ब्रह्मचारिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मचारी, [न्] पुं, (ब्रह्म ज्ञानं तपो वा आच- रति अर्जयत्यवश्यम् । ब्रह्म + चर + आवश्यके णिनिः ।) प्रथमाश्रमी । इति भरतः ॥ उपनयनानन्तरं नियमं कृत्वा गुरोः सन्निधौ स्थित्वा साङ्गवेदाध्ययनं करोति यः । स द्बिविधः । उपकुर्व्वाणः नैष्ठिकश्च । तस्य नियमा यथा, -- “यद्यस्य विहितं चर्म्म यत् सूत्रं या च मेखला । यो दण्डो यच्च वसनं तत्तदस्य व्रतेष्वपि ॥ सेवते मांस्तु नियमान् ब्रह्मचारी गुरौ वसन् । संनियम्येन्द्रियग्रामं तपोवृद्ध्यर्थमात्मनः ॥ नित्यं स्नात्वा शुचिः कुर्य्याद्देवर्षिपितृतर्पणम् । देवताभ्यर्च्चनञ्चैव समिदाधानमेव च ॥ वर्जयेन्मधु मांसञ्च गन्धं माल्यं रसान् स्त्रियः । शुक्तानि यानि सर्व्वाणि प्राणिनाञ्चैव हिंसनम् ॥ अभ्यङ्गमञ्जनञ्चाक्ष्णोरुपानच्छत्रधारणम् । कामं क्रोधञ्च लोभञ्च नर्त्तनं गीतवादनम् ॥ द्यूतञ्च जनवादञ्च परिवादं तथानृतम् । स्त्रीणाञ्च प्रेक्षणालम्भमुपघातं परस्य च ॥ एकः शयीत सर्व्वत्र न रेतः स्कन्दयेत् क्वचित् । कामाद्धि स्कन्दयन्रेतो हिनस्ति व्रतमात्मनः ॥ स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः । स्नात्वार्कमर्च्चयित्वा त्रिः पुनर्मामितृचं जपेत् ॥ उदकुम्भं सुमनसो गोशकृन्मृत्तिकाकुशान् । आहरेद्यावदर्थानि भैक्षञ्चाहरहश्चरेत् ॥ वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्म्मसु । ब्रह्मचार्य्याहरेद्भैक्षं गृहेभ्यः प्रयतोऽन्वहम् ॥ गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु । अलाभे त्वन्यगेहानां पूर्ब्बं पूर्ब्बं विवर्ज्जयेत् ॥ सर्व्वं वापि चरेद्ग्रामं पूर्ब्बोक्तानामसम्भवे । नियम्य प्रयतो वाचमभिशस्तांस्तु वर्ज्जयेत् ॥ दूरादाहृत्य समिधः सन्निदध्याद्विहायसि । सायं प्रातश्च जुहुयात् ताभिरग्निमतन्द्रितः ॥ अकृत्वा भैक्षचरणमसमिध्य च पावकम् । अनातुरः सप्तरात्रमवकीर्णिव्रतञ्चरेत् ॥ भैक्षेण वर्त्तयेन्नित्यं नैकान्नादी भवेद्व्रती । भैक्षेण व्रतिनो वृत्तिरुपवाससमा स्मृता ॥ व्रतवद्देवदैवत्ये पित्रे कर्म्मण्यथर्षिवत् । काममभ्यर्थितोऽश्नीयाद्व्रतमस्य न लुप्यते ॥ ब्राह्मणस्यैव कर्म्मैतदुपदिष्टं मनीषिभिः । राजन्यवैश्ययोस्त्वेवं नैतत् कर्म्म विधीयते ॥ चोदितो गुरुणा नित्यमप्रचोदित एव वा । कुर्य्यादध्ययने यत्नमाचार्य्यस्य हितेषु च ॥ शरीरञ्चैव वाचञ्च बुद्धीन्द्रियमनांसि च । नियम्य प्राञ्जलिस्तिष्ठेद्वीक्षमाणो गुरोर्मुखम् ॥ मुण्डो वा जटिलो वा स्यादथवा स्याच्छिखा- जटः । नैनं ग्रामेऽभिनिम्लोचेत् सूर्य्यो नाभ्युदियात् क्वचित् ॥ तञ्चेदभ्युदियात् सूर्य्यः शयानं कामचारतः । निम्लोचेद्बाप्यविज्ञानाज्जपन्नुपवसेद्दिनम् ॥ सूर्य्येण ह्यभिनिर्मुक्तः शयानोऽभ्युदितश्च यः । प्रायश्चित्तमकुर्व्वाणो युक्तः स्यान्महतैनसा ॥ आचम्य प्रयतो नित्यमुभे सन्ध्ये समाहितः । शुचौ देशे जपन् जप्यमुपासीत यथाविधि ॥” इति मानवे । २ । १७४-२२२ ॥ अपि च । श्रीऔर्व्व उवाच । “बालः कृतोपनयनो वेदाहरणतत्परः । गुरुगेहे वसेद्भूप ! ब्रह्मचारी समाहितः ॥ शौचाचारवता तत्र कार्य्यं शुश्रूषणं गुरोः । ब्रतानि चरता ग्राह्या वेदाश्च कृतबुद्धिना ॥ उभे सन्ध्ये रविं भूप ! तथैवाग्निं समाहितः । उपतिष्ठेत्तथा कुर्य्याद्गुरोरप्यभिवादनम् ॥ स्थिते तिष्ठेद्व्रजेद्याति नीचैरासीत चासति । शिष्यो गुरौ नृपश्रेष्ठ ! प्रतिकूलं न संभजेत् ॥ तेनैवोक्तः पठेद्वेदं नान्यचित्तः पुरःस्थितः । अनुज्ञातञ्च भिक्षान्नमश्नीयाद्गुरुणा ततः ॥ अवगाहेदपः पूर्ब्बमाचार्य्येणावगाहिताः । समिज्जलादिकञ्चास्य कल्यं कल्यमुपानयेत् ॥ गृहीतग्राह्यवेदश्च ततोऽनुज्ञामवाप्य वै । गार्हस्थ्यमावसेत् प्राज्ञो निष्पन्नगुरुनिष्कृतिः ॥” इति विष्णुपुराणे । ३ । ९ । १-७ ॥ अपि च । गारुडे ४९ अध्याये । “भिक्षाचर्य्याथ शुश्रूषा गुरोः स्वाध्याय एव च । सन्ध्याकर्म्माग्निकार्य्यञ्च धर्म्मोऽयं ब्रह्मचारिणः ॥” स तु द्बिविधः । यथा, कौर्म्मे २ अध्याये । “ब्रह्मचार्य्युपकुर्व्वाणो नैष्ठिको ब्रह्मतत्परः । योऽधीत्य विधिवद्वेदान् गृहस्थाश्रममाव्रजेत् ॥ उपकुर्व्वाणको ज्ञेयो नैष्ठिको मरणान्तिकः ।” (गन्धर्व्वविशेषः । यथा महाभारते । १ । १२३ । ५५ । “ब्रह्मचारी बहुगुणः सुवर्णश्चेति विश्रुतः । विश्वावसुर्भूमन्युश्च सुचन्द्रश्च शरुस्तथा ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मचारिन् पुं।

ब्रह्मचर्याश्रमी

समानार्थक:ब्रह्मचारिन्

2।7।3।2।1

महाकुलकुलीनार्यसभ्यसज्जनसाधवः। ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चतुष्टये॥

 : ब्राह्मणः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

ब्रह्मचारिन् पुं।

ब्रह्मचारिः

समानार्थक:वर्णिन्,ब्रह्मचारिन्

2।7।42।2।4

तपस्वी तापसः पारिकाङ्क्षी वाचंयमो मुनिः। तपःक्लेशसहो दान्तो वर्णिनो ब्रह्मचारिणः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्र(व्र)ह्मचारिन्¦ पु॰ ब्र(व्र)ह्म वेदस्तद्ग्रहणार्थं चरति व्रत-भेदम् चर + णिनि।

१ उपनयनानन्तरमाद्याश्रमयुतेद्विजातौ उपचारात्

२ तदाश्रमे च। तस्य कर्त्तव्यादिकंमनूक्तं ब्र(व्र)चर्य्यशब्दे दर्शितम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मचारिन्¦ m. (-री) The Brahmacha4ri4 or religious student; the young Bra4hman, from the time of his investiture with the cord, to the period of his becoming a householder: it is also applied to a per- son, who continues with his spiritual teacher, through life, study- ing the Ve4das and observing the duties of the student; it is also given as a title to Pandits learned in the Ve4das; to a class of ascetics; by the Tantras, it is assigned to persons whose chief virtue is the observance of continence; and it is assumed by many religious vagabonds. f. (-रिणी A woman leading a life of con- tinence. E. ब्रह्म the Ve4da and चर् to go or follow, aff. णिनि |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मचारिन्/ ब्रह्म--चारिन् mf( इणी)n. practising sacred study as an unmarried student , observing chastity RV. etc.

ब्रह्मचारिन्/ ब्रह्म--चारिन् m. a young Brahman who is a student of the वेद(under a preceptor) or who practises chastity , a young -BrBrahman before marriage (in the first period of his life) AV. Mn. MBh. etc. (See. आश्रमand IW. 192 etc. RTL. 84 etc. ; the N. ब्रह्म-चारिन्is also given to older unmarried Brahmans , esp. if versed in the वेद, and by the तन्त्रs to any person whose chief virtue is continence)

ब्रह्मचारिन्/ ब्रह्म--चारिन् m. N. of a गन्धर्वMBh.

ब्रह्मचारिन्/ ब्रह्म--चारिन् m. of स्कन्दL.

ब्रह्मचारिन्/ ब्रह्म--चारिन् m. of शिवS3ivag.

ब्रह्मचारिन्/ ब्रह्म--चारिन् m. a woman who observes the vow of chastity W.

ब्रह्मचारिन्/ ब्रह्म--चारिन् m. Clerodendrum Siphonantus L. ( v.l. रणी)

ब्रह्मचारिन्/ ब्रह्म--चारिन् m. Thespesia Populneoides L.

ब्रह्मचारिन्/ ब्रह्म--चारिन् m. = करुणीL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--duties of: with a दण्ड and tuft, bed on the earth over skin, service to Guru, learning and living on alms; फलकम्:F1: भा. VII. १२ (whole), XI. १८. ४२-3; Br. II. 7. १७५; ३२. २४; III. 9. ७०; M. ४०. 2; वा. ५९. २३; Vi. III. 9. 1-7.फलकम्:/F may remain so throughout life by taking to वैखानस or परिव्रताश्रम. फलकम्:F2: Ib. III. १०. १४-15.फलकम्:/F [page२-505+ २५]

"https://sa.wiktionary.org/w/index.php?title=ब्रह्मचारिन्&oldid=433883" इत्यस्माद् प्रतिप्राप्तम्