्यम्। विज्ञानवादिनये हि वास-नानामेकसन्तानवर्त्तिनामालयविज्ञानानां तत्तत्प्रवृत्ति-जननशक्तिः तस्याश्च स्वकार्य्योत्पादं प्रत्याभिमुख्यंपरिपाकः तस्य च प्रत्ययः कारणं स्वसन्तानवर्त्तिपूर्वक्षणःकक्षीक्रियते सन्तानान्तरनिबन्धनत्वानङ्गीकारात्। ततश्चप्रवृत्तिज्ञानजननालयविज्ञानवृत्तिवासनापरिपाकं प्रतिसर्वऽप्यालयविज्ञानवर्त्तिनः क्षणाः समर्था एवेति वक्त-व्यम्। न चेदेव कोऽपि न समर्थः स्यादालयविज्ञान-सन्तानवर्त्तित्वाविशेषात्। सर्वे समर्था इति पक्षे कार्य्य-क्षेपानुपपत्तिः ततश्च कादाचित्कत्वनिर्वाहाय शब्दस्पर्श-रूपरसगन्धविषयाः सुखादिविषयाः षडपि प्रत्ययाश्चतुरःप्रत्ययान् प्रतीत्योत्पद्यन्ते इति चत्रेणानिच्छताप्यच्छ-मतिना स्वानुभवमानाच्छाद्य परिच्छेत्त्यव्यम्। ते चत्वारःप्रत्ययाः आलम्बनसमन्तरसहकार्य्यधिपतिरूपाः तत्रज्ञानपदवेदनीयस्य चित्तस्य नीलालम्बनप्रत्ययात् नीला-कारता भवति, समनन्तरप्रत्ययात् प्राचीनज्ञानाद् बोध-रूपता, सहकारिप्रत्ययादालोकात्, चक्षुषोऽधिपति-प्रत्ययाद्विषयग्रहणप्रतिनियमः विदितस्य ज्ञानस्य रसा-दिसाधारण्यप्राप्तेर्नियमकं चक्षुरधिपतिर्भवितुमर्हतिलोके नियामकस्याधिपतित्वोपलम्भात्। एवं चित्तचैत्तात्मकानां सुखादीनां चत्वारि कारणानि द्रष्टव्यानि। एवं चित्तचैत्तात्मकस्कन्धः पञ्चविधः रूपविज्ञानवेदना-संज्ञासंस्कारसंज्ञकः। तत्र अरूप्यन्ते एभिर्विषया इतिच व्युत्पत्त्या सविषयाणीन्द्रियाणि रूपस्कन्धः। आल-यविज्ञानप्रवृत्तिबिज्ञानप्रवाहो विज्ञानस्कन्धः। प्रागुक्त-स्कन्धद्वयअम्बन्धजन्यः सुखदुःखादिप्रत्ययपवाहो वेदनास्कन्धः। गौरित्यादिशब्दल्लि खिसविज्ञानप्रवाहः संज्ञा-स्कन्धः। वेदनास्कन्धनिबन्धना रामद्वेषादयः क्लेशा उप-क्लेशाश्च मदमानादयो धर्माधर्मौ च संस्कारस्कन्धः। तदिदं सर्वं दुखं दुःखस्यायतनं दुःखसाधनञ्चेतिभावयित्वा तन्निरोधोपायं तत्त्वज्ञानं सम्पादयेत्। अतएवोक्तं
“दुःखसमुदायनिरोधमार्गाश्चत्वारः बुद्धाभिमतानितत्त्वानि”। तत्र दुःखं प्रसिद्ध्वं, समुदायो दुःखकारण,[Page4583-a+ 38] तद् द्विविधं प्रत्ययोपनिबन्धनो हेतूपनिबन्धनश्च। तत्रप्रत्ययोपनिबन्धनस्य संग्राहकं सूत्रम्
“इदं कार्य्यंये अन्ये हेतवः प्रत्ययन्ति” गच्छति तेषामयमानानां हेतूनां भावः प्रत्ययत्वं, कारणसमवायः तन्मात्रस्य फलं, नचेतनस्य कस्यचिदिति सूत्रार्थः। यथा वीजहेतुरङ्कुरोधातूनां षण्णां समवायाज्जायते। तत्र पृथिवीधातुरङ्कुरस्यकाठिन्यं गन्धञ्च जनयति, अब्धातुः स्नेहं रसञ्च जन-यति, तेजोधातुः रूपमौष्ण्यञ्च, वायुधातुः स्पर्शनंचलनञ्च, आकाशधातुरवकाशं शब्दञ्च ऋतुधातुर्यथा-योगं पृथिव्यादिकम्। हेतूपनिबन्धनस्य च संग्राहकंसूत्रम्
“उत्पादाद् वा तथागतानामनुत्पादाद् वा स्थितै-वैषां धर्माणां धर्मता धर्मस्थितिता धर्मनियामकताच प्रतीत्य समुत्पादानुलोमतेति”। तथागतानां बुद्धानांमते धर्माणां कार्य्यकारणरूपाणां या धर्मता कार्य्य-कारणभावरूपा एषोत्पादादनुत्पादाद् वा स्थिता, य-स्मिन् सति यदुत्पद्यते तत् तस्य कारणस्य कार्य्य-मिति धर्मतेत्यस्य विवरणं, धर्मस्य कार्य्यस्य कारणा-नतिक्रमेण स्थितिः स्वार्थिकस्तल्प्रत्ययः। धर्मस्यकारणस्य कार्य्यं प्रति नियामकता। नन्वयं कार्य्य-कारणभावश्चेतनमन्तरेण न सम्भवतीति अत उक्तं का-रणे सति तत्प्रतीत्य प्राप्य समुत्पादे अनुलोमता अ-नुसारिता या सैव धर्मता उत्पादादनुत्पादाद् वा ध-र्धाणां स्थिता। न चात्र कश्चिच्चेतनोऽधिष्ठातोपलभ्यतइति सूत्रार्थः। यथा प्रतीत्य समुत्पादस्य हेतूपनि-बन्धः वीजादङ्कुरोऽङ्कुरात् काण्डं काण्डान्नालोनालाद्गर्भस्ततः शूकं ततः पुष्पं ततः फलम्। न चात्रषाह्ये समुदाये कारणं वीजादि कार्य्यमङ्कुरादि चे-तायते अहमङ्कुरं निर्वर्त्तयामि अहं वीजेन निर्वर्त्तितइति। एवमध्यात्मिकेष्वपि कारणद्वयमवगन्तव्यम्। पुरःस्थिते प्रमेयाब्धौ ग्रन्थविस्तरभियोपरम्यते। तदु-भ{??}रोघः तदनन्तरं विमलज्ञानोदयो वा मुक्तिःत{??}रोधोपायो मार्गः स च तत्त्वज्ञानं तच्च प्राचीन-{??}

१ नाबलाद् भवतीति परमं रहस्यम्। सूत्रान्तंपृच्छतां कथितं भवन्तश्च सूत्रस्यान्तं पृष्टवन्तः सौत्रा-न्तिका भवन्त्विति भगवताभिहिततया सौत्रान्तिकसंज्ञाःसञ्जाताः। (वैभाषिकाः) केचन बौद्धाबाह्येषु रूपादिषु आन्तरेषु सखादिषुस्कन्धषु सत्स्वपि तत्रानास्थामुत्पादयितु सर्वं शून्य-[Page4583-b+ 38] मिति, प्राथमिकान् विनेयानचीकथत् भगवान्,द्वितीयांस्तु विज्ञानमात्रग्रहाविष्टान् विज्ञानमेवैकं स-दिति, तृतीयानुभयं सत्यमित्यास्थितान् विज्ञेयमनु-मेयमिति, सेयं विरुद्धा भाषेति वर्णयन्तो वैभापि-काख्यया ख्याताः। एषा हि तेषां परिभाषा समुन्मि-षति। विज्ञेयानुमेयत्ववादे प्रात्यक्षिकस्य कस्यचिदप्यर्थस्या-ऽभावेन व्याप्तिसंवेदनस्थानाभावेनानुमानप्रवृत्त्यनुपपत्तिःसकललोकानुभवविरोधश्च। ततश्चार्थो द्विविधः ग्रा-ह्योऽध्यवसेयश्च तत्र ग्रहणं निर्विकल्पकरूपं प्रमाणंकल्पनापोढत्वात्, अध्यवसायः सविकल्य करूपोऽप्रमाणंकल्पनाज्ञानत्वात्। तदुक्तम्
“कल्पनापोढमभ्रान्तं प्र-त्यक्षं निर्विकल्पकम्। विकल्पो वस्तुनिर्भासादसंवादा-दुपप्लवः” इति।
“ग्राह्यं वस्तु प्रमाणं हि ग्रहणं यदि-तोऽन्यथा। न तद्वस्तु न तन्मानं शब्दलिङ्गेन्द्रियादिज-मिति च” ननु सविकल्पकस्याप्रामाण्ये कथं गतःप्रवृत्तस्यार्थप्राप्तिः संवादश्चोपपद्येयातामिति चेन्न तद्भद्रंमणिप्रभाविषयमणिविकल्पन्यायेन पारपम्पर्य्येणार्थप्रति-लम्भसम्भवेन तदुपपत्तेः। अवशिष्टं सौत्रान्तिकप्रस्तावेप्रपञ्चितमिति नेह प्रतन्यते। न च विनेयाशयानु-रोधेनोपदेशभेदः साम्प्रदायिको न मवतीति भणित्यव्यंयतो भणितं बोधचित्तविवरणे
“देशना लोकनाथानांसत्त्वाशयवशानुगाः। भिद्यन्ते बहुधा लोके उपायै-र्बहुमिः किल। गम्भीरोत्तानभेदेन क्वचिच्चोभयलक्षणाः। भिन्ना हि देशनाऽभिन्ना शून्यताऽद्वयलक्षणेति। द्वादशायतनपूजा श्रेयस्करीति बौद्धनये प्रसिद्धम्।
“अर्था-नुपार्ज्य बहुशो द्वादशायतनानि वै। परितः पूजनी-यानि किसन्यैरिह पूजितैः। ज्ञानेन्द्रियाणि पञ्चैवतथा कर्मेन्द्रियाणि च। मनोबद्धिरिति प्रोक्तं द्वादशा-यतनं बुधैरिति”। विवेकविलामे बौद्धमतमित्थमध्य-धायि।
“बौद्धानां सुगतो देवो विश्वञ्च क्षणभङ्गुरम्। आर्य्यसत्त्वाख्यया तत्त्वचतुष्टयमिदं क्रमात्। दुःखमा-यतनञ्चैव ततः समुदयो मतः। मार्गचेत्यस्य च व्याख्याक्रमेण श्रूयतामतः। दुःखं संसारिण स्कन्धास्ते चपञ्च प्रकीर्त्तिताः। विज्ञानं येदना संज्ञा संस्कारो रूप-मेव च। पञ्चेन्द्रियाणि शब्दाद्या विषयः पञ्च मान-सम्। धर्मायतनमेतानि द्वादशायतनानि तु। रागा-दीनां गणोऽयं स्यात् ममुदेति नृणां हृदि। आत्मा-त्मीयस्वभावाख्यः स स्यात् समुदयः पुनः। क्षणिकाः[Page4584-a+ 38] सर्वसंस्कारा इति या वासना स्थिरा। स मार्ग इतिविज्ञेयः स च मोक्षोऽभिधीयते। प्रत्यक्षमनुमानञ्च प्र-माणद्वितयं तथा। चतुःप्रस्थानिका बौद्धाः ख्यातावैभाषिकादयः। अर्थो ज्ञानान्वितो वैभाषिकैश्च बहुम-न्यते। मौत्रान्तिकेन प्रत्यक्षग्राह्योऽर्थो न बहिर्मतः। आकारसहिता बुद्धिर्योगाचारस्य सम्मता। केवलांसंविदं स्वस्थां मन्यन्ते मध्यमाः पुनः। रागादिज्ञान-सन्तानवासनाच्छेदसम्भवा। चतुर्णामपि बौद्धानां मुक्ति-रेषा प्रकीर्त्तिता। कृत्तिः कमण्डलुर्मौण्ड्यं चोरंपूर्वाह्णभोजनम्। सङ्घो रक्ताम्बरत्वञ्च शिश्रिये बौद्ध-भिक्षुभिरिति”।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुद्ध¦ mfn. (-द्धः-द्धा-द्धं) Known, understood. m. (-द्धः)
1. A generic name for a deified teacher of the Baudd'ha sect, amongst whom numer- ous Budd'has are reckoned; the name is especially applied to the 9th incarnation of VISHN4U and the apparent founder of the reli- gion of the Baudd'has; the term is often confounded but impro- perly, with a Jina: see जिन।
2. A sage, a wise or learned man. E. बुध् to know, aff. क्तः see बुध |

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुद्ध [buddha], p. p. [बुध्-क्त]

Known, understood, perceived.

Awakened, awake.

Observed.

Enlightened, wise; एवमेव मनुष्येन्द्र धर्मं त्यक्त्वाल्पकं नरः । बृहन्तं धर्ममाप्नोति स बुद्ध इति निश्चितम् ॥ Mb.3.33.67; (see बुध्).

Expanded (विकसित); सरःसु बुद्धाम्बुजभूषणेषु विक्षोभ्य विक्षोभ्य जलं पिबन्ति Rām.4.3.41;5.14.24.

द्धः A wise or learned man, a sage.

(With Buddhists) A wise or enlightened person who, by perfect knowledge of the truth, is absolved from all existence, and who reveals to the world the method of obtaining the Nirvāṇa or final emancipation before obtaining it himself;

'The enlightened', N. of Śākyasimha, the celebrated founder of the Bauddha religion; (he is said to have been born at Kapilavastu and to have died in 543 B. C.; he is sometimes regarded as the ninth incarnation of Viṣṇu; thus Jayadeva says: निन्दसि यज्ञविधेरहह श्रुतिजातं सदयहृदय दर्शितपशुघातं केशव धृतबुद्धशरीर जय जगदीश हरे Gīt.1); क्वचिद्बुद्धः कल्किर्विहरसि कुभारापहतये Viṣṇu-mahimna 4; ततः कलौ संप्रवृत्ते संमोहाय सुरद्विषाम् । बुद्धो नाम्नाञ्जनसुतः कीकटेषु भविष्यति Bhāg.

The Supreme Soul (परमात्मा); अथ बुद्धमथा- बुद्धमिमं गुणविधिं शृणु Mb.12.38.1. -द्धम् Knowledge.-Comp. -अन्तः waking condition, the being awake; स वा एष एतस्मिन् बुद्धान्ते रत्वा Bṛi. Up.4.3.17. -आगमः the doctrines and tenets of the Bauddha religion.-उपासकः a worshipper of Buddha. -गया N. of a sacred place of pilgrimage. -गुरुः a Buddhist spiritual teacher. -मार्गः the doctrines and tenets of Buddha, Buddhism.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुद्ध बुद्धिSee. cols. 2 and 3.

बुद्ध mfn. awakened , awake MBh.

बुद्ध mfn. expanded , blown Sa1mavBr.

बुद्ध mfn. conscious , intelligent , clever , wise ( opp. to मूढ) MBh. Ka1v. etc.

बुद्ध mfn. learnt , known , understood A1past. MBh. (" by " , usually instr. , but also gen. according to Pa1n2. 2-2 , 12 ; 3 , 67 Sch. )

बुद्ध m. a wise or learned man , sage W.

बुद्ध m. (with Buddhists) a fully enlightened man who has achieved perfect knowledge of the truth and thereby is liberated from all existence and before his own attainment of निर्वाणreveals the method of obtaining it , ( esp. ) the principal बुद्धof the present age (born at कपिल-वस्तुabout the year 500 B.C. his father , शुद्धोदन, of the शाक्यtribe or family , being the राजof that district , and his mother , माया- देवी, being the daughter of राजसु-प्रबुद्धMWB. 19 etc. ; hence he belonged to the क्षत्रियcaste and his original name शाक्य-मुनिor शाक्य-सिंहwas really his family name , while that of गौतमwas taken from the race to which his family belonged ; for his other names See. ib. 23 ; he is said to have died when he was 80 years of age , prob. about 420 B.C. ib. 49 n. 1 ; he was preceded by 3 mythical बुद्धs of the present कल्प, or by 24 , reckoning previous कल्प, or according to others by 6 principal बुद्धs ib. 136 ; sometimes he is regarded as the 9th incarnation of विष्णुHariv. Ka1v. Var. etc. )

बुद्ध n. knowledge BhP. ( B. बुद्धि).

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the २०थ् अवतार् of विष्णु after the advent of Kali; born of Ajana (अञ्जन-भा। प्।) in the land of कीक- टस्; फलकम्:F1:  भा. I. 3. २४; VI. 8. १९.फलकम्:/F Hari addressed as; फलकम्:F2:  Ib. X. ४०. २२.फलकम्:/F according to म्। प्। the 9th incarna- tion. फलकम्:F3:  M. ४७. २४७; ५४. १९; २८५. 7.फलकम्:/F
(II)--a son of Bautya Manu. Br. IV. 1. ११४.
(III)--one of the names of शिव. वा. ३०. २१६; ५४. ७१; ९७. १७२; Br. III. ७२. १७७.

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BUDDHA : The founder of Buddhism. Some consider him to be an incarnation of Viṣṇu. In days of old in a battle the devas were defeated by the asuras and the gods approached Viṣṇu with their grievance. Mahā- viṣṇu incarnated as the son of Śuddhodana with the name Gautamabuddha (Siddhārtha). Then he went to the asuras and made them reject the Vedas and the laws thereof. All the Daityas (Asuras) became Bud- dhists. There is a story in Agnipurāṇa, Chapter 16, that thus it was the purpose of Buddha to convert every asura to Buddhism and send him to hell.

The story given above is in accordance with the Purā- ṇas. The following are the facts gained by historic investigations.

Gautama Buddha was born in B.C. 560, in Kapilavastu near the Himālayas. His father was Śuddhodana. He was born in the family of the Śākyas. The word ‘Śākya’ is another form of the word Kṣatriya. The real name of Buddha was Siddhārtha. Śuddhodana brought up his son in such a way that he should not be subjected to any sort of mental pain or worry. So he kept Buddha aloof from the outer world. Thus he spent his childhood in comfort and pleasure. Once by chance he happened to see a sick man, an old man and a dead body. The sight made him thoughtful. He began to think upon a way to remove sorrow and pain from the world and to bring about peace and comfort.

The change that appeared in the son worried the father. So at the age of sixteen he made Siddhārtha marry Yaśodharā. A son was born to them. But the mind of Siddhārtha was restless, distressed and agi- tated. One day Siddhārtha discarded everything and went out of the palace alone.

Siddhārtha wandered from place to place learning from various teachers. But he did not find peace. Once on a full-moon day while he was sitting in medi- tation under a banian tree he got ‘Bodha’. (insight or conviction). From that day onwards he began to be known by the name ‘Buddha’. After that he came to Kāśi, and told his disciples how he got Bodha or con- viction. The number of his followers increased day by day. Thus Buddhism came into being. Buddha said that the reason for pain and sorrow in the world was desire and that sorrow could be exterminated only by controlling and overcoming all desire. To attain Eternal Bliss one should be true and righteous in thought, deed and word and that ‘Not Killing’ was the foundation of righteousness. Buddhism spread everywhere in Bhārata.

Gautama Buddha died at the age of eighty.


_______________________________
*4th word in left half of page 165 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=बुद्ध&oldid=447460" इत्यस्माद् पुनः प्राप्तिः