बुद्धि
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बुद्धिः, स्त्री, (बुध्यतेऽनयेति । बुध् + क्तिन् ।) निश्चयात्मिकान्तःकरणवृत्तिः । इति वेदान्त- सारः ॥ सविकल्पकज्ञानम् । इति चण्डी- टीकायां नागभट्टः ॥ तत्पर्य्यायः । मनीषा २ धिषणा ३ धीः ४ प्रज्ञा ५ शेमुषी ६ मतिः ७ प्रेक्षा ८ उपलब्धिः ९ चित् १० सम्बित् ११ प्रतिपत् १२ ज्ञप्तिः १३ चेतना १४ । इत्यमरः । १ । ५ । १ ॥ धारणा १५ प्रतिपत्तिः १६ मेधा १७ मननम् १८ मनः १९ ज्ञानम् २० बोधः २१ हृल्लेखः २२ संख्या २३ प्रतिभा २४ । इति राजनिर्घण्टः ॥ आत्मजा २५ पण्डा २६ विज्ञा- नम् २७ । इति शब्दरत्नावली ॥ * ॥ अस्याः स्वरूपं यथा, -- “बुद्धिर्विवेचनारूपा सा ज्ञानजननी श्रुतौ ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २३ अध्यायः ॥ अस्या अध्यात्माधिभूताधिदैवतानि यथा, -- “अध्यात्मं बुद्धिरित्याहुः षडिन्द्रियविचारिणी । अधिभूतञ्च मन्तव्यं ब्रह्मा तत्राधिदैवतम् ॥” इति महाभारते आश्वमेधिकपर्व्व ॥ * ॥ सा च सात्त्विकराजसतामसभेदेन त्रिविधा । सात्त्विकी यथा, -- “प्रवृत्तिञ्च निवृत्तिञ्च कार्य्याकार्य्ये भयाभये । बन्धं मोक्षञ्च या वेत्ति बुद्धिः सा पार्थ ! सात्त्विकी ॥” राजसी यथा, -- “यथा धर्म्ममधर्म्मञ्च कार्य्यञ्चाकार्य्यमेव च । अयथावत् प्रजानाति बुद्धिः सा पार्थ ! राजसी ॥” तामसी यथा, -- “अधर्म्मं धर्म्ममिति या मन्यते तमसावृता । सर्व्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ ! तामसी ॥” इति श्रीभगवद्गीता ॥ तस्याः पञ्च गुणा यथा, -- “इष्टानिष्टविपत्तिश्च व्यवसायः समाधिता । संशयः प्रतिपत्तिश्च बुद्धेः पञ्च गुणान् विदुः ॥” इति महाभारते मोक्षधर्म्मः । इष्टानिष्टविपत्तिः इष्टानिष्टानां वृत्तिविशेषाणां विपत्तिर्नाशः निद्रारूपा वृत्तिरित्यर्थः । व्यव- सायः उत्साहः । समाधिता चित्तस्थैर्य्यं चित्तवृत्तिनिरोध इत्यर्थः । संशयः कोटिद्बयस्पृक् ज्ञानम् । प्रतिपत्तिः प्रत्यक्षादिप्रमाणवृत्तिः । इति तट्टीका ॥ * ॥ तस्याः सप्त गुणा यथा -- “शुश्रूषा श्रवणञ्चैव ग्रहणं धारणन्तथा । ऊहोपोहोऽर्थविज्ञानं तत्त्वज्ञानञ्च धीगुणाः ॥” इति हेमचन्द्रः ॥ * ॥ तस्या वृत्तिः पञ्चधा यथा । प्रमाणम् १ विप- र्य्ययः २ विकल्पः ३ निद्रा ४ स्मृतिः ५ । इति पातञ्जलम् ॥ * ॥ बुद्धिक्षयकरा यथा, -- “शोकः क्रोधश्च लोभश्च कामो मोहः परासुता । ईर्ष्या मानो विचिकित्सा कृपासूया जुगुप्सता ॥ द्वादशैते बुद्धिनाशहेतवो मानसा मलाः ।” इति कालिकापुराणे १८ अध्यायः ॥ * ॥ अपि च । “बुद्धिक्षयकरा एते माषकासवमृत्तिकाः ॥” बुद्धिबृद्धिकरा यथा, -- “निम्बाटरूषवृन्ताश्च बुद्धिवृद्धिकरा मताः ॥ बुद्धिक्षयकरान्नित्यं त्यजेद्राजा च भोजने । भोजयेदन्वहं बुद्धिबृद्धिहेतुं नृपोत्तम ! ॥” इति कालिकापुराणे ८९ अध्यायः ॥ * ॥ न्यायमते सा विभुगुणः पुनर्द्विविधा अनुभूतिः स्मृतिश्च । यथा, -- “विभुर्बुद्ध्यादिगुणवान् बुद्धिस्तु द्विविधा मता । अनुभूतिः स्मृतिश्च स्यादनुभूतिश्चतुर्विधा ॥ प्रत्यक्षमप्यनुमितिस्तथोपमितिशब्दजे ।” इति भाषापरिच्छेदः ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बुद्धि स्त्री।
बुद्धिः
समानार्थक:बुद्धि,मनीषा,धिषणा,धी,प्रज्ञा,शेमुषी,मति,प्रेक्षा,उपलब्धि,चित्,संविद्,प्रतिपत्,ज्ञप्ति,चेतना,संज्ञा,आत्मन्,प्रधान,प्रज्ञान
1।5।1।1।1
बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः। प्रेक्षोपलब्धिश्चित्संवित्प्रतिपत्ज्ञप्तिचेतना॥
अवयव : वासना
वैशिष्ट्यवत् : निश्चयः
: धारणावत्बुद्धिः, तर्कः, निश्चयः, मोक्षोपयोगिबुद्धिः, शिल्पादिविषयकबुद्धिः, मोक्षः, शङ्का, अन्यशुभद्वेषबुद्धिः, वितर्कः
पदार्थ-विभागः : , गुणः, बुद्धिः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बुद्धि¦ स्त्री॰ बुध--क्तिन्।
१ ज्ञाने,
२ सुखदुःखाद्यष्टबिध-धर्मयुते प्रकृतिपरिणामभेदे
“महत्तत्त्वमिति प्रोक्तं बुद्धि-तत्त्वं तदुच्यते” सां॰ प्र॰ भा॰ धृतवाक्यम्। वेदान्तोक्तेनिश्चयात्मकवृत्तियुते
३ अन्तःकरणे च।
“मनोबुद्धिरह-ङ्कारश्चित्तं करणयान्तरम्। संशयो निश्चयो गर्बः स्मरणंविषया अमी” वेदान्तप॰।
४ धर्मपत्नीभेदे भा॰ आ॰
६६ अ॰। कणा॰ सूत्रोपस्करवृत्तौ सांख्यमतसिद्धमहत्तत्वरूपबुद्धितत्व-निराकरणेन बुद्धेर्ज्ञानपर्य्यायता तद्भोदाश्चोका यथा
“द्र-व्येषु ज्ञानं व्याख्यातम्” सू॰
“विषयेण तिषयिणं तृतीया-ध्यायस्थमुपलक्षयति।
“इन्द्रियार्यप्रसिद्धिरिन्द्रियार्थेभ्योऽर्थान्तरस्य हेतुः”
“आत्मेन्द्रियार्थसन्निकर्षाद् यन्निष्पद्यते तद-न्यत्र” इत्येताभ्यां सूताभ्यां ज्ञानं व्याख्यातमित्यर्था”। तत्रबुद्धिरुपलब्धिर्ज्ञानं प्रत्यय इति पर्य्यायाः” गौ॰ सू॰ समान-तन्त्रे बुद्धिलक्षणे साङ्ख्यमतनिरासार्थं पर्थ्यायाभिधानम्। साङ्ख्या हि बुद्ध्यादिशब्दानामर्थभेदमाचक्षते तथा हि सत्त्व-रजस्तमसां साम्यावस्था प्रकृतिः, सा चैकैव पुरुषास्तु परंभिद्यन्ते ते च कूटस्था नित्या अपरिणाभिनो नित्यचैतन्य-स्वभावाः ते च पङ्गवोऽपरिणामित्वात् पकृतिस्त्वन्धा जड-वात यदा विषयभोनेच्छा प्रकृतिपुरुषभेददिदृक्षा च प्रकृते-र्भवति तदा सा पुरुषोपरागवशात् परिणमेत् तस्याश्चाद्यःगरिणामो द्धिरन्तःकरणविशेषः बुद्धिरेव महत्तत्र तदु-[Page4584-b+ 38] क्तम्
“प्रकृतेर्सहान्” इति सां॰ सू॰। सा च बुद्धिर्दर्पणवान्नर्मला तस्याश्च बहिरिन्द्रियप्रणाडिकया विषयाकारो यःपरिणतिभेदो घट इति पट इत्याद्याकारस्तज्ज्ञानं वृत्ति-रिति चाख्यायते खच्छार्या बुद्धौ वर्त्तमानेन ज्ञानेन चैत-ज्यस्य पुरुषस्य भेदाग्रहादहं जानामीति यौऽभिमानविशेषःसैवोपलब्धिः। स्रक्चन्दनादिविषयसन्नि कर्षादिन्द्रियप्रणा-डिकयैव सुखदुःखाद्याकारो बुद्धेरेव यः परिणामविशेषःस प्रत्ययः। अतएव ज्ञानसुखदुःखेच्छाद्वेषप्रयत्नसंस्कारध-र्माऽधर्माः सर्वएव बुद्धेः परिणामविशेषाः सूक्ष्ममात्रयाप्रकृतावे वर्त्तमाना अवस्थाभेदादाविर्भवन्ति तिरोभवन्तिच। पुरुषस्तु पुष्करपलाशवन्निर्लेपः प्रतिविम्बते परं बुद्धा-वितिं यन्मन्यन्ते। तदनेन पर्य्यायाभिधानसूचितप्रमाणेननिराक्रियते तथा हि बुद्धिशब्दो यदि बुध्यतेऽनयेति कर-णव्युत्पन्नस्तदा मन एव तत्पर्य्यवस्यति नच मनः प्रत्यक्षम्बुद्धिस्त्वहं बुध्ये इति प्रत्यक्षवेद्यैव। नचान्तःकरणस्य ज्ञाना-द्याधर्मा कर्तृधर्मत्वेनैव तेषां सिद्धेः भवति हि अहं जानेअहं प्रत्येमि अहमुपलभे इत्यहन्त्वसामानाधिकरण्येनप्रतिभासः। अभिमानोऽसाविति चेत् तात्त्विकत्वे वाधका-भावात्। पुरुषस्यागन्तुकधरानाधारत्वं कूटस्थत्वं तदेवबाधकमिति चेन्नामन्तुकधर्माधारत्वेऽपि नित्यत्वसम्भवात्न हि धर्मी धर्मश्चेत्येकं तत्त्वं येन धर्मोत्पादविनाशावेवधर्म्युत्पादविनाशौ स्यातां तथा च यएव चेतायते स एवबुध्यते जानात्युपलभ्यते पत्येति चेति नार्थान्तरकल्पनायुक्तेति दिक्। तच्च ज्ञानं द्विविधं विद्या चाविद्या चविद्या चतुर्व्विधा प्रत्यक्षलैङ्गिकस्मृत्यार्षलक्षणा। अवि॰द्याऽपि चतुर्व्विधा संशयविपर्य्ययस्वप्नानध्यावसायलक्षणा। तत्र यल्लैङ्गिकं तदनिन्द्रियजम् कुतएतदित्याह” उप॰ वृ॰।
“तत्रात्मा मनश्चाप्रत्यक्षे” कणा॰ सू॰।
“आत्माऽत्र परात्मा स्वात्मा वा खात्मनि मानसस्य क्वा॰चित्काहम्प्रत्ययस्याहं गौरः कृशो महाबाहुरिव्यादिप्रत्ययतिरस्कृतत्वात् स्वात्मनोऽप्यप्रत्यक्षतोक्ता। चकारादा-काशकालदिशां षायोः परमाणूनाञ्च द्रव्याणामुपग्रहः। इन्द्रियजमपि द्विविधं सर्वज्ञीयमसर्वज्ञीयञ्च सर्वज्ञीयं योग-जधर्मलक्षणया प्रत्यासत्त्या तत्तत्पदार्थसार्थज्ञानं तथा हिपरमाणवः प्रत्यक्षप्रसक्ताः प्रमेयत्वादभिधेयत्वात्सत्त्वात्। सामग्रीविरहात् कथमेवं महत्त्वस्यापि प्रत्यक्षंप्रति कारणत्वात् न च परमाणवो महन्तः रूपवत्त्व-स्यापि चाक्षुषप्रत्यक्षकारणत्वात् न च दिगादयो रूपवन्त[Page4585-a+ 38] इति चेन्न योगजधर्मसहकारिणा मनसैव तत्सम्भवात्तदुपग्रहाच्चक्षुरादिना वा। अचिन्त्यप्रभावोहि योगजोधर्मो न सहकार्य्यन्तरमपेक्षते। विवादाध्यासितः पुरुषोन सर्वज्ञः पुरुषत्वादहमिवेत्यादि तु प्रामाकरो न मीमां-साभिज्ञः पुरुषत्वादहमिवेत्यादिवद्विपक्षबाधकतर्कशून्य-त्वादप्रयोजकम्। असर्वज्ञीयञ्च प्रत्यक्षं द्विविधं सविकल्पकंनिर्विकल्पकञ्च सविकल्पकं ज्ञानं न प्रमाणमिति कीर्त्ति-दिङ्नागादयः तथा हि अभिलापर्ससगेयोग्यप्रतिभासंहि तत् नह्यभिलापेन नाम्ना सम्भवत्यर्थस्य सम्बन्धो येनघट इति पट इति वा नामानुरञ्जितः प्रत्ययः स्यात्नच जात्यादि परमार्थसत् येन तद्वैशिष्ट्यं बिषयेषु इन्द्रियगोचरः तस्मादिन्द्रियेणालोचनं जन्यते आलोचनमहिम्नाच सबिकल्पकमुत्पद्यमानं तत्रार्थे प्रवर्त्तयत् प्रत्यक्षमितिचोच्यते इति। तच्चैतदनुपपन्नमभिलापसंसर्गयोग्यप्रति-भासञ्च भवेत् प्रमाणञ्चेन्द्रियार्थसन्निकर्षजन्यं स्यादितिसन्दिग्धव्यतिरेकित्वं नामवैशिष्ठ्यञ्च चाक्षुषज्ञाने सम्भव-त्येव सुरभि चन्दनमितिवदुवनीतभानसम्भवात्। यद्वासंज्ञावैशिष्ठ्यं प्रत्यक्षज्ञाने न भासते संज्ञायाः स्मरणमात्रम्स्मृतैव साऽर्थव्यावर्त्तिका अभावज्ञाने प्रतियोगिस्मरणवत्जात्यादिकञ्च वस्तुभूतं साधितमेबातः सविकल्पकमपीन्द्रि-यार्थसन्निकर्षजत्वात् प्रत्यक्षम् प्रमाणम्। ननु निर्विकल्पकंन व्यवहारप्रवर्त्तकं न वा व्यवहारविषय इति किन्तत्रप्रमाणमिति चेत् सविकल्पकमेव तद्धि विशिष्टज्ञानम् न चविशेषणज्ञानमन्तरेण तदुत्पद्यते विशिष्टज्ञाने हि विशे-षणज्ञानविशेष्येन्द्रियसन्निकर्षतटुभयासंसर्गाग्रहस्य कार-णत्वावधारणात्” उपस्करवृत्तिः।
“सा च सात्त्विकराजसतामसभेदेन त्रिविधा। तत्र सा-त्त्विकी यथा
“प्रवृत्तिञ्च निवृत्तिञ्च कार्य्याकार्य्ये भयाभये। बन्धं मोक्षञ्च या वेत्ति बुद्धिः सा पार्थ! सात्त्विकी”। राजसी यथा
“यया धर्ममधर्मञ्च कार्य्यञ्चाकार्य्यमेव च। अयथावत् प्रजानाति बुद्धिः सा पार्थ! राजसी”। तामसीयथा
“अधर्मं धर्ममिति या मन्यते तमसावृता। मर्वा-र्थान् विपरीतांश्च बुद्धिः सा पार्थ! तामसी” गीता॰तस्याः पञ्चगुणा यथा।
“इष्टाऽनिष्टविपत्तिश्च व्यव-सायः समाधिता। संशयप्रतिपत्तिश्च बुद्धेः पञ्च गु-णान् विदुः” महाभारते मोक्षधर्मः
“इष्टानि-ष्टविपत्तिः इष्टानिष्टार्ना वृत्तिविशेषाणां विपत्तिर्नाशःनिद्रास्वपा वृत्तिरित्यर्थः। व्यवसायः उत्साहः। समा-[Page4585-b+ 38] धिता चित्तस्थैर्य्यं चित्तवृत्तिनिरोध इत्यर्थः संशयःद्वयस्पृक् ज्ञानम्। प्रतिपत्तिः प्रत्यक्षादिप्रमाणवृत्तिः” तट्टीका। तस्याः सप्त गुणा यथा
“शुश्रूषा श्रवण-ञ्चैव ग्रहणं धारणन्तथा। ऊहापोहोऽर्थविज्ञानं तत्त्व-ज्ञानञ्च धीगुणाः” हेमच॰। तस्या वृत्तिः पञ्चधा यथा।
“प्रमाणविपर्य्ययविकल्पनिद्रास्मृतयः” पात॰ सू॰ तल्लक्षणंच तत्तच्छब्दे दृश्यम्। बुद्धिक्षयकरा यथा
“शोकः क्रोधश्च लोभश्च कामो मोहःपरासुता। ईर्ष्या मानो विचिकित्सा हिंसाऽसूयाजुगुप्सता। द्वादशैते बुद्धिनाशहेतवो मानसा मलाः”। कालिकापु॰
१८ अ॰।
“बुद्धिक्षयकरा एते माषकासार-मृत्तिकाः”। बुद्धिवृद्धिकरा यथा
“निम्बाटरूषवृन्ताश्चबुद्धिवृद्धिकरा मताः। बुद्धिक्षयकरान्नित्यं त्यजेद्राजाच भोजने। भोजयेदन्वहं बुद्धिवृद्धिहेतुं नृपोत्तमः। काकिकापु॰
८९ अ॰।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बुद्धि¦ f. (-द्धिः) Understanding, intellect. E. बुध् to know, aff. क्तिन् |
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बुद्धिः [buddhiḥ], f. [बुध्-क्तिन्]
Perception, comprehension.
Intellect, understanding, intelligence, talent; तीक्ष्णा नारुंतुदा बुद्धिः Śi.2.19; शास्त्रेष्वकुण्ठिता बुद्धिः R.1.19.
Information, knowledge; बुद्धिर्यस्य बलं तस्य H.2.122 'knowledge is power'; P.I.4.52.
Discrimination, judgement, discernment; विदेशेष्वपि विज्ञाताः सर्वतो बुद्धिनिश्चयाः Rām.1.7.17.
Mind; मूढः परप्रत्ययनेयबुद्धिः M.1.2; so कृपण˚, पाप˚ &c.
Presence of mind, readiness of wit.
An impression, opinion, belief, idea, feeling; दूरात्तमवलोक्य व्याघ्रबुद्ध्या पलायन्ते H.3; अनया बुद्ध्या Mu.1 'in this belief'; अनुक्रोशबुद्ध्या Me.117.
Intention, purpose, design; मन्दीचकार मरणव्यवसायबुद्धिम् Ku.4.45. (बुद्ध्या 'intentionally', 'purposely', deliberately').
Returning to consciousness, recovery from a swoon; Māl.4.1.
(In Sāṅ. phil.) Intellect, the second of the 25 elements of the Sāṅkhyas; एषा ते$भिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु Bg.2.39.
Nature (प्रकृति); Bhāg.3.27.18.
A means, way (उपाय); किं करिष्याम भद्रं ते बुद्धिरत्र विचार्यताम् Rām.1.4.9.
N. of the 5th astrological mansion. -Comp. -अतीत a. beyond the range or reach of the intellect. -अधिक a. superior in intellect. -अवज्ञानम् contempt or low opinion for one's understanding; अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् । प्रोप्नोति बृद्ध्यवज्ञानमपमानं च पुष्कलम् ॥ Pt.1.63. -इन्द्रि- यम् an organ of perception (opp. कर्मेन्द्रिय); (these are five: the ear, skin, eye, tongue, and nose; श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी; to these sometimes मनस् is added). -कृत् a. supposing, conjecturing. -कृत a. acted wisely. -गम्य, -ग्राह्य a. within the reach of, or attainable to, intellect, intelligible. -चिन्तक a. one who thinks wisely. -च्छाया reflex action of the understanding on the soul. -जन्मन् a perception that arises; सत्सं- प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षम् MS.1.1.4. -जीविन्a.
employing the reason, rational.
Subsisting by intelligence; भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः Ms.1. 96. -तत्त्वम् the second element of the Sāṅkhya philosophy. -द्यूतम् game at chess. -पूर्व a. purposed, intentional, wanton, wilful. -पूर्वम्, -पूर्वकम्, -पुरःसरम् ind. intentionally, purposely, wilfully. -प्रागल्भी soundness of judgment. -बलम् a kind of play. -भेदः, -भ्रमः distraction ar aberration of mind; न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् Bg.3.26. -मोहः confusion of mind. -युक्त a. intelligent. -योगः intellectual communion with the Supreme Spirit. -लक्षणम् a sign of intellect or wisdom; प्रारब्धस्यान्तगमनं द्वितीयं बुद्धिलक्षणम्. -लाघवम् lightness or levity of judgment; Rām. -वर्जित a. foolish, ignorant.-विध्वंसक a. destroying consciousness or reason.-विलासः play of the mind or fancy. -विषयः matter apprehensible by reason. -वृद्धिः development of intellect, understanding or wisdom; बुद्धिवृद्धिकराणि (शास्त्राणि) Ms.4.19. -वैभवम् strength of intellect. -शक्तिः intellectual faculty. -शस्त्र a. armed with understanding.-शालिन्, -संपन्न a. intelligent, wise. -शुद्ध a. honest in purpose, frank-minded. -संकीर्णम् a kind of pavilion.-सखः, -सहायः a counsellor. -हीन a. devoid of intellect, silly, foolish.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बुद्धि f. the power of forming and retaining conceptions and general notions , intelligence , reason , intellect , mind , discernment , judgement Mn. MBh. etc.
बुद्धि f. perception (of which 5 kinds are enumerated , or with मनस्6 ; See. इन्द्रिय, बुद्धी-न्द्रिय)
बुद्धि f. comprehension , apprehension , understanding Sa1h.
बुद्धि f. (with आत्ननः, or बुद्धिर् ब्राह्मी)knowledge of one's self. psychology Car.
बुद्धि f. (in सांख्यphil. ) Intellect(= अध्य्-अवसाय, the intellectual faculty or faculty of mental perception , the second of the 25 तत्त्वs ; See. बुद्धि-तत्त्व) IW. 80 etc.
बुद्धि f. presence of mind , ready wit Pan5cat. Hit.
बुद्धि f. an opinion , view , notion , idea , conjecture MBh. Ka1v. etc.
बुद्धि f. thought about or meditation on( loc. or comp. ) , intention , purpose , design ib. ( बुद्ध्या, with the intention of. designedly , deliberately ; अनुग्रह-ब्, with a view to i.e. in order to show favour ; बुद्धिं-कृor प्र-कृ, to make up one's mind , resolve , decide , with loc. dat. acc. with प्रति, or inf. )
बुद्धि f. impression , belief. notion (often ifc. = considering as , taking for) Ka1v. Katha1s. Pur. Hit.
बुद्धि f. right opinion , correct or reasonable view R. Ragh.
बुद्धि f. a kind of metre L.
बुद्धि f. N. of the 5th astrol. mansion , VarBr2S. Sch.
बुद्धि f. Intelligence personified (as a daughter of दक्षand wife of धर्मand mother of बोध) MBh. Pur.
बुद्धि f. N. of a woman , HParis3.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--a daughter of दक्ष and a wife of Dharma; gave birth to Artha; फलकम्:F1: भा. IV. 1. ५०-51. Br. II. 9. ५० and ६०; वा. १०. २५.फलकम्:/F mother of Budha (Bodha- वि। प्।) and अप्रमाद. फलकम्:F2: Ib. १०. ३६; Vi. I. 7. २३ and ३०.फलकम्:/F
(II)--a तुषित god. Br. III. 3. १९; वा. ६६. १८.
(III)--a son of शतरूपा. M. 4. २५. [page२-488+ ३१]
(IV)--a deity, attendant on विनायक. M. २६०. ५५.
(V)--is four-fold; ज्ञानम्, वैराग्यम्, ऐश्- वर्यम् and धर्म। वा. 4. ३४; ५९. ७४.
(VI)--a term for mahat. वा. १०२. २१.
Purana Encyclopedia
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
BUDDHI : A wife of Dharmadeva. In Viṣṇu Purāṇa Aṁśa 1, Chapter 7, it is mentioned that Dharmadeva had married thirteen daughters of Dakṣa. They are Śraddhā, Lakṣmī, Dhṛti, Tuṣṭi, Medhā, Puṣṭi, Kriyā, Buddhi, Lajjā, Vapus, Śānti, Siddhī and Kīrti.
_______________________________
*2nd word in right half of page 165 (+offset) in original book.