बुद्धीन्द्रिय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुद्धीन्द्रियम्, क्ली, (बुद्धेर्बुद्ध्यात्मकं वा इन्द्रियम् ।) ज्ञानेन्द्रियम् । यथा, -- “मनः कर्णौ तथा नेत्रे रसना त्वक् च नासिके । बुद्धीन्द्रियमिति प्राहुः शब्दकोशविचक्षणाः ॥” इति शब्दरत्नावली ॥ (यथा मनुः । २ । ९०-९२ । “श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी । पायूपस्थं हस्तपादं वाक् चैव दशमी स्मृता ॥ बुद्धीन्द्रियाणि पञ्चैषां श्रोत्रादीन्यनुपूर्ब्बशः । कर्म्मेन्द्रियाणि पञ्चैषां पाय्वादीनि प्रचक्षते ॥ एकादशं मनो ज्ञेयं स्वगुणेनोभयात्मकम् । यस्मिन् जिते जितावेतौ भवतः पञ्चकौ गणौ ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुद्धीन्द्रिय¦ न॰

६० त॰।
“मनः कर्णौ तथा नेत्रे रसना त्वक्च नासिके। बुद्धीन्द्रियमिति प्रोक्तम्” इत्युक्तेषु इन्द्रियेषुउभयोः ज्ञानकर्मेन्द्रिययोरुपकारकत्वात् मनसो ज्ञानमात्र-सहकारित्वविवक्षया बाह्यान्तरज्ञानकरणतया च तथात्वम्
“चक्षुः श्रोत्रे स्पर्शनञ्च रसनाघ्राणमेव च। बुद्धीन्द्रियाणिजानीयात्” इत्यत्र बाह्यापेक्षया पञ्चकत्वमुक्तम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुद्धीन्द्रिय¦ n. (-यं) An organ of intellect, as the mind, eye, ear, nose, tongue, and skin. E. बुद्धि understanding and इन्द्रिय an organ.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुद्धीन्द्रिय n. an organ of sense or perception (5 in number , viz , eye , ear , nose , tongue , and skin , opp. to , कर्मे-न्द्रियाणिSee. ; मनस्, " the mind " belonging to both ; See. इन्द्रिय) Mn. Kap. Sus3r. etc. (See. IW. 84 n. 1 ).

"https://sa.wiktionary.org/w/index.php?title=बुद्धीन्द्रिय&oldid=390741" इत्यस्माद् प्रतिप्राप्तम्