ब्रह्माणी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ब्रह्माणी, स्त्री, (ब्रह्माणमणति कीर्त्तयतीति । अण शब्दे कर्म्मण्यण् । ङीप् । यद्वा, ब्रह्माण- मानयति जीवयतीति । अनघ्लुप्राणने ण्यन्ता- दस्मात् कर्म्मणि अणि कृते “णेरनिटि । ६ । ४ । ५१ । इति णिलोपः “टिड्ढेति ।” ४ । १ । १५ । इति ङीप् पूर्ब्बपदादितिणत्वञ्च ।) ब्रह्मणः पत्नी । इति शब्दमाला ॥ ब्रह्मणोऽर्द्धशरीरात् तस्या उत्पत्तिर्नामान्तरञ्च यथा, -- “ततः संजपतस्तस्य भित्त्वा देहमकल्मषम् । स्त्रीरूपमर्द्धमकरोदर्द्धं पुरुषरूपवत् ॥ शतरूपा च सा ख्याता सावित्री च निगद्यते । सरस्वत्यथ गायत्त्री ब्रह्माणी च परन्तप ! ॥” इति मत्स्यपुराणे ३ अध्यायः ॥ * ॥ अपि च । “हंसयुक्तविमानाग्रे साक्षसूत्रकमण्डलुः । आयाता ब्रह्मणः शक्तिर्ब्रह्मार्णी साभिधीयते ॥” इति मार्कण्डेयपुराणे । ८८ । १४ ॥ * ॥ (इयं हि पूर्णशक्तेर्दुर्गायाः कलाशक्तिः । यदुक्तं मार्कण्डेये । ९० । ३४ । देव्युवाच । “एकैवाहं जगत्यत्र द्वितीया का ममापरा । पश्यैता दुष्ट ! मय्येव विशन्त्यो मद्विभूतयः ॥ ततः समस्तास्ता देव्यो ब्रह्माणी-प्रमुखा लयम् । तस्या देव्यास्तनौ जग्मुरेकैवासीत्तदाम्बिका ॥”) दुर्गा । यथा, -- “ब्रह्माणी ब्रह्मजननाद्ब्रह्माक्षरपरा मता ॥” इति देवीपुराणे ४५ अध्यायः ॥ * ॥ रेणुकानामगन्धद्रव्यम् । इति रत्नमाला ॥ राज- रीतिः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ब्र(व्र)ह्माणी¦ पु॰ ब्र(व्र)ह्माणम् आनयति जीवयति अन-णिच्--अण् पूर्व॰ णत्वम्। ब्रह्मशक्तौ
“हंसयुक्ते विमा-नस्था साक्षसूत्रकमण्डलुः। आयाता ब्रह्मणः शक्तिःब्रह्माणी साऽभिधीयते” इति देवीमा॰।
“ब्रह्माणी ब्रह्म-जननाद्” देवीपु॰। ब्रह्मशब्दात् ङीष् आनङ्चेति त्वपाणिनीयम्।

२ रेणुकानामगन्धद्रव्ये रत्नमा॰।

२ राजरीतौ राजनि॰।

३ ब्रह्मणोऽर्द्धशरीरादुत्पन्नायांशतरूपायाम्।
“ततः संजपतस्तस्य भित्त्वा देहमकल्म-षम्। स्त्रीरूपमर्द्धमकरोदर्द्धं पुरुषरूपवत्। शतरूपा चसा ख्याता सावित्री च निगद्यते। सरस्वत्यथ गायत्रीब्रह्माणीत्युच्यते च सा” मत्स्यपु॰

३ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ब्रह्माणी¦ f. (-णी)
1. The female energy of BRAHMA
4.
2. A sort of perfume, commonly Re4nuka
4.
3. A kind of brass; “वेङापितल” | E. ब्रह्मन् BRAHMA4, fem. aff. ङीप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ब्रह्माणी [brahmāṇī], 1 The wife of Brahman.

An epithet of Durgā.

A kind of perfume (= रेणुका).

A kind of brass.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ब्रह्माणी f. the शक्तिor personified female energy of ब्रह्मा, the wife of -Br ब्रह्माPur. (See. IW. 522 )

ब्रह्माणी f. N. of दुर्गाHariv. Devi1P. ( w.r. ब्राह्मानीor ब्राह्मणी)

ब्रह्माणी f. a kind of perfume L.

ब्रह्माणी f. a kind of brass L.

ब्रह्माणी f. N. of a river MBh. ( v.l. ब्राह्मणी).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--the image of; four faces and four hands with the swan for riding. M. २६१. २४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

Brahmāṇī  : f.: Name of a river.

One of the rivers of the Bhāratavarṣa listed by Saṁjaya; its water used by people for drinking 6. 10. 32, 13; all the rivers listed here are described as mothers of the universe and very strong 6. 10. 35 (for citation see Atikṛṣṇā ).

_______________________________
*1st word in right half of page p398_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

"https://sa.wiktionary.org/w/index.php?title=ब्रह्माणी&oldid=445949" इत्यस्माद् प्रतिप्राप्तम्