बुद्धिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुद्धिः, स्त्री, (बुध्यतेऽनयेति । बुध् + क्तिन् ।) निश्चयात्मिकान्तःकरणवृत्तिः । इति वेदान्त- सारः ॥ सविकल्पकज्ञानम् । इति चण्डी- टीकायां नागभट्टः ॥ तत्पर्य्यायः । मनीषा २ धिषणा ३ धीः ४ प्रज्ञा ५ शेमुषी ६ मतिः ७ प्रेक्षा ८ उपलब्धिः ९ चित् १० सम्बित् ११ प्रतिपत् १२ ज्ञप्तिः १३ चेतना १४ । इत्यमरः । १ । ५ । १ ॥ धारणा १५ प्रतिपत्तिः १६ मेधा १७ मननम् १८ मनः १९ ज्ञानम् २० बोधः २१ हृल्लेखः २२ संख्या २३ प्रतिभा २४ । इति राजनिर्घण्टः ॥ आत्मजा २५ पण्डा २६ विज्ञा- नम् २७ । इति शब्दरत्नावली ॥ * ॥ अस्याः स्वरूपं यथा, -- “बुद्धिर्विवेचनारूपा सा ज्ञानजननी श्रुतौ ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २३ अध्यायः ॥ अस्या अध्यात्माधिभूताधिदैवतानि यथा, -- “अध्यात्मं बुद्धिरित्याहुः षडिन्द्रियविचारिणी । अधिभूतञ्च मन्तव्यं ब्रह्मा तत्राधिदैवतम् ॥” इति महाभारते आश्वमेधिकपर्व्व ॥ * ॥ सा च सात्त्विकराजसतामसभेदेन त्रिविधा । सात्त्विकी यथा, -- “प्रवृत्तिञ्च निवृत्तिञ्च कार्य्याकार्य्ये भयाभये । बन्धं मोक्षञ्च या वेत्ति बुद्धिः सा पार्थ ! सात्त्विकी ॥” राजसी यथा, -- “यथा धर्म्ममधर्म्मञ्च कार्य्यञ्चाकार्य्यमेव च । अयथावत् प्रजानाति बुद्धिः सा पार्थ ! राजसी ॥” तामसी यथा, -- “अधर्म्मं धर्म्ममिति या मन्यते तमसावृता । सर्व्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ ! तामसी ॥” इति श्रीभगवद्गीता ॥ तस्याः पञ्च गुणा यथा, -- “इष्टानिष्टविपत्तिश्च व्यवसायः समाधिता । संशयः प्रतिपत्तिश्च बुद्धेः पञ्च गुणान् विदुः ॥” इति महाभारते मोक्षधर्म्मः । इष्टानिष्टविपत्तिः इष्टानिष्टानां वृत्तिविशेषाणां विपत्तिर्नाशः निद्रारूपा वृत्तिरित्यर्थः । व्यव- सायः उत्साहः । समाधिता चित्तस्थैर्य्यं चित्तवृत्तिनिरोध इत्यर्थः । संशयः कोटिद्बयस्पृक् ज्ञानम् । प्रतिपत्तिः प्रत्यक्षादिप्रमाणवृत्तिः । इति तट्टीका ॥ * ॥ तस्याः सप्त गुणा यथा -- “शुश्रूषा श्रवणञ्चैव ग्रहणं धारणन्तथा । ऊहोपोहोऽर्थविज्ञानं तत्त्वज्ञानञ्च धीगुणाः ॥” इति हेमचन्द्रः ॥ * ॥ तस्या वृत्तिः पञ्चधा यथा । प्रमाणम् १ विप- र्य्ययः २ विकल्पः ३ निद्रा ४ स्मृतिः ५ । इति पातञ्जलम् ॥ * ॥ बुद्धिक्षयकरा यथा, -- “शोकः क्रोधश्च लोभश्च कामो मोहः परासुता । ईर्ष्या मानो विचिकित्सा कृपासूया जुगुप्सता ॥ द्वादशैते बुद्धिनाशहेतवो मानसा मलाः ।” इति कालिकापुराणे १८ अध्यायः ॥ * ॥ अपि च । “बुद्धिक्षयकरा एते माषकासवमृत्तिकाः ॥” बुद्धिबृद्धिकरा यथा, -- “निम्बाटरूषवृन्ताश्च बुद्धिवृद्धिकरा मताः ॥ बुद्धिक्षयकरान्नित्यं त्यजेद्राजा च भोजने । भोजयेदन्वहं बुद्धिबृद्धिहेतुं नृपोत्तम ! ॥” इति कालिकापुराणे ८९ अध्यायः ॥ * ॥ न्यायमते सा विभुगुणः पुनर्द्विविधा अनुभूतिः स्मृतिश्च । यथा, -- “विभुर्बुद्ध्यादिगुणवान् बुद्धिस्तु द्विविधा मता । अनुभूतिः स्मृतिश्च स्यादनुभूतिश्चतुर्विधा ॥ प्रत्यक्षमप्यनुमितिस्तथोपमितिशब्दजे ।” इति भाषापरिच्छेदः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुद्धिः [buddhiḥ], f. [बुध्-क्तिन्]

Perception, comprehension.

Intellect, understanding, intelligence, talent; तीक्ष्णा नारुंतुदा बुद्धिः Śi.2.19; शास्त्रेष्वकुण्ठिता बुद्धिः R.1.19.

Information, knowledge; बुद्धिर्यस्य बलं तस्य H.2.122 'knowledge is power'; P.I.4.52.

Discrimination, judgement, discernment; विदेशेष्वपि विज्ञाताः सर्वतो बुद्धिनिश्चयाः Rām.1.7.17.

Mind; मूढः परप्रत्ययनेयबुद्धिः M.1.2; so कृपण˚, पाप˚ &c.

Presence of mind, readiness of wit.

An impression, opinion, belief, idea, feeling; दूरात्तमवलोक्य व्याघ्रबुद्ध्या पलायन्ते H.3; अनया बुद्ध्या Mu.1 'in this belief'; अनुक्रोशबुद्ध्या Me.117.

Intention, purpose, design; मन्दीचकार मरणव्यवसायबुद्धिम् Ku.4.45. (बुद्ध्या 'intentionally', 'purposely', deliberately').

Returning to consciousness, recovery from a swoon; Māl.4.1.

(In Sāṅ. phil.) Intellect, the second of the 25 elements of the Sāṅkhyas; एषा ते$भिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु Bg.2.39.

Nature (प्रकृति); Bhāg.3.27.18.

A means, way (उपाय); किं करिष्याम भद्रं ते बुद्धिरत्र विचार्यताम् Rām.1.4.9.

N. of the 5th astrological mansion. -Comp. -अतीत a. beyond the range or reach of the intellect. -अधिक a. superior in intellect. -अवज्ञानम् contempt or low opinion for one's understanding; अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् । प्रोप्नोति बृद्ध्यवज्ञानमपमानं च पुष्कलम् ॥ Pt.1.63. -इन्द्रि- यम् an organ of perception (opp. कर्मेन्द्रिय); (these are five: the ear, skin, eye, tongue, and nose; श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी; to these sometimes मनस् is added). -कृत् a. supposing, conjecturing. -कृत a. acted wisely. -गम्य, -ग्राह्य a. within the reach of, or attainable to, intellect, intelligible. -चिन्तक a. one who thinks wisely. -च्छाया reflex action of the understanding on the soul. -जन्मन् a perception that arises; सत्सं- प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षम् MS.1.1.4. -जीविन्a.

employing the reason, rational.

Subsisting by intelligence; भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः Ms.1. 96. -तत्त्वम् the second element of the Sāṅkhya philosophy. -द्यूतम् game at chess. -पूर्व a. purposed, intentional, wanton, wilful. -पूर्वम्, -पूर्वकम्, -पुरःसरम् ind. intentionally, purposely, wilfully. -प्रागल्भी soundness of judgment. -बलम् a kind of play. -भेदः, -भ्रमः distraction ar aberration of mind; न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् Bg.3.26. -मोहः confusion of mind. -युक्त a. intelligent. -योगः intellectual communion with the Supreme Spirit. -लक्षणम् a sign of intellect or wisdom; प्रारब्धस्यान्तगमनं द्वितीयं बुद्धिलक्षणम्. -लाघवम् lightness or levity of judgment; Rām. -वर्जित a. foolish, ignorant.-विध्वंसक a. destroying consciousness or reason.-विलासः play of the mind or fancy. -विषयः matter apprehensible by reason. -वृद्धिः development of intellect, understanding or wisdom; बुद्धिवृद्धिकराणि (शास्त्राणि) Ms.4.19. -वैभवम् strength of intellect. -शक्तिः intellectual faculty. -शस्त्र a. armed with understanding.-शालिन्, -संपन्न a. intelligent, wise. -शुद्ध a. honest in purpose, frank-minded. -संकीर्णम् a kind of pavilion.-सखः, -सहायः a counsellor. -हीन a. devoid of intellect, silly, foolish.

"https://sa.wiktionary.org/w/index.php?title=बुद्धिः&oldid=390431" इत्यस्माद् प्रतिप्राप्तम्