सामग्री पर जाएँ

ब्रह्मपुत्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मपुत्र पुं।

स्थावरविषभेदाः

समानार्थक:काकोल,कालकूट,हलाहल,सौराष्ट्रिक,शौक्लिकेय,ब्रह्मपुत्र,प्रदीपन,दारद,वत्सनाभ

1।8।10।2।3

पुंसि क्लीबे च काकोलकालकूटहलाहलाः। सौराष्ट्रिकः शौक्लिकेयो ब्रह्मपुत्रः प्रदीपनः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्र(व्र)ह्मपुत्र¦ पु॰ ब्र(व्र)ह्मणः पुत्र इव कपिलवर्णत्वात्।

१ विषभेदे अमरः। तद्विषस्य लक्षणं भावप्र॰ उक्तंयथा
“वर्णतः कपिलो यः स्यात्तथा भवति सारकः। ब्रह्मपुत्रः स विज्ञेयो जायते मलयाचले”।

२ उत्तर-देशप्रसिद्धे

३ नदभेदे

४ क्षेत्रभेदे च।

५ सरस्वत्यां नद्यांस्त्री। तस्याः पितामहजातत्वं ब्रह्माणीशब्दे दृश्यम्। तस्य नदस्योत्पत्तिकथा
“हरिवर्षे महावर्षे शान्तनु-र्नाम नामतः। मुनिरासीनमहाभागो ज्ञानवान् सु-तपोधनः। तस्य भार्य्या भहाभागा अमोघाख्या महा-सती। हिरण्यगर्भस्य मुनेस्तृणवृन्दाश्रमोद्भवा। तया सार्द्धं स कैलासमर्य्यादापर्वतेऽवसत्। लौहिता-ख्यस्य सरसस्तीरे वै गन्धमादने। एकदा स तपोनिष्ठोनिजपुष्पादिगोचरे। जगाभ वनमध्यन्तु चिन्वन् बहु-फलानि च। तस्मिन्नवसरे ब्रह्मा सर्वलोकपितामहः। तत्राजगाम यत्रास्ति अमोघा शान्तनोः प्रिया। तां दृष्ट्वादेवगर्भाभां युवत्रीमतिसुन्दरीम्। मोहितो मदनेनाशु तथाऽभूत् तृधितेन्द्रियः। उदीरितेन्द्रियो भुत्वा जिघृक्षुस्तां म-हासतीम्। अथाधावत्तदा ब्रह्मा सम्मुणो मदनार्दितः। धावमानं विधातारं दृष्ट्वाऽमोघा महासती। मैवंमैवमिति प्रोच्य पर्णशालां व्यलीयत। इदञ्चोवाचधातारममोघा कुपिता तदा। पर्णशालान्तरगता द्वार-मावृत्य तत्क्षणात्। अकार्य्यं न मया कार्य्यं मुनि-पत्न्त्या विगर्हितम्। बलात् प्रमथ्या चाहं चेत्त्वया त्वाञ्चशपाम्यहम्। अमोघया चैवमुक्ते विधातुश्च तदानृप!।

१ रेतश्चक्रन्द च तदैवाश्रमे शान्तनोर्मुनेः। च्युतेरेतसि धातापि हंसयानं समास्थितः। लज्जयाति-परीतात्मा द्रुतं वै स्वाश्रमं ययौ। गते वेधसि शान्तनु-र्निजमात्रममागतः। आगत्य दृष्ट्वा हंसानां पदक्षोभंतथा भुवि। तेजश्च पतितं भूमौ विधातुर्ज्वलनोप-मम्। अमोघां परिपप्रच्छ पर्णशालान्तरस्थिताम्। किमेतदत्र शुभगे! प्रवृत्तं दृश्यते तु यत्। पक्षिणाञ्चपदक्षोभस्तेजश्चेदम् कीदृशम्। सा तस्य वचनं श्रुत्वाशान्तनुं मुनिसत्तमम्। अमर्षितेव न्यगददाकुला विक-तानना। हंतयुक्तस्यन्दनेन कोऽम्पागत्व{??}। [Page4597-a+ 38] कमण्डलुकरो भीरू रतिं मां समयाचत। ततो मयाभर्त्सितः स कुटजान्तरलीनया। प्रच्याव्य तेजः स गतोमम शापभयार्दितः। कुरु तत्र प्रतीकारं यदि शक्नोषिशान्न्तनो!। न हि तां धर्षणां सोढुं कश्चित् श-क्नोति जीवभृत्। स तस्या वचनं श्रुत्वा स्वयं ब्रह्मासमागतः। इति निश्चित्य मनसा तत्र ध्याबपरोऽभवत्। दिव्यज्ञानेन स ज्ञात्वा देवकार्य्यमुपस्थितम्। तीर्था-वतारणञ्चापि हितायं जगतां मुनिः। ज्ञात्वोदर्कंचिन्तयित्वा स्वभार्य्यामिदमब्रवीत्। इदं तेजो ब्रह्मणस्त्वंपिबामोथे! ममाज्ञया। हिताय सर्वजगतां देवकार्य्यार्थ-सिद्धये। भवत्या निकटे ब्रह्मा स्वयमेव समागतः। त्वामप्राप्य स महात्मा आवयोः स समर्प्य च। गतोनिजास्पदं तत्त्वं कर्त्तुमर्हसि मद्वचः। तत् श्रुत्वा शा-न्तनोर्वाक्यममोघातीव लज्जिता। सान्त्वयन्तीव तं प्राहपतिं नत्वा महासती। नान्यस्य तेजो धास्यामि नचेत्ते विमनस्कता। अवश्यं यदि कर्त्तव्यं पीत्वा त्वंमयि चोत्सृज। ततस्तस्या वश्यः श्रुत्वा युक्तं तथ्यञ्चशान्तनुः। स्वयं पीत्वा च तत्तेजस्तस्या गर्भऽभ्यषेचयत्। संक्रामितैः शान्तनुना तेजोभिर्ब्रह्मणः सती। गर्भं दधा-रामोघाख्या हिताय जगतां ततः। तस्यां काले तु संप्राप्तेसंजातोजलसञ्चयः। तन्मध्ये तनयश्चापि नीलवासाः कि-रीटधृक्। रत्नमालासमायुक्तो रक्तगौरश्च ब्रह्मवत्। चतु-र्भुजः पद्मविद्यावरशक्तिधरस्तथा। शिशुमारशिरस्थश्चतुल्यकायो जलोत्करैः। तं जातञ्च तथाभूतं शान्तनु-र्लोकशान्तनुः। चतुर्णां पर्वतानाञ्च मध्यदेशे न्यवेशयत्। कैलासश्चोत्तरे पार्श्वे दक्षिणे गन्धमादनः। जारुधिःपश्चिमे शैलः पूर्वे संवर्त्तकाह्वयः। तेषां मध्ये स्वयंकुण्डं पर्वतानां विधेः सुतः। कृत्वाऽतिववृधे नित्यंशरदीव निशाकरः। तं तोयमध्यगं पुत्रमासाद्यद्रुहिणः स्वयम्। क्रमतस्तस्य संस्कारानकरोद्देह-शुद्धये। अथ काले बहुतिथे व्यतीते ब्रह्मणः सुतः। तोयराशिस्यरूपेण ववृधे पञ्च योजनान्। तस्मिन्देवाः पपुः सस्नुर्द्वितीय इव सागरे। शीतामलजलेहृद्ये देव्यश्चाप्सरसां गणैः। तस्मिन्नवसरे रामो जाम-दग्न्यः प्रतापवान्। चक्रे मातृबधं घोरमत्युग्रंपितुराज्ञया। तस्य पापस्य मोक्षाय स्वपितुश्चोपदेशतः। स जगाम महाकुण्डं ब्राह्माख्यं स्नातुमिच्छया। तत्रस्नात्वा च प्रीत्वा च मातृहत्यां व्यप्रानयत्। वीथिं[Page4597-b+ 38] परशुना कृत्वा तञ्च क्ष्मामवातारयत्” तदुत्तरत्र
“ब्रह्मकु-ण्डात् सृतः सोऽथ कासारे लोहिताह्वये। कैलासो-पत्यकायान्तु न्यपतद् ब्रह्मणः सुतः। तस्यापि सरसन्तीरंसमुत्पाट्य महाबलः। कुठारेण दिशं पूर्वामनयद्-ब्रह्मणः सुतम्। ततोऽपरत्रापि गिरिं हेमशृङ्गंविभिद्य च। कामरूपान्तरं पीठमवाहयदसुं हरिः। तस्य नाम विधिश्चक्रे स्वयंलोहितगङ्गकम्। लौहि-त्यात्{??} जातो लौहित्याख्यस्ततोऽभवत्। स काम-रूपमखिलं पीठमाप्लाव्य वारिणा। गोपयन् सर्वतीर्थानिदक्षिणं याति सागरम्। प्रागेव दिव्ययमुनां संत्यज्यब्रह्मणः सुतः। पुनः पतति लौहित्ये गत्वा द्वादश-योजनम्। चैत्रे मासि सिताष्टम्यां यो नरो नियते-न्द्रियः। स्लाति लौहित्यतोयेषु स याति ब्रह्मणः पदम्। चैत्रन्तु सकलं मासं शुचिः प्रयतमानसः। लौहित्यतोयेयः स्लाति स कैवल्यमवाप्तुयात्” कालिकापु॰

८४ ,

८५ अ॰
“मीने मधौ शुक्लपक्षे अशोकाख्यां तथाष्टमीम्। पिवेदशोककलिकाः स्नायाल्लौहित्यवारिणि। पुनर्वसौवृषे लग्ने चैत्रे मासि सिताष्टमीम्। लौहित्ये विरजेस्नायात् सर्वपापैः प्रसुच्यते” ति॰ त॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मपुत्र/ ब्रह्म--पुत्र m. the son of a priest or Brahman RV. S3Br. A1s3vS3r.

ब्रह्मपुत्र/ ब्रह्म--पुत्र m. a son of ब्रह्मा(as सनत्-कुमार, वसिष्ठetc. ) Hariv. R. Pur. (646828 -ताf. )

ब्रह्मपुत्र/ ब्रह्म--पुत्र m. a kind of vegetable poison Bhpr.

ब्रह्मपुत्र/ ब्रह्म--पुत्र m. N. of a river (rising on the Tibet side of the हिमा-लयand falling with the Ganges into the Bay of Bengal) Cat.

ब्रह्मपुत्र/ ब्रह्म--पुत्र m. of a lake ib.

ब्रह्मपुत्र/ ब्रह्म--पुत्र m. of a place of pilgrimage (prob. the source of the ब्रह्म-पुत्रriver) W.

ब्रह्मपुत्र/ ब्रह्म--पुत्र m. of a sacred district L.

"https://sa.wiktionary.org/w/index.php?title=ब्रह्मपुत्र&oldid=394444" इत्यस्माद् प्रतिप्राप्तम्