भक्ति

Wiktionary तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्तिः, स्त्री, (भज्यते इति । भज + क्तिन् ।) विभागः । सेवा । इति मेदिनी । ते, ३९ ॥ गौणवृत्तिः । भङ्गी । (अनुरागविशेषः । पूज्ये- ष्वनुरागो भक्तिरित्युपदेशः ॥ ईश्वरे परानुरक्तिः । “अथातो भक्तिजिज्ञासा सा परानुरक्ति- रीश्वरे ।” इति शाण्डिल्यसूत्रम् ॥ उपासना ॥ परमेश्वरविषये परमप्रेम । उपास्याकारा- कारितचित्तवृत्त्यावृत्तिरूपा परिपक्वनिदिध्या- सनाख्या श्रवणमननाभ्यासफलभूता अनुरक्तिः ॥ “नहीष्टदेवात् परमस्ति किञ्चित् ।” इति बुद्धि- पूर्ब्बिका चित्तवृत्तिः । सा च परमप्रीत्यधीना ॥ यथा, विष्णुपुराणे । १ । २० । १८-१९ । “नाथ ! योनिसहस्रेषु येषु येषु व्रजाम्यहम् । तेषु तेष्वच्युता भक्तिरच्युतास्तु सदा त्वयि । या प्रीतिरविवेकानां विषयेष्वनपायिनी । त्वामनुस्मरतः सा मे हृदयान्मापसर्पतु ॥” प्रेमभक्तिर्यथा, -- “सम्यङ्मसृणितस्वान्तो ममत्वातिशयाङ्कितः । भावः स एव सान्द्रात्मा बुधैः प्रेमा निगद्यते ॥” इति भक्तिरसामृतसिन्धौ पूर्ब्बविभागः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्ति¦ स्त्री भज--क्तिन्।

१ सेवायाम् आराधनायां,

२ तदेकतानेचित्तवृत्तिभेदे

३ विभागे

४ गौण्यां वृत्तौ

५ उपचारे

६ अव-यवे

७ भङ्ग्याम्

८ श्रद्धायाम्

९ रचनायाञ्च
“भवति विरन्त-भक्तिः” रघुः। भक्तिलक्षणमुक्तं शाण्डित्यसूत्रटीकयो यथा
“सा परानुरक्तिरीश्वरे” सू॰
“अत्र सा परेति लक्ष्यनि-र्देशः। शेषं लक्षणम्। परेति गौणीं व्यावर्त्तयति। ईथरइति प्रकृताभिप्रायम्। आराध्यविषयकरागत्यमेव भक्ति-त्वम्। इह तु परमेश्वरविषयकान्तःकरणवृत्तिविशेष एवभक्तिस्तद्वैशेष्यं च लौकिकानुरागादौ सुग्रहम्। यथोक्तंपरभक्तिमता प्रह्लादेन। (विष्णापु॰। अंशे

१ । अ॰

२० । श्लो॰

१७ )।
“या प्रीतिरविवेकानां विषयेष्वनपायिनी। त्वामनुस्मरतः सा मे हृदयान्मापसर्पतु”। अत्र प्रीति-पदेन सुखनियती राग एव लक्षितः। अन्यथा प्रीतेःसुखरूपाया निर्विषयत्वेन विषयसप्तमा न स्यात् तस्याःसुखज्ञानरूपत्वेऽपि तज्ज्ञानस्य सुखविषयत्वाद्विषयविषय-त्वासम्भवात्। तस्मादनुरक्तिरेव सविषयिणी लक्षिता। न च विषयजन्यप्रीतिरर्थः जनकसप्तम्या अननुशासनात्। किञ्च
“अच्युतास्तु सदा त्वयि” इत्यत्र भक्तेरीश्वरविषय-तासिद्धौ प्रीतिपदेनापि तदेकवाक्यतया सैवोच्यते। पूर्वं प्रतिजन्म भक्तिप्रार्थनमिह तु विषयरागदृष्टान्तेनतस्या एव सर्वथान्यपरिहार्यत्वप्रार्थनमिति विशेषः। विषयजन्यप्रीतिरपि रागं विना न सम्भवतीति रागा-वश्यकत्वम्। तथा च पातञ्जलसूत्रम्। (पा॰

२ । सू॰

७ पृ॰

७९ )
“सुखानुशयी रागः” इति। तस्यैव वक्ष्यमाण-लिङ्गषु व्यापनाल्लाघवाच्च भक्तित्वम्। न तु क्वचित्स्वरणस्य, क्वचिच्च कीर्तनादेः अननुगमात्। न च तज्-ज्ञानस्य तत्त्वं द्वेषादिमत्स्वपि तत्प्रसङ्गात्। नाप्या-राध्यत्वेन ज्ञानं स पूजानमस्काराद्याराधनास्वननु-गमात्। अपि च बलाद्भयाद् वा नमस्कार्यत्वादिज्ञान-वत्यपि भक्तोऽयमनुरक्तोऽयमिति व्यवहारापत्तेः। अनु-[Page4619-a+ 38] रागादिसहिताराध्यत्वज्ञानमिति चेत् अनुराग एवास्तुअतएव गी॰। अ॰

१० । श्लो॰

९ )।
“मच्चित्तामद्गतप्राणाबोधयन्तः परस्परम्। कथयन्तश्च मां नित्यं तुष्यन्तिच रमन्ति च। तेषां सततयुक्तानां भजतां प्रीतिपूर्व-कम्। ददामि बुद्धियोगं तं येन मासुपयान्ति ते” इत्यादौ तद्गतचित्तप्राणादीनां भजनमुक्तं नाराध्य-त्व न ज्ञानवताम्। अतएव च कृष्णस्य कमनीयाकृति-दर्शनेनानुरक्तानां गोपतरुणीनामपि भक्तिफलं मुक्तिःस्मर्य्यते। अनुस्तु न लक्षणान्तर्गतः किन्तु भगवन्महि-मादिज्ञानादनुपश्चाज्जायमानत्वादनुरक्तिरित्युक्तम्। ननुपित्रादिगोचरानुरागस्यापि प्रकृतभक्तित्वं प्रसज्येतजगत एव परमेश्वरात्मकत्वात्। अथ विकारावि-शिष्ट एव तथात्वं वाच्यं तथापि गोपीप्रभृतीनां प्रादुर्भा-वावच्छिन्नेश्वरभक्तावव्यापकम्। उच्यते जीवीपाध्यनव-च्छिन्नचेतनविषयिणी अनुरक्तिरेव सेति। एवञ्च प्रादुर्भा-वावच्छिन्ने परिपूर्णे च भक्तिः संगृहीता भवति” टीका।
“तत्संस्थस्यामृतत्वोपदेशात्”

३ सू॰
“तस्मिन्नीश्वरे संस्था भ-क्तिर्यस्य स तथोक्तः। तस्यामृतत्वं फलमुपदिश्यते (छा॰। पृ॰

१३

७ )
“ब्रह्मसंस्थोऽमृतत्वमेतीति”। तस्मान्निष्फलत्वगौण-फलत्वनिवन्धना तदजिज्ञासा परिहृता भवतीति” टी॰।
“ज्ञानमिति चेन्न द्विषतोऽपि ज्ञानस्य तदसंस्थितेः”

४ सू॰
“ननुब्रह्मसस्थाशब्देन ब्रह्मज्ञानमेवोच्यते न तु तद्भक्तिः। तथाचामृतत्वफलं तस्यैवेति चेद्ब्रूषे। नैष दोषः। संस्था भक्तिरेव न ज्ञानं द्विषतस्तज्ज्ञानवतोऽपि तत्-संस्थत्वव्यवहाराभावात्। राजाद्यनुरक्ताः खल्वमात्य-मित्रादयस्तत्संस्था इति व्यपदिश्यन्ते न पुनः प्रतिपक्ष-भपालाः। शब्दार्थनिर्णयो हि लोकवदेव वेदेऽपीति। अतएव चिरकालिकोपाख्याने
“बिमृश्यते न कालेनपत्नीसंस्था व्यतीक्रमः। सोऽब्रवीच्च भृशं तप्तो दुःखे-नाश्रूणि वर्त्तयन्”। (महाभा॰ शा॰ अ॰

२६

७ श्ला॰

९५

२६ ) इत्यनेन पतिभक्त्यतिक्रम उक्तः। तस्मात् संस्थाभक्तिरिति एवञ्च (ब्रह्मसू॰। अ॰

१ । पृ॰

७ )
“तन्निष्ठस्य मोक्षोपदेशादिति” वादरायणीयसूत्रस्याप्ययमेवार्थोऽध्यवसेयः” टी॰
“तयोपक्षयाच्च”

५ सू॰।
“तया भक्त्या मुक्तिं प्रति ज्ञानसुप-क्षीणं यस्माच्चकार उक्तयुक्तिसमुच्चयार्थः (गी॰। अ॰

७ । श्लो॰

१३ )।
“यदा ते निश्चलं चेतो मयि भक्तिसमन्वितम्। तदा त्वं मत्प्रसादेन निर्वाणमपि यास्यसि” इति स्थि-तम्। ननु (श्वे॰। पृ॰।

७३ )
“तमेव विदित्वातिमृत्युमेति[Page4619-b+ 38] नाव्यः पन्था विद्यतेऽयनाय” इत्यत्र वेदनफलं मुक्तिः श्रुतातद्विरोधेन स्मृतीनामन्यार्थत्वं स्यादिति चेन्न अत्रापितयैवीषक्षयात्। तथा हि अतिमृत्युपदं न मुक्तौ रूपंकिन्तु यस्यां सत्यां मृत्योरतिक्रम इति व्युत्पत्त्या तद-पेक्षया यतो भक्तेर्मृत्य्वतिक्रम इति व्युत्पाद्य भक्ति-मेवातिमृत्युपदेनाभिधत्ताम् उपपदविभक्त्यर्थापेक्षया का-रकविभक्त्यर्थस्य बलवत्त्वात्। (गी॰। अ॰

१२ पृ॰

७ )।
“तेषामहं समुद्धता मृत्युसंसारसागरात्। भवामि नचिरात् पार्थ! मय्यावेशितचेतसाम्”। इत्यादिनाभक्तितो मृत्योरतिक्रमोक्तेः। मन्त्रश्च भवति (तैत्तिरीय-मन्त्रभागे)
“त्र्यग्वकं यजामहे सुगन्धिं पुष्टिवर्द्धनम्। उर्वारुकमिव वन्धनान्मृत्योर्मुक्षीय मामृतादिति”। अत्रयजनं भक्तिः तथैव तत्कल्पव्याख्यानात् नचास्यां श्रुतौभक्तेरसन्निधानं मुक्तावपि तुल्यत्वात्। तस्मादनयापिश्रुत्या ज्ञानस्योपक्षय एव प्रतीयत इति। नन् तथापिभक्तेरागरूपत्वे किं कारणमित्यपेक्षायामाह” टी॰।
“द्वेष-प्रतिपक्षभावाद्रसशब्दाच्च रागः” सू॰।
“भक्तिः खलु रागएव भवितुमर्हति कुतः द्वेषविंरोधित्वात्। लोके हिद्वेष्टायं भक्तोऽयमिति मिथोविरुद्धधर्मवति व्यव-ह्रियते तत्र द्वेषविरोधी च राग एव प्रसिद्धो न ज्ञा-नादिः। एवञ्च भगवति शिशुपालस्य द्वेषानु-बन्धमभिधाय विष्णुपु॰ अ॰



१५ गद्येन

१० अयं{??}भगवान् कीर्त्तितः संस्मृतश्च द्वेषानुबन्धेनापि अखि-लसुरासुरदुर्लभं फलं प्रयच्छति किमुत सम्यग्भक्तिमताम्” इत्युक्तम्। तथा चात्रिस्मृतौ
“विद्वेषादपि गोपिन्दंदमघीषात्मजः स्मरन्। शिशुपालो गतः स्वर्गं किंपुनस्तत्परायणः” इति अत्रापि द्वेषविरोधित्वेन भक्ते-रभिधानात्। तथा च गीतासु (गी॰ अ॰

१६ । श्लो॰

१८ )।
“ममात्मपरदेहेषु प्रद्विपन्तोऽभ्यसूयकाः। तानहंद्विषतः क्रूरान् संसारेषु नराधमान्। क्षिपाम्यजस्रम-शुभानासुरीष्वेव योनिषु। आसुरीं योनिमापन्ना मूद्वाजन्मनि जन्मनि। मामप्राप्यैव कौन्तेय! ततो यान्त्व-धमां गतिम्। इति। तद्विरोधिनी च भक्तिरीश्वर-विषयैवानुरक्तिरिति युज्यते। किञ्च (तैत्ति॰। पृ॰

१०

० )
“रसं ह्येवायं लब्ध्वानन्दीभवतीतिशब्दाद् ब्रह्मानन्दा-विर्भावमुक्तेर्ब्रह्मगोचरस्य रसस्य हेतुतावगम्यते। रसश्चरागः (गी॰। अ॰

२ । श्लो॰

५९ )।
“रसवर्जं रसो-ऽप्यस्य परं दृष्ट्वा निवर्त्तते” इत्यादौ प्रसिद्धः। अत्र[Page4620-a+ 38] रसो विषयरागः। अत एव च (विष्णपु॰ अ॰

४ । अ॰

४ गद्यम्) रामलक्ष्मणादीनां स्वर्लोकारोहण-मुक्त्वा
“येऽपि तेषु भगवदंशेष्वनुरागिणः कोशलनगर-जानपदास्तेऽपि तन्मनसस्तत्सलोकतामापुरिति” साक्षा-देव भक्तावनुरागशब्दः प्रयुक्त इति। तस्यादपि नज्ञानं किन्त्वनुरागरूपैव भक्तिर्निःश्रेयसफलेति। ननुद्वेषविरोधित्वं न रागत्वे लिङ्गम् उदासीनत्वेनानैका-न्त्यादिति चेत् उच्यते द्वेषकार्य्यं हि निवृत्तिस्तद्विरो-धिनी प्रवृत्तिरिति। भवति च भक्तानां भजनीयानु-वर्त्तनादौ प्रवृत्तिस्तद्विरोधिनां तदनुवर्त्तनादौ निवृत्तिः। एवञ्च कार्य्यमुखेन विरोधमभिप्रेत्य द्वेषप्रतिपक्षेत्युक्तम्। तथा च प्रयोक्तव्यं भक्तिर्भजनीयगोचररागरूपा तदनु-वर्त्तनादिहेतुहितसाधनताधीभिन्नात्मविशेषगुणत्वाद् य-न्नैवं तन्नैवं यथा द्वेषः। रागोत्कर्षेण तदनुवर्त्त-नाद्युत्कर्षस्य दृष्टत्वाच्च। किञ्च यो यस्मिन् भक्तस्तत्रतस्यौदासीन्याभावेऽवगते भक्तिस्तादृशानुवर्त्तनाद्यनुकूल-द्वेषविरोधिगुणरूपा अनुवर्त्तनहेत्वात्मविशेषगुणत्वाद्धित-साधनताधीवदिति हितसाधनताधीत्वबाधसहकारेणपरिशेषाद्रागत्वसिद्धिः। किमुत भक्तिमतामिमित्येतत्-कैमुतिकन्यायी विरोधिन्येव द्रष्टव्यः। (गी॰। अ॰

९ । श्लो॰

३२ )।
“मां हि पार्थ! व्यपाश्रित्य येऽपि स्युःपापयोनयः”।
“किं पुनर्ब्राह्मणाः पुण्याः” इत्यादौ च। एवं (गी॰। अ॰

१६ । श्लो॰

१८ )
“मामात्मपरदेहेष्वित्य-नेन द्वेषस्य संहारहेतुत्वात् तद्विरोधिगुणो जीवोपा-धिपरिहारेण परात्मगोचरो राग एव भक्तिरूपः संसा-रनाशहेतुः। एतदेवोक्तं मामप्राप्यैवेति। चकारात्पुलकादिरागलिङ्गेनापि रागत्वम्। प्रसिद्धं हि
“पुल-काञ्चितेन कथयति मथ्यनुरागं कोपोल” इत्यादौ। भक्ते-र्गुणान्तरत्वे तु पृथग्लिङ्गताकल्पने गौरवात्। स चरागः केषाञ्चिदिष्टसाधनताज्ञानजन्योऽपि यागादिवदि-च्छारूप एव। अस्माकं तु प्रीणाम्यनुरज्यामि नेच्छा-मीत्यादिप्रतीतेरागः पृथगेव द्वेषवत्। इच्छाया असि-द्धमात्रविययत्वाद्रागस्य सिद्धासिद्धविषयत्वाच्च। प्रत्युततस्येच्छात्वादिव्याप्यत्वकल्पनागौरवाच्चेति दिक्। तस्मान्नतल्लक्षणासिद्धिरिति। ननु भक्तिः क्रियात्मिका साच निःश्रेयसाय न क्षमते (तत्ति। आरण्य॰। खिकप्रश्ने ऋक्

२१ )
“न कर्मणा न प्रजया घनेन त्यागे-{??}केऽमृतत्वमानशः” इत्यादिश्रुतिभ्व इत्याशङ्कां परिहर-[Page4620-b+ 38] न्नाह टी॰।
“न क्रिया कृत्यनपेक्षणाज्ज्ञानवत्”

७ सू॰। साभक्तिर्न क्रियात्मिका भवितुमर्हति प्रयत्नानुवधानाभा-वात्। यन्न प्रयत्नानुषिधायि तन्न क्रियात्मकं यथाज्ञानम्। तद्धि प्रमाणसम्पत्त्यधीनं न पुरुषेण स्वेच्छयाकर्तुमकर्तुमन्यथा कर्तुं शक्यते। तथा भक्तिरपि नहि रागिण्णां प्रमदापुत्रादिविषयिणी पुंव्यापारेणं तथाभवति भक्तिः किन्तु पूर्वसुकृतगौणभक्त्यादिसाधनाधी-नेति” टी॰।
“अतएव फलानन्त्यम्”

८ सू॰।
“यतः सा नक्रियात्मिका अतएव तत्फलस्य निःश्रेयसस्यानन्तत्र-मुपपद्यते। अन्यथा (छा॰। पृ॰

५३

८ )
“तद्यथेह कर्म-जितो लोकः क्षोयते एवमेवामुत्र पुण्यजिती लोकःक्षीयते” इत्यनेनामृतत्वस्यापि क्षयित्वं प्रसज्येतेति” टी॰।
“तद्वतः प्रपत्तिशब्दाच्च न ज्ञानमितरप्रपत्तिवत्”

९ सू॰।
“भवति हि भगवद्वाक्यं (गी॰। अ॰

७ । श्लो॰

१९ )
“बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते। वासुदेवःसर्वमिति स महात्मा सुदुर्लभः” इति। ज्ञानवतः प्रपत्ति-रुक्ता भक्तेर्ज्ञानहेतुत्वे नेदमुपपद्यते इतरप्रपत्तिवदिति। यथा तदनन्तरं (गी॰। अ॰

७ । श्लो॰

२० )।
“कामै-स्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः”। इत्यनेन देवता-न्तरप्रपत्तिनिन्दामुखेनैव प्रपत्तिः स्तूयते। तत्र देवता-भक्तेरेव प्रपत्तिशब्देन कथनं न तज्ज्ञानस्य। तस्याएव प्रपत्तेरुभयत्र प्रत्यभिज्ञानात् इति। चकाराज्॰ज्ञानानन्तर्य्यश्रवणमपि ज्ञानत्वाभावे निदानम्। यथा(गी॰। अ॰

१५ । श्लो॰

१६ )।
“यो मामेवमसंमूढो जानातिपुरुषोत्तमम्। स सर्वविद्भजति मां सर्वभावेन भारत!इति। तथा (गी॰। अ॰

९ । श्लो॰

१३ )।
“भजन्त्यनन्य-मनसो ज्ञात्वा भूतादिमव्ययम्। इति मत्वा भजन्तेमां बुधा भावसमन्विताः”। इति च। तस्मान्न ज्ञाना-त्मिका। यद्यपि रागत्वेनैव ज्ञानभेदः सि{??}स्तथापिभक्तिशब्दो ब्रह्मज्ञागे गौण इति शङ्कानिरासार्थमेतत्। इदन्तु चिन्त्यते भगवद्वीतावाक्यानि न शब्दविधयावेदवत् प्रमाणम्। किन्तु भारतस्मृतित्वेन तथा चकथं शब्दादिति निर्देशः। अत्रैकेऽनुमितशब्दादितिव्याचक्षते। अत्रोच्यते अदृष्टार्थकभगवद्वाक्यत्वमेव वेदत्वंतच्च गीतास्वप्यविशिष्टम्। अतएव भगवद्गीतासूपनि-पत्स्विति दृश्यते, केवलं त एव श्लोका व्यासेन निवद्धाःतथा च पुराणान्तरम्
“गीता{??}ता कर्त्तव्या{??}मन्यैः शास्त्रविस्तरैः। वा खयं{??}[Page4621-a+ 38] द्विनिःसृता”। न च शूद्राणामश्रवणप्रसङ्गः भारतश्रवणा-भ्यनुज्ञानेनैव तदुपपत्तेः प्रणवादिस्तुत्यादिवत्। तद्वि-हायेति चेन्न लक्षणाऽपरिपूर्त्तेः। तथाचीक्तमाचार्य्यैः।
“तानेव वैदिकान् मन्त्रान् भारतादिनिवेदितान्। खाध्यायनियमं हित्वा लोकबुद्ध्या प्रयुञ्जते” टी॰।

१ आ॰।
“एवममृतत्वं प्रत्यनन्यथासिद्धायां भक्तौ लक्षितायां ज्ञान-योगभक्तीनामङ्गप्रघानभावविवेकाय द्वितीयाह्निकस्यारम्भः।
“सा मुख्येतरापेक्षितत्वात्”

१० सू॰ आह्निकसमाप्तायुक्तस्यपुनः खरणाय सेति निर्देशः। सा परा भक्तिर्मुख्या प्रधा-नम् इतरैरात्मज्ञानयोगादिभिः स्वोपकार्य्यतयापेक्षित-त्वादित्यर्थः। छान्दोग्ये (पृ॰

६१

६ )
“यो भूमा तत्सुखम्” इत्याद्युपक्रम्य म्नायते
“आत्मैवेदं सर्वमिति स यएष एवं पश्यन्नेवं मन्यान एवं विजानन्नात्मरतिरा-त्मकीड आत्ममिथुन आत्मानन्दः स स्वराड् भवतीति” तत्रात्मरतिरूपायाः परभक्तेः पश्यन्निति दर्शनमप्रिय-त्वादिभ्रमनिरासमुस्येनाङ्गं भवति। यथा
“दण्डी प्रैष-मन्याह प्राचीनावोती दोहयति अभिजानन् जुहोतिघनवान् सुखवानित्यादौ दण्डाद्यङ्गं तथा
“दर्शनमपिरतेरङ्गं मननविज्ञानयोरुक्तप्रियदर्शनार्थतया न्याय-प्राप्तयोरनुवादः। एवमात्मक्रीडादेरतिनैयत्यादर्थप्राप्तो-ऽनुवाद एव। अन्यथा रत्युद्देशेन दर्शनादिविधौदर्शनाद्युद्देशेन वा रत्यादिविधौ वाक्यानि भिद्येरन्। तस्मात् (पूर्वमीसांसायाम्। अ॰

३ । पा॰

१ । सू॰

२ )
“शेषः परार्थत्वादिति” न्यायाद्दर्शनमङ्गमिति। अतएवभगवान् मनुरपि। (महाभार॰। शान्ति॰। अ॰

१९

४ । श्लो॰

७१

११ ।

७१

१२ )।
“यस्त्यक्त्वा प्राकृतं कर्मनित्यमात्मरतिर्मुनिः। सर्वभूतात्मभूतात्मा स्याच्चेत् पर-तमा गतिः”। इत्यनेनात्मरतेः प्राधान्यमाहेति” टी॰।
“प्रसुरणाच्च”

११ सू॰।
“प्रकरणं रतेरेव फलवत्त्वात् तस्यास्त-तप्रकरणस्यं दर्शनमङ्गं भवितुमर्हतीति” टी॰।
“दर्शनफल-मिति चेन्न तेन व्यवधानात्”

१२ सू॰।
“अथ दर्शनस्यैव फलं{??}राज्यलक्षणममृतत्वं तथा च तस्यैव प्रकरणमिति वैप-रीत्यमिति चेन्न तेन तच्छब्देन व्यवधानात् (छां॰। पृ॰

५१

६१

७ ) स स्यराड् भवतीत्यत्र तच्छब्देन सन्निकृष्टा-त्मरतिमानेवोपस्थाप्यते न विप्रकृष्टः पश्यन्निति व्यवहितोपस्थितौ कारणाभावात्। प्रकरणमेव कारणमितिचेन्न अन्योन्यान्नयात्” टी॰
“दृष्टत्वाच्च”

१३ सू॰
“दृष्टं हि लोकेसौन्दर्यादिज्ञाबस्म तरुण्यास्तरुणे रतिहेतुत्वं न तु[Page4621-b+ 38] रतेर्ज्ञानहेतुत्वमिति दृष्टोपकारत्वादप्यङ्गत्वमवसीयते। दृष्टं च प्राकृतनिष्करुणत्वाल्पमहिमत्वाप्रियत्वादिज्ञानंमनोमालिम्यकारणं भूतेषु करुणाबहुलाव्याहतैश्वर्याति-शयितरूपाश्रय आत्मेति ज्ञानन्मालिन्यनिवृत्तिस्ततः पराभक्तिरिति। अतएव गीयते (गी॰। अ॰

५ । श्लो॰

१७ )।
“तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः। गच्छन्त्यपु-नरावृत्तिं ज्ञाननिर्द्धूतकल्मषाः। इति। तथा आयु-र्वेदेऽपि (अष्टाङ्गहृदये। अ॰

१ श्लो॰

२३ )। धी-र्धैर्यात्मादिविज्ञानं मनोदीषौषधं परम्” टी॰।
“अत-एव तदभाबाद्वल्लवीनाम्”

१४ सू॰।
“यतो ज्ञानं दृष्टोपकार-कमङ्गमत एव दृष्टोपकारं निरस्य मनोमालिन्यादिवाधात्प्रधानभगवदनुरागमात्रेण वल्लवीनां मुक्तिः स्पर्य्यते। (विष्णुपुराणे। अंशे

५ । अ॰

१३ । श्ला॰

१४ ।

१५ ।
“तच्चिन्ताविपुलानन्दक्षीणपुण्यचया सती। तदप्राप्ति-महादुःखविलीनाशेषपातका। चिन्तयन्ती जगत्सूति” परब्रह्मस्वरूपिणम्। निरुच्छासतया मुक्तिं गतान्याःगोपकन्यका” इति। अत्र सुखदुःखलिङ्गेनानुरागोऽनु-मीयते न मुक्तिरिति वाक्यार्थः। द्वारबाघादनवहत-कृष्णलेनापि कर्मणा फलसिद्धिरिव तासां रागान्मुक्ति-स्तदप्यवगम्यते ज्ञानमङ्गमेव प्रधानत्वे तु तदभावे फलंन स्यात् चिन्ता च न ब्रह्मात्मैक्यज्ञानं तत्कारण-श्रवणमननाद्यसम्भवात्। किन्त्वनुरागनियतानुस्मृति-रेव। नचायमर्थवादः अपूर्वार्थत्वाभावात् सन्निधौ विध्य-भावाच्चेति” टी॰।
“भक्त्या जानावीति चेन्नाभिज्ञप्त्यासाहाय्यात्”

१५ सू॰
“इदानीं श्रुतिविरोधेन प्रकरणस्थान-लिङ्गबाधमाक्षिप्य समाधीयते। यथा श्रुतं (गी॰। अ॰

१८ । श्लो॰

५५ ।
“भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः। ततो मां तत्त्वतो ज्ञात्वा विशतेतदनन्तरम्”। इति। तत्र (तैत्तिरीयसं॰। अ॰

१ । प्र॰

५ । अनुवाक॰

८ )
“ऐन्द्र्या गार्हपत्यमुपतिष्ठने” इति-वत् कारकश्रुत्या बलीयस्या भक्तेर्ज्ञानहेतुत्वसासीयते। यद्यपि दृष्टत्वादित्यनेन दृष्टोपकारे पत्यक्षगम्ये न श्रुते,रवकाशः तथापि ब्रह्मविषयिण्या रतेर्ब्रह्मविषयज्ञानोप-कार्य्यत्वं न प्रत्यक्षगम्यम्। किन्तु तरुण्यादे रतौ तथादर्शनेन ब्रह्मगोचरायामप्यनुमातव्यम्। तथाच लिङ्गत्वेपर्यवसानादिति चेन्न दोषः। तथाहि यदि केवलंजानातीति वदेन्न त्वेवम्। किन्त्वभिजानातीति। अभिज्ञा पूर्वज्ञातज्ञानमुच्यते। तथा च भक्त्युपकारिपूर्व-[Page4622-a+ 38] ज्ञानं तत्फलरूपभक्तिप्रवर्त्तकम्। अनन्तरं यावत्तद्दार्द्यं भक्त्यैवाभिज्ञप्तिभावेनापेक्ष्यते व्रीह्यवहननेनाव-घातवदिति। कार्य्यसाहाय्यार्थमुक्तं ततो ज्ञानदार्द्येनभक्तिदार्द्ये सति विशत इति। तस्मान्नेयं श्रुतिः किन्तुन्यायप्राप्तानुवाद इति। एतमेवार्थं स्फुटीकरोति” टी॰।
“प्रागुक्तं च”

१६ सू॰।
“भक्त्या मामित्यस्य पूर्वं व्रह्मभूयायकल्पत इत्यभिधाय (गी॰। अ॰

१८ । श्लो॰

५४ )।
“ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति। समःसर्वेषु भूतेषु मद्भक्तिं लमते पराम्” इत्युक्तम्। तस्य तुज्ञातब्रह्मणो ज्ञानप्रयोजनाभावाद्युक्तमनुवादत्वमिति” टी॰
“एतेन विकल्पोऽपि प्रत्युक्तः”

१७ सू॰
“एतेन ज्ञानस्याङ्गत्व-निर्णयेन ज्ञानभक्त्योरत्र विकल्पपक्षोऽपि प्रत्युक्तः निराकृतइति मन्तव्यम्। नह्यङ्गाङ्गिनोरेकत्र विकल्पो भवतीति। अपिशब्दात् समुच्चयोऽपीति” टी॰।
“देवभक्तिरितरस्मिन्साहचर्य्यात्”

१८ सू॰।
“क्वचिदेवं श्रूयते (श्वेताश्व॰ पृ॰

११

७ )
“यस्य। देवे परा भक्तिर्यथा देवे तथा गुरौ। तस्यैते कथिताह्यर्थाः प्रकाशन्ते महात्मनः” इति। अत्र देवभक्तिरो-श्वरेतरस्मिन् देवे मन्तव्या कुतः गुरुभक्तिसाहचर्य्यात्। साहचर्य्यं हि नामृतफलायां भक्तौ घटते। इन्द्रादिदेवतास्त्वाराधिताः शुभवज्ज्ञानफलाय भवन्तीति साह-चर्य्यमपि निर्णायकम्। साहचर्य्यादुलूकशब्दवदुपयुक्ते-रुपष्टम्भकमेतत्”

११ टी॰
“योगस्तूभयार्थमपेक्षणात् प्रयाज-वत्”

१९ सू॰।
“योगः पुनर्ज्ञानार्थं भक्त्यर्थं च भवति। समाहितमनस्कताया उभाभ्यामपेक्षणात्। ननु (पूर्वमी-मांसायाम्। अ॰

३ । पा॰

१ । सू॰

२१ )
“गुणानांच परार्थत्वादसम्बन्धः समत्वात् स्यादिति” न्यायात् प्रधा-नाङ्गं योगः कथमङ्गाङ्गमित्यत आह प्रयाजवदितियथा प्रयाजो वाजपेयाद्यङ्गं तदोयदीक्षणीयादेरप्यङ्गंतद्वत्। तदङ्गताबोधकप्रमाणाविशेषात्। केवलं ज्ञानार्थंयोगानुष्ठानप्रसङ्गेन भक्तिमुपकरोतीति। एवं विषय-वैराग्यमपि उभयार्थं मन्तव्यम्। ननु योगे पात-ञ्जलदर्शने

२३ पृ॰)
“ईश्वरप्रणिधामादिति” पतञ्जलि-स्वरणं दुरपह्नवं तत्र प्रणिधानाभिधेयस्य भगव-द्भजनस्य समाधिसिद्ध्यर्थत्वमिति कथं भक्तेः प्राधान्य-मित्यत आह” टी॰।
“गौण्या तु समाधिसिद्धिः”

२० सू॰। तत्र प्रणिधानं गौणभक्तिरेव न प्रधानं तया समाधि-सिद्धिरिति न स्मृतिविरोधोऽपीति। भवति च वाक्य-शेषस्तत्रैव (पा॰ द॰

४० ।

४१ पृ॰)
“तस्य वाचकः प्रणवः” [Page4622-b+ 38]
“तज्जपस्तदर्थभावनमिति” टी॰।
“हेया रागत्वादितिचेन्नोत्तमास्पदत्वात् सङ्गवत्”

२१ सू॰। योगशास्त्रप्रस्तावादिदंसूत्रम्। योगशास्त्रोक्तरागत्वाविशेषाद्भक्तिरपि मुमुक्षुणाहेयैव। तथा च सूत्रं पा॰ द॰

७२ पृ॰)
“हेयाः राग-द्वेषाभिनिवेशाः क्लेशाः” इति। एवञ्चेदुच्यते। नैवंवाच्यम् उत्तमास्पदत्वाद्भक्तेः परमेश्वरविषयत्वादितियावत्। न हि रागत्वमात्रेण हेयत्वं किन्तु संसारानु-बन्धिरागत्वेनैव। यथा सङ्गत्वमात्रेण न त्याज्यताकिन्तु असत्सङ्गत्वेन तद्वत्। तथा चेश्वरभक्तिर्हेयारागत्वादित्यत्र संसारान्रबन्धित्वं मोक्षाननुगुणत्वं चो-पाधिः। नच सात्त्विकी सा (गी॰। अ॰

१७ । श्लो॰

४ )
“यजन्ते सात्त्विका देवान्” इत्यादिना सात्त्विकत्वकीर्त्तना-दिति” टी॰।
“तदेव कर्मिज्ञानियोगिभ्य आधिक्यशब्दात्”

२२ सू॰
“तदेव भजनं मुख्यं तस्या भक्तेर्वामुख्यत्वम्। एतत्सर्वथैव निश्चितं यस्मादेवं शब्द्यते (गी॰। अ॰

६ । श्लो॰

४६ ।

४७ )।
“तपस्विभ्योऽधिको योगी ज्ञानि-भ्योऽपि मतोऽधिकः। कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुनः। योगिनामपि सर्वेषां मद्गतेनान्तरा-त्मना। श्रद्धावान् भजते यो भां स मे युक्ततमो मतः” इति। अत्र विशेषणानां तपादीनामाधिक्यनिबन्धनंविशेष्याणामाधिक्यं क्रमादिति मन्तव्यम्। न खल्वङ्गस्यमुख्यादाधिक्यमुपपद्यते। तस्माद्भक्तिः प्रधानमिति। श्रुत्यर्थेनापि तदुत्पत्तिपरिहार्थं पठति” टी॰।
“प्रश्ननि-रूपणाभ्यामाधिक्यसिद्धेः”

२३ सू॰। अत्र कृत्स्रोऽपिद्वादशाध्याय उदाहरणम् (गी॰। अ॰

१२ । भक्तियोग-शब्दे स च अध्यायो दृश्यः। तल्लिङ्गानि च तत्रैवोक्तानि यथा
“तत्परिशुद्धिश्च गम्या लोकवल्लिङ्गेभ्यः”

४३ सू॰।
“यद्यपि जानामीच्छामीत्यादिवदहं भजे अनुरज्ये इत्येवंमानादिना प्रत्यक्षगम्यैव भक्तिस्तथापि तस्या दृढत-रसंस्कारवैशिष्ट्यलक्षणा परिशुद्धिर्न प्रत्यक्षतो निर्णेतुंशक्यते ज्ञानप्रामाण्यवत्। तस्मात् तन्निर्णयो लोक-वज्ज्ञातलिङ्गेभ्य एव। यथा लोकेऽनुरागतारतम्यंतत्कथादाबश्रुपुलकादिविकारैरनुमीयते तद्वदिति। नकेवलं लोकवल्लिङ्गानि भवन्ति महर्षीणां स्मृतिभ्यो-ऽपि तानि लिङ्गानि बाहुल्येन लक्ष्यन्त इत्याह” टीका।
“सम्मानबहुमानप्रीतिविरहेतरविचिकित्सामहिमख्या-तितदर्थप्राणस्थानतदीयतासर्वतद्भावाप्रातिकूल्यादीनि च[Page4623-a+ 38] स्युरन्येभ्यो बाहुल्यात्”

४४ सू॰।
“यथार्जुनस्य सम्मानः।
“प्रत्युत्थान तु कृष्णस्य सर्वावस्थो धनञ्जयः। न लङ्घयतिधर्मात्मा भक्त्या प्रेमणा च सर्वदा”। बहुमानःयथा इ-क्ष्वाकोः (नृसिंहपु॰ अ॰

२५ श्लो॰

२२ )
“पक्षपातेन तन्नाम्निमृगे पद्मे च तादृशि। बभार मेघे तद्वर्णे बहुमानमतिंनृपः”। प्रीतिर्यथा विदुरस्य। (महाभारते। उद्यो॰ अ॰

८८ श्लो॰

३१

१४ )।
“याप्रीतिः पुण्डरीकाक्ष! तवागमनकार-णात्। सा किमाख्यायते तुभ्यमन्तरात्मासि देहिनाम्”। विरहो यथा गोपीनाम् (विष्णुपु॰। अंशे

५ । अ॰

१८ । श्लो॰

१७ )
“गुरूणामग्रतो वक्तुं किं ब्रवीमि न नः क्षमम्। गुरवः किं करिष्यन्ति दग्धानां विरहाग्निना”। इतर-विचिकित्सा यथा श्वेतद्वीपनिवासिनाम्। नारददर्शने-ऽपि विघ्नबुद्धिः यथाचोपमन्योः (महाभरते। अनुशा-अ॰

१४ । श्ला॰

७०

७७ )।
“अपि कीटपतङ्गो वा भवेयंशङ्कराज्ञया। न तु शक्र! त्वया दत्तं त्रैलोक्यमपिकामये”। महिमख्यातौ यथा यमस्य। (नृसिंहपुरा॰अ॰

८ श्लीक॰

१ )
“नरके पच्यमानस्तु यमेन परिभा-षितः। किं त्वया नार्चितोदेवः केशवः खेदनाशनः”। (विष्णुपु॰। अंशे

३ । अ

७ । श्लो॰

१० )।
“स्वपुरुषमभिवीक्ष्यपाशहस्तम्। वदति यमः किल तस्य कर्णमूले। परि-हर मघुसूदनप्रपन्नान् प्रभुरहमन्यनृणां न वैष्णवानाम्” तदर्थप्राणस्थितिर्यथा हनूमतः। तेनैवोक्तम् (वाल्मी-कीये उत्तरकाण्डे। स॰

१०

७ श्लो॰

३१

३१ )।
“यावत्तव कथा कोके विचरिष्यति पावनी। तावत् स्थास्यामिमेदिन्यां तवाज्ञामनुपालयन्”। अथ वा कृतकृत्यानामपिनारदादीनां तदेकाराधनार्थं प्राणधारणम्। अतएवश्रुतिः। (नृसिंहतापिनी। खं॰

६ )
“यं सर्बेदेवा नमन्तिमुमुक्षवो ब्रह्मवादिनश्चेति”। तदीयताभावस्तु वसोरुप-रिचरस्य (महाभारते। शा॰। अ॰

३२

७ । श्ला॰

१२

७१

८ )
“आत्मराज्य धनं चैव कलत्रं वाहनं तथा। एतद्भागतवतं सर्वमिति तत् प्रथते सदा” इति। सर्वभूतेषु तद्वावो यथा प्रह्लदस्य प्रसिद्धः। उक्तञ्च तेनैव। (विष्णुपु॰। अंशे

१ । अ॰

१९ । श्लो॰

५ )
“एवं स-र्वेषु भूतेषु भक्तिरव्यभिचारिणी। कर्तव्या पण्डितैर्ज्ञात्वासर्वभूतमयं हरिम्”। तस्मिन्नप्रातिकूल्यं यथा हन्तु॰मागतेऽपि भगवति भीष्मस्य। तेनैवोक्तम्। (महा-भारते भौष्मप॰। अ॰

५८ श्लो॰

२६

४ )
“एह्येहिदेवेश! जगन्निबाल! नमोऽस्तु ते शार्ङ्गगदासिपाणे!। [Page4623-b+ 38] प्रसह्य मां पातय लोकनाथ। रथादुदग्राद्भुतशौर्य्यसख्ये”। आदिशब्दादुद्धवाक्रूरादिचेष्टितान्यपि द्रष्टव्यानि। यद्यपि द्वेषविपक्षभावादित्यत्रेदमुक्तं तथापि तत्र राग-लिङ्गत्वेनात्र च बहुभक्तिपरिशुद्धिलिङ्गतयेति विशेषइति। ननु स्वामिन्यनुरागिणां तदनुग्रहतारतम्यवत्सुद्वेषेर्ष्यादयो भवन्ति तेऽपि किं लिङ्गानि नेत्याहं टी॰।
“द्वेषादयस्तु नैवम्”

४५ सू॰।
“तदसम्भादेव। यथोक्तं भग-वता द्वैपायनेन महाभारते अनुशा॰। अ॰

१४

९ पृ॰

१४

६ । श्लो॰

७६

९ )
“न क्रोधो न च मात्सर्य्यं नलोभो नाशुभा मतिः। भवन्ति कृतपुण्यानां भक्तानांपुरुषोत्तमे” इति। शिशुपालस्य तु द्वेषात् स्मरणं ततःपरा भक्तिस्ततो मुक्तिरित्येव क्रमः इति” टी॰। अत्रेदमवधेयम् शाण्डिल्यसूत्रादौ
“भक्तेर्ज्ञानाङ्गकत्वंयदुक्तं तद् भक्तेः प्रशंसार्थं तत्त्वज्ञानेनाज्ञाननिवृत्तौअज्ञानकार्य्यानुरागविशेषान्तःकरणवृत्तिरूपाया भक्तेः कुत-स्तरां सम्भवोऽतो ज्ञानस्यैव भक्तिरङ्गम्। अतएव पात॰ सू॰ईश्वरप्रणिधानात् योगसिद्धिरुक्ता
“तपास्वाध्यायेश्वरप्रणि-धानानि क्रियायोगाः” क्रियायोगरूस्येवरप्रणिधानस्ययोगाङ्गत्वमुक्तम् अतएव भक्तिर्ज्ञानाय कल्पते इति मुक्ता-फलकर्त्ता वोपदेव उदाजहार। इयांस्तु भक्तौ रसास्वाद-मुक्तौ सुखस्वरूपतेति। तेन च मुक्ताफलग्रन्थे भक्तिलक्षणं तद्भेदाश्चान्यथोक्तं यथा
“तत्र विष्णुभक्तिर्लक्षणं भेदाश्च।
“तस्मात् केनाप्युपायेनमनः कृष्णे निवेशयेत्” मू॰
“यस्मात् कृष्ण एव कैवल्य-प्रदः यद्वा तस्मात् उपायविशेषस्याविवक्षितत्वात्। के-नापि विहितेन अविहितेन वा उपायेन साध्यसिद्ध्याव-धृतसामर्थ्येन, न तून्मादादिना कृष्णे सत्त्वोपाधौ ब्रह्मणिनिवेशयेत् स्थिरीकुर्य्यात् लिङ्निर्देशस्याविवक्षितत्वात् उ-पायपूर्वं भगवति मनःस्थिरीकरणं भक्तिरिति लक्षणार्थः। न तावदस्यासम्भवः प्रह्रादादौ सुपसिद्धत्वात्। न चकर्मक्षयार्थविधिसिद्ध्यर्थयोः भक्त्योरव्याप्तिः तयोरप्य-तःकरणशुद्धिहेतुत्वेन मनोनिवेशहेतुत्वात्। नाप्यु-न्मादादावभक्तिभूतेऽतिव्याप्तिः तस्यानुपायत्वेन निरस्त-त्वात्। तापि शुद्धायां भक्तौ उपायानिर्देशादुपायेनेतिलक्षणेऽनन्तर्भूतमिति शङ्क्यम्। श्रौताभावेऽप्यानुमानि-कस्य सम्भवात्। सा द्वेधा विहिता अविहिता च। तत्र विहिता
“देवानां गुणलिङ्गानामानुश्रविककर्म-णाम्। सत्त्व एवैकमनसो वृत्तिः स्वाभाविकी तु य। [Page4624-a+ 38] अनिमित्ता भागवती भक्तिः सिद्धेर्मरीयसी जरय-त्याशु या कोशं निगीर्णमनलो यथा”। सा द्वेधा मिश्राशुद्धा च। मिश्रा त्रेधा। कर्ममिश्रा कर्मज्ञानमिश्रा ज्ञान-मिश्रा च। कर्ममिश्रापि त्रेधा। तामसी राजसी सात्त्विकीच तामसी च त्रेधा। हिंसार्था दम्भार्था मात्स्यर्य्यार्थाच।
“अभिसन्धाय यद्धिंसां दम्भं मात्सर्य्यमेव वा। सरम्भीभिन्नदृग्भावमपि कुर्य्यात् स तामसः। राजसी त्रेधा। विषयार्था यशोऽर्था ऐश्वर्य्यार्था च।
“विषयानभिसन्धाययश एश्वर्य्यमेव वा। अर्चायामर्चयेद् यो मां पृथग्भावःस राजसः। सात्त्विकी त्रेधा कर्मक्षयार्था विष्णुप्री-त्यर्था विधिसिद्ध्यर्था च।
“कर्मनिर्हारमुद्दिश्य परस्मिन्वा तदर्पणम्। यजेत् यष्टव्यमिति वा पृथग्भावः ससात्त्विकः”। कर्मज्ञानमिश्रा त्रेधा उत्तमा मध्यमाऽधमाच सत्त्वतारतस्यात्। तत्रोत्तमा
“सर्वभूतेषु यः पश्ये-द्भगवद्भावमात्मनः। भूतानि भगवत्यात्मत्येध भागवतोत्तमः। मध्यमा
“ईश्वरे तदधीनेषु बालिशेषु द्विषत्सु च। प्रेम-मैत्रीकृपोपेक्षा यः करोति स मध्यमः”। अधमा
“अर्चा-यामेव हरये पूजां यः श्रद्धयेहते। न तद्भक्तेषु चान्येषुस भक्तः प्राकृतः स्मृतः”। ज्ञानमिश्रा
“मद्गुणश्रुति-मात्रेण मयि सर्वगुहाशये। मनोगतिरविच्छिन्ना यथागङ्गाम्भसोऽम्बुधौ। लक्षणं भक्तियोगस्य निर्गुणस्यह्युदाहृतम्। अहैतुक्यव्यवहिता या भक्तिः पुरुषो-त्तमे! सालोक्यसार्ष्टिसामीप्यसारूप्यैकत्वमप्युत। दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः। स एवभक्तियोगाख्य आत्यन्तिक उदाहृतः। येनातिवृज्य त्रि-गुणान् मद्भावायोपपद्यते”। अविहिता चतुर्द्धा, काम-जा द्वेषजा भयजा स्नेहजा च।
“कामाद् द्वेषाद् भयात्स्नेहाद् यथा भक्त्येश्वरे मनः। आवेश्य तदथं हित्वाबहवस्तद्गतिं गताः”। भक्तिष्वधिकारिणश्च तत्रोक्ता यथा
“गोप्यः कामाद्भयात् कंसो द्वेषाच्चैद्यादयो नृपाः। सम्ब-न्धाद् वृष्णयः स्नेहात् यूयं भक्त्या वयं विभोः”। सम्बन्धात् स्नेहाद्वृष्णयो यूयं चेत्येकम्। भक्त्या विहितयावयमित्यत्र विभागः।
“निर्विणानां ज्ञानयोगो न्यासिना-मिह कर्मसु। तेष्वनिर्विन्नचित्तानां कर्मंयोगस्तु कर्मि-णाम्। यदृच्छया मत्कथादौ जातश्रद्धस्तु यः पुमान्। न निर्विण्णो नातिसक्तो भक्तियोगोऽस्य सिद्धिदः। य एतान् मे पथो हित्वा भक्तिज्ञानक्रियात्मकान्। क्षुद्रान् कामान् चलैः प्राणैर्जुपन्ते संसरन्ति ते। स्वे[Page4624-b+ 38] स्वेऽधिकारे या निष्ठा सगुणः स प्रकीर्त्तितः”। एवं सतिकर्ममिश्रा नव गृहस्थानाम्। कर्मज्ञानमिश्रास्तिस्रो वन-स्थानाम्। ज्ञानमिश्रैका भिक्षूणाम्। शुद्धैका सर्वेषांउत्पन्नेऽनुरागे। उत्पाद्ये तु यथा संमिश्रा। अवि-हिताश्चतस्रो गोप्यादीनाम् एवमष्टादश भेदाः।
“यावन्नजायेत परावरेऽस्मिन् विश्वेश्वरे द्रष्टरि भक्तियोगः। तावत् स्थवीयः पुरुषस्य रूपं क्रियावसाने प्रयतःस्मरेत्। नैष्कर्म्यमप्यच्युतभाववर्जितम् न शोभतेज्ञानमलं निरञ्जनम्। कुतः पुनः शश्वदभद्रमीश्वरे नचार्पितं कर्म यदप्यकारणम्”। विष्णुभक्त्यङ्गवर्गलक्षणंभेदाश्च तत्रोक्ता यथा
“कायेन वाचा मनसेन्द्रि-यैर्वा बुद्ध्यात्मना वानुसृतः स्वभावात्। करोति यद्यत् सकलं परस्मै नारायणायेति समर्पयेत्तत्” इत्युपक्रमेस एकोनविंशतिधा। षडत्रिंशद्वर्गः

१ । त्रिंशद्वर्गः

२ । षड्विंशतिवर्गः

३ । पञ्चविंशतिवर्गः

४ । चतुर्विशतिवर्गः

५ । विंशतिवर्गः

६ । एकोनविंशतिवर्गः

७ । अष्टादशवर्गः

८ । पञ्चदशवग

९ । त्रयोदशवर्गः

१० । द्वादशवर्गः

११ । एकादशवर्गः

१२ । दशवर्गः

१३ । नववर्गः

१४ । सप्त-वर्गः

१५ । षड्वर्गः

१६ । पञ्चवर्गः

१७ । चतुर्वर्गः

१८ । त्रिवर्गः

१९ । एते च यथोत्तरमन्तरङ्गवर्गाः। तत्र षड्त्रिंशद्वर्गः
“तस्माद्गुरुं प्रपद्येत जिज्ञासुः श्रेयउत्तमम्। शाब्दे परे च निष्णातो ब्रह्मण्युपशमा-श्रयम्

१ । तत्र भागवतान् धर्मात् शिक्षेद्गुर्वात्मदैवतः। अमाययानुवृत्त्या च यैस्तुष्येदात्मदो हरिः। सर्वतोमनसीऽसङ्गमादौ सङ्गञ्च साधुषु। दयां मैत्रीं प्रश्रयञ्चभूतेष्वद्धा यथोचितम्। शौचं तपस्तितिक्षां च मौनंस्वाध्यायमार्जवम्। ब्रह्मचर्यमहिंसां च समत्वं द्वन्द्व-संज्ञयोः। सर्वत्रात्मेश्वरान्वीक्षां कैवल्यमनिकेतताम्। विविक्तं चीरवसनं सन्तीषं येन केनचित्। श्रद्धां भाग-वते शास्त्रे निन्दामन्यत्र चापि हि। मनोवाक्कायदण्डञ्च सत्यं शमदमावपि। श्रवणं कीर्त्तनं ध्यानं हरे-रद्भुतकर्मणः। जन्मकर्मगुणानाञ्च तदर्थेऽखिलचेष्टि-तम्। इष्टं दत्तं तपो जप्तं वृत्तं यच्चात्मनः पियम्। दारान् सुतान् गृहान् प्राणान् यत् परस्मै निवेदनम्। एवं कृष्णात्मनाथेषु मनुष्येषु च सौहृदम्। परिचर्य्याचोभयत्र महत्सु नृषु साधुषु। परस्परानुकथनं पा-वनं भगवद्यशः। मिथोरतिर्मिथस्तुष्टिः निर्वृत्ति-र्मिथ आत्मनः। स्वरन्तः स्वारयन्तञ्च सिथोऽपौधहर-[Page4625-a+ 38] हरिम्। भक्त्या संजातया भक्ता बिभ्रत्युत्पुलकांतनुम्। क्वचिद्रुदन्त्यच्युतचिन्तया क्वचिद्धसन्ति नन्दन्तिवदन्त्यलौकिकाः। नृत्यन्ति गायन्त्यनुशीलयन्त्यजंभवन्ति तुष्णीपरमेत्य निर्वृताः। इति भागवतान् धर्मान्भक्त्या शिक्षेत्तदुत्थया। नारायणपरो मायामञ्जस्तरतिदुस्तराम्” भाग॰

११ ।

३ अ॰। त्रि शद्वर्गः
“सत्यं दया तपःशौचन्तितिक्षेज्या शमोदमः। अहिंसा ब्रह्मचर्य्यञ्च त्यागः स्वाध्याय आर्जवम्। सन्तोषःसमदृक्सेवा ग्राम्येहोपरमः शनैः। नृणां विपर्ययेहेक्षामौनमात्मविमर्शनम्। अन्नाद्यादेः संविभागो भूतेभ्यश्चयथार्हतः। तेष्वात्मदेवताबुद्धिः सुतरां नृषु पाण्डव!। श्रवणं कीर्त्तनं चास्य स्मरणं महतां गतेः। सेवेज्याऽव-नतिर्दास्यं सख्यमात्मसमर्पणम्। नृणामयं परो धर्मःसर्वेषां समुदाहृतः। त्रिंशल्लक्षणवान् साक्षात् सर्वात्मायेन तुष्यति” भाग॰

७ ।

१ अ॰। ( षड्विंशतिवर्गः।
“हरौ गुरौ मयि भक्त्यानुवृत्त्यावितृष्णया द्वन्द्वतितिक्षया च। सर्वत्र जन्तोर्व्यस-नावगत्या जिज्ञासया तपसेहानिवृत्त्या। मत्कर्मभि-र्मत्कथया च नित्यं मद्देवसङ्गाद्गुणकीर्त्तनान्मे। निर्वेर-साम्योपशमेन पुत्रा! जिहासया देहगेहात्मबद्धेः। अध्यात्मयोगेन विविक्तसेवया प्राणेन्द्रियात्माभिजयेन स-म्यक। सच्छ्रद्धया ब्रह्मचर्य्येण शश्वदसंप्रमादेन यमेनवाचाम्। सर्वत्र मद्भावविचक्षणेन ज्ञानेन विज्ञान-विराजितेन। योगेन धृत्युद्यमसत्त्वयुक्तो लिङ्गं व्यपी-हेत् कुशलोऽहमाख्यन्” भाग॰

५ ।

५ अ॰। पञ्चविंशतिवर्गः
“स्वधर्माचरणं शक्त्या विधर्माच्च निव-र्त्तनम्। दैवलब्धेन सन्तोष आत्मविच्चरणार्चनम्। ग्राम्यधर्मनिवृत्तिश्च मोक्षधर्मरतिस्तथा। मितमेध्यादनंशश्वत् विविक्तक्षेमभावनम्। अहिंसा सत्यमस्तेयं या-वदर्थपरिग्रहः। ब्रह्मचर्य्यं यमं शौचं स्वाध्यायःपुरुषार्चनम्। मौनं सदासनजयः स्थैर्य्यं प्राणजयःशनैः। प्रत्याहारश्चेन्द्रियाणां विषयान्मनसो हृदि। धिष्ण्यानामेकदेशे च मनसः प्राणधारणा। वैकुण्ठली-लामिध्यानं समाधानं तथात्मनः। एतैरन्यैश्च पाथभिर्मनो दुष्टमसत्पथे। बुद्ध्या युञ्जीत शनकैर्जितप्राणोह्य-तन्द्रितः” भाग॰

३२

८ अ॰। चतुर्विंशतिवर्गः
“मल्लिङ्गमद्भक्तजनदर्शनस्पर्शनार्चनम्। परिचर्य्या स्तुतिः प्रह्वगुणकर्मानुकीर्त्तनम्। मत्कथा-[Page4625-b+ 38] श्रवणे श्रद्धा मदनुध्यानमुद्धव!। सर्वलोभोपहरणं दास्ये-नात्मनिवेदनम्। मज्जन्मकर्मकथनं मम पर्वानुमोदनम्। गीतताण्डववादित्रगोष्ठीभिर्मद्गृहोत्सवः। यात्रा-बलिविधानं च सर्ववार्षिकपर्वनु। वैदिकी तान्त्रिकीदीक्षा मदीयव्रतधारणम्। ममार्चास्थापने श्रद्धास्वतः संहत्य चोद्यमः। उद्यानोपवनाक्रीडपुरमन्दिर-कर्मणि। समार्जनोपलेपाभ्यां सेकमण्डलवर्त्तनैः। गृहशुश्रूषणं मह्यं दासवद्यदमायया। अमानित्वमद-म्भित्वं कृतस्यापरिकीर्त्तनम्। अपि दीपावलोकं मे नोपयुञ्ज्यान्निवेदितम्। यद्यदिष्टतमं लोके यच्चातिप्रिय-मात्मनः। तत् तन्निवेदयेन्मह्यं तदानन्त्याय कल्पते। मदर्चां सम्प्रतिष्ठाप्य मन्दिरं कारयेदृढम्। पुष्पो-द्यानानि रम्याणि पूजापात्रोत्सवाश्रितान्। पूजादीनांप्रवाहार्थं सदा पर्वण्यथान्वहम्। क्षेत्रापणपुरग्रामान्दत्त्वा मत्सार्ष्टितामियात्। प्रतिष्ठया सार्वभौमं सद्मनाभुवनत्रयम्। पूजादिना ब्रह्मलोकं त्रिभिर्मत्साम्यता-मियात्” भाग॰

११

२७ अ॰। विंशतिवर्गः
“सेवितेनानिमित्तेन स्वधर्मेण महीयसा। क्रियायोगेण शस्तेन नातिहिस्रेण नित्यशः। मद्धिष्ण्य-दर्शनस्पर्शपूजास्तुत्यभिवन्दनैः। भूतेषु मद्भावनया सत्त्वे-नासङ्गमेन च। महतां बहुमानेन दीनानाथानुकम्पया। मैत्र्या चैवात्मतुल्येषु यमेन नियमेन च। आध्यात्मि-कानुश्रवणान्नामसंकीर्त्तनाच्च मे। आर्जवेनार्य्यसङ्गेननिरहङ्क्रियया तथा। मद्धर्माचरणैरेतैः परिसंशुद्धआशयः। पुरुषश्चाञ्जसाभ्येति श्रुतमात्रगुणं हि माम्” भाग॰

३ ।

२९ अ॰। एकोनविंशतिवर्गः
“सच्छ्रद्धया भगवद्धर्मचर्यया जिज्ञासया-ध्यात्मिकयोगनिष्ठया। योगेश्वरोपासनया च नित्यंपुण्यश्रवःकथया पुण्यया च। अथेन्द्रियारामसगोष्ठ्य-तृष्णया तत्सम्मतानामपरिग्रहेण। विविक्तरुच्या परि-तोष आत्मन् विना हरेर्गुणपीयूषपानात्। अहिंसयापारमहंस्यचर्य्यया स्मृत्या मुकुन्दाचरिताग्र्यशीधुना। यमैरकामैर्नियमैरनिन्दया निरीहया द्वन्द्वतितिक्षया च। हरेर्मुहुस्तत्परकर्णपूरगुणाभिधानेन विजृम्भमाणया। भक्त्या ह्यसङ्गः सटसत्यनात्मनि स्यान्निर्गुणे ब्रह्मणि चा-ञ्जसा रितिः” भाग॰

४ ।

२२ अ॰। अष्टादशवर्गः
“मयि भावेन सत्येन मत्कथाश्रवणेन च। सर्वभूतसमत्वेन निर्वैरेणाप्रसङ्गतः। ब्रह्मचर्य्येण मौ-[Page4626-a+ 38] नेन स्वधर्मेण महीयसा। यदृच्छयोपस्थितेन सन्तुष्टोमितभुक् मुनिः। विविक्तशरणः शान्तो मत्रः करुणआत्मवान्। सानुबन्धे च देहेऽस्मिन्न कुवन्नसदाग्रहम्। ज्ञानेन दृष्टतत्त्वेन प्रकृतेः पुरुषस्य च। निवृत्तबुद्ध्यव-स्थानो दूरीभूतान्यदर्शनः। उपलभ्यात्मनात्मानं चक्षुषे-वार्कमात्मदृक्। मुक्तलिङ्गं सदाभासमसति प्रतिपद्यते। सतो बन्धुमसच्चक्षुः सर्वानुस्यूतमद्वयम्” भाग॰



२७ अ॰। पञ्चदशवर्गः
“श्रद्धामृतकथायां मे शश्वन्मदनुकीर्त्तनम्। परिनिष्ठा च पूजायां स्तुतिभिः स्तवनं मम। आदरःपरिचर्य्यायां सर्वाङ्गैरभिवन्दनम्। मद्भक्तपूजाभ्यधिकासर्वभूतेषु मन्मतिः। मदर्थेष्वङ्गचेष्टा च वचसा मद्गुणे-रणम्। मय्यर्पणञ्च मनसः सर्वकामविवर्जनम्। मदर्थेऽर्थपरित्यागो भोगस्य च सुखस्य च। इष्टं दत्तंहुतं भुक्तं मदर्थे यद्व्रतं तपः। एवं धर्मैर्मनुष्याणा-मुद्धवात्मनिवेदनम्। मयि सञ्जायते भक्तिः कोऽन्यो-ऽथास्यावशिष्यते” भाग॰

११ ।

१९ अ॰। त्रयोदशवर्गः
“कुर्य्यात् सर्वाणि कर्माणि मदर्थं शनकैःस्मरन्। मय्यर्पितमनश्चित्तो मद्धर्मात्ममनोरतिः। देशान् पुण्यानाश्रयेत मद्भक्तैः साधुभिः श्रितान्। देवासुरमनुष्येषु मद्भक्ताचरितानि च। पृथक्मत्रेण वा-मह्यं पर्वयात्रामहोत्सवान्। कारयेद्गीतनृत्याद्यै-र्महाराजविभूतिभिः। मामेव सर्वभूतेषु बहिरन्तरथावृतम्। ईक्षेतात्मनि चात्मानं यथास्वममलाशयः। इति सर्वाणि भूतानि मद्भावेन महाद्युते!। सभाजयन्मन्यमानो ज्ञानं केवलमाश्रितः। ब्राह्मणे पुक्कसे स्तेनेब्रह्मण्येऽर्के स्फुलिङ्गके। अक्रूरे क्रूरके चैव समदृक्पण्डितो मतः। विसृज्य स्वयमन्यां स्वां दृशं व्रीडां चदैहिकीम्। प्रणमेद्दण्डवद्भूमावाश्वचाण्डालगोस्यरम्। यावत् सर्वेषु भूतेषु मद्भावो नोपजायते। तावदेवमुपा-सीत वाङ्मनःकायवृत्तिभिः। नरेष्वमीक्ष्ण मद्भावंपुंसो भावयतोऽचिरात्। स्पर्द्धासूयातिरस्काराः साह-ङ्कारा वियन्ति हि” भाग॰

३१ ।

२९ अ॰। द्वादशवर्गः
“गुरुशुश्रूषया भक्त्या सर्वलाभार्पणेन च। सङ्गेन साधुभक्तानामीश्वराराधनेन च। श्रद्धया तत्-कथायाञ्च कीर्त्तनैर्गुणकर्मणाम्। तत्पादाम्बु रुह-ध्यानात् तल्लिङ्गेक्षार्हणादिभिः। हरिः सर्वेषु भूतेषुभगवानास्त ईश्वरः। इति भूतानि मनसा कामैस्तैःसाधु मानयेत्। एवं निर्जितषड्वर्गैः क्रियते भक्ति-[Page4626-b+ 38] रीश्वरे। वासुदेवे भगवति यथा संलभते रतिम्। नि-शम्य कर्माणि गुणानतुल्यान् वीर्य्याणि लीलातनुभिःकृतानि। यदातिहर्षोत्पुलकाश्रुगद्गदं प्रोत्कण्ठउद्गायति रौति नृत्यति। यदाग्रहग्रस्त इव क्वचि-द्धसप्त्वाक्रन्दते ध्यायति वन्दते जनम्। मुहुः श्वसन्वक्ति हरे! जगत्पते! नारायणेत्यात्ममतिर्गतत्रपः। तदा पुमान् मुक्तसमस्तबन्धनस्तद्भावभावानुकृताशयाकृतिः। निर्दग्धवीजानुशयो महीयान् भक्तिप्रयोगेण समेत्यधो-क्षजम्” भाग॰

७७ ।
“एकादशवर्गः
“स वै मनः कृष्णपदारविन्दयोर्वचांसिवैकुण्ठगुणानुकीर्त्तने। करौ हरेर्मन्दिरमांर्जनादिषुश्रुती चकाराच्युतसत्कथोदये। मुकुन्दलिङ्गालयदर्शनेदृशौ तद्भृत्यगात्रस्पर्शेऽङ्गसङ्गमम्। घ्राणं च तत्-पादसरोजसौरभे श्रीमत्तुलस्या रसना तदर्पिता। पादौ हरेः क्षेत्रपदानुसर्पणे शिरो हृषीकेशपदाभि-वन्दने। कामं च दास्येन तु कामकाम्यया यथोत्तम-श्लोकजनाश्रया रतिः” भाग॰

९४ । दशवर्गः
“आयुर्हरति वै पुंसामुद्यन्नस्तं च यन्नसौ। तस्य तैर्यत् क्षणो नीत उत्तमश्लोकवार्त्तया। तरवः किंन जीवन्ति भस्त्राः किं न श्वसन्त्युत। न खादन्ति नलेहन्ति किं ग्रामपशवोऽपरे। श्वविड्वराहोष्ट्रखरेःसंस्तुतः पुरुषः पशुः। न यत्कर्णपथोपेतो जातु नामगदाग्रजः। बिले वतोरुक्रमविक्रमान् न ये शृण्वतःकर्णपुटे नरस्य। जिह्वाऽसती दार्दुरिकेव सूत! न चोप-गायत्युरुगायनाथाः। भारः परं पट्टकिरीटजुष्ट-मप्युत्तमाङ्गं न नमेन्मुकुन्दम्। शावौ करौ नी कुरुतःसपर्यां हरेर्लसत्काञ्चनकङ्कणौ वा। बर्हायिते तेनयने नराणां लिङ्गानि विष्णोर्न निरीक्षतो ये। पादौनृणां तौ द्रुमजन्मभाजौ क्षेत्राणि नानुव्रजती हरेर्यौ। जीवन् शवो भागवताङ्घ्रिरेणुं न जातु मर्त्त्यो-ऽभिलभेत यस्तु। श्रीविष्णुपद्यामनुजस्तुलस्याः श्वसन्शवी यस्तु न वेद गन्धम्। तदश्मसारं हृदयं वतेदंयद्गृह्यमाणैर्हरिनामधेयैः। न विक्रियेताथ यदा वि-कारो नेत्रे जलं नात्ररुहेषु हर्षः” भाग॰



३ अ॰। नववर्गः
“श्रवणं कीर्त्तनं विष्णोः स्मरणं पादसेवनम्। अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम्। इति पुंसा-र्पिता विष्णौ भक्तिश्चेन्नवलक्षणा। क्रियते भगवत्यद्धातन्मन्येऽधीतसुत्तमम्” भाग॰

७ ।

५ अ॰। [Page4627-a+ 38] सप्तवर्गः
“अनिमित्तनिमित्तेन स्वधर्मेणामलात्मना। ती-ब्रया मयि भक्त्या च श्रुतसम्भृतया चिरम्। ज्ञानेनदृष्टतत्त्वेन वैराग्येण बलीयसा। तपोयुक्तेन योगेनतीब्रेणात्मसमाधिना। प्रकृतिः पुरुषस्येह दह्यमानात्वहर्निशम्। तिरोभवित्री शनकैरग्नेर्योनिरिवारणिः” भाग॰

३ ।

२७ अ॰। षड्वर्गः
“वाणी गुणानुकथने, श्रवणे कथायां, हस्तौ चच कर्मसु, मनस्तव पादयो र्नः। स्मृत्यां, शिरस्तव निवासजगत्! प्रणामे, दृष्टिः सतां दर्शनेऽस्तु भगवत्तनूनाम्” भाग॰

१० ।

११ अ॰। पञ्चवर्गः
“शृण्वतां गदतां शवदर्चतां त्वाभिवन्दताम्। नृणां संवदतामन्तर्हृदि भास्यमलात्मनाम्” भाग॰

१० ।

८६ अ॰। चतुर्वर्गः
“तस्मादेकेन मनसा भगवान् सात्वताम्पतिः। श्रोतव्यः कीर्त्तितव्यश्च ध्येयः पूज्यश्च नित्यदाः” भाग॰

१ ।

२ अ॰। त्रिवर्गः
“तस्माद्भारत! सर्वात्मा भगवान् हरिरीश्वरः। श्रोतव्यः कीर्त्तितव्यश्च स्मर्त्तव्यश्चेच्छताऽभयम्” भाग॰

२ ।

१ अ॰
“तस्यात् सर्वात्मना राजन्! हरिः सर्वत्र सर्वदा। श्रो-तव्यः कीर्त्तितव्यश्च स्मर्त्तव्यो भगवान्नृणाम्” भाग॰

२ ।

२ अ॰पुनर्वचनं त्रिवर्गस्यान्तरङ्गतमत्वख्यापनार्थम्”।
“भज इत्येव वै धातुः सेवायां परिकीर्त्तितः। तस्मात्सेवा बुधैः प्रोक्ता भक्तिः साधनभूयसी” गारुडे

२३

१ अ॰। अथ विशेषलक्षणानि। गौतमीयतन्त्रे
“देवतायाञ्चमन्त्रे च तथा मन्त्रप्रदे गुरौ। भक्तिरष्टबिधा यस्यतस्य कृष्णः प्रसीदति। तद्भक्तजनवात्सल्यं

१ पूजायाञ्चनुमो-दंनम्

२ । सुमना अर्चयेन्नित्यं

३ तदर्थे दम्भवर्जनम्

४ । तत्-कथाश्रवणेराग

५ स्तदर्थे चाङ्गविक्रिया

६ । तदनुस्मरणं

७ नित्यं यस्तन्नाम्नोपजीवति

८ । भक्तिरष्टविधा ह्येषायस्मिन् म्लेच्छेऽपि वर्त्तते। स मुनिः सत्यवादी च कीर्त्ति-मान् स भवेन्नरः”। पाद्मे कार्त्तिकमाहात्म्ये यमधू-भ्रकेशसंवादे।
“श्रवणं कीर्त्तनं पूजा सर्वकर्मार्पणं ऋतिः। वरिचर्य्या नमस्कारः प्रेम स्वात्मार्प्रणं हरौ”। तत्रैवोत्तरेशिवपार्वतीसंवादे
“आद्यन्तु वैष्णवं प्रोक्तं शङ्खचक्राङ्कनंहरेः। धारणञ्चोर्द्धपुण्ड्राणां तन्मन्त्राणां परिग्रहः। अर्चनञ्च जपीध्यानं तन्नामस्मरणं तथा। कीर्त्तनं श्र-वणञ्चैव वन्दनं पादसेवनम्। तत्पादोदकसेवा च तन्नि-वेदितभोजनम्। तदीयानाञ्च संसेवा द्वादशीव्रतनिष्ठता। तुलसीरोपणं विष्णोर्देवदेवस्य शार्ङ्गिणः। भक्तिः[Page4627-b+ 38] षोडशधा प्रोक्ता भवबन्धविमुक्तये”। किञ्च।
“दर्शनंभगवन्मूर्त्तेः स्पर्शनं क्षेत्रसेवनम्। आघ्राणं धूपशेषा-देर्निर्माल्यस्य च धारणम्। नृत्यं भगवदग्रे च तथा-वीणादिवादनम्। कृष्णलीलाद्यभिनयः श्रीभाग-वतसेवनम्। पद्माक्षमालादिधृतिरेकादश्यादिजागरः। प्रासादरचनाद्यन्यज्ज्ञेयं शास्त्रानुसारतः। लिखिताभगवर्द्धर्मा भक्तानां लक्षणानि च। तानि ज्ञेयानिसर्वाणि भक्तेर्वै लक्षणानि ह। तेषु ज्ञेयानि गौणानिमुख्यानि च विवेकिभिः। बहिरङ्गान्तरङ्गाणि प्रेम-सिद्धौ च तानि यत्। भेदास्तु विविधाभक्तेर्भक्तभावादि-भेदतः। मुक्ताफलादिग्रन्थेभ्यो ज्ञेयास्तल्लिखनैरलम्”
“प्रेमभक्तौ च सिद्धायां सर्वेऽर्थाः सेवकाः स्वयम्। भग-वांश्चातिवश्यः स्याल्लिख्यतेऽस्याः सुलक्षणम्। अथ प्रेम-भक्तिलक्षणम्। नारदपञ्चरात्रे
“अनन्यममता विष्णौममता प्रेमसङ्गता। भक्तिरित्युच्यतेः भीष्मप्रह्वादो-द्धवनारदैः। प्रेमभक्तेश्च महात्म्यं भक्तेमाहात्म्यकं परम्। सिद्धमेव यतो भक्तेः फलं प्रेमैव निश्चितम्। चिह्नानिप्रेमसम्पत्तेर्बाह्यान्याभ्यन्तराणि च। अथ प्रेमसम्पत्तिचिह्नानि

७ मस्कन्धे प्रह्रादस्य वालानुशासने।
“निशभ्यकर्माणि गुणानतुल्यान् वीर्य्याणि लीलातनुमिः कृ-तानि” इत्यादि

४६

२६ पृ॰ दर्शितम्। एकादशे च कवियोगेश्वरोत्तरे
“शृण्वन् सुभद्राणिरथाङ्गपाणेर्जन्मानि कर्माणि च यानि लोके। गीतानिनामानि तदर्थकानि गायन् विलज्जो विचरेदसङ्गः। एवं-व्रतः सप्रियनामकीत्त्यां जातानुरागो द्रुतचित्त उच्चैः। हसत्यथो रोदिति रौति गायत्युन्मादवन्नृत्यति लोक-बाह्यः”। श्रीभगवदुद्धवसंवादे च
“कथं विना रोमहर्षंद्रवता चेतसा विना। विनानन्दाश्रुकलया शुध्येद्भक्त्याविनाशयः। वाग्गद्गदा द्रवते यस्य चित्तं रोदित्य-भीक्ष्णं हसति क्वचिच्च। विलज्ज। उद्गायति नृत्यतेच मद्भक्तियुक्तो भुवनं पुनाति। यथोक्तभक्त्यशक्तौतु भगवच्चरणाम्बुजम्। शरणागतभावेन कृत्स्नभीतिघ्न-माश्रयेत्” हरिभक्तिविलासे

११ विलासः। उत्तमभ-क्तेर्लक्षणं यथा
“अन्याभिलाषिताशून्यं ज्ञानकर्मा-द्यनावृतम्। आनुकूल्येन कृष्णानुशीलनं भक्तिरुत्तमा”। तथा नारदपञ्चरात्रे।
“सर्वोपाधिविनिर्मुक्तं तत्परत्वेननिर्मलम्। हृषीकेण हृषीकेशसेवनं भक्तिरुच्यते” भाग॰

३ स्क॰ च। सा उत्तमा भक्तिः षडविधा यथा
“क्लेशघ्नी[Page4628-a+ 38] शुभदा मोक्षलघुदाकृत् सुदुर्लभा। सान्द्रानन्दविशेषात्माश्रीकृष्णाकर्षणी च सा”। तत्रास्याः क्लेहघ्नत्वम् क्ले-शस्तु पापं तद्वीजमविद्या चेति ते त्रिधा”। शुभदत्वंयथा
“शुभानि प्रीणनं सर्वजगतामनुरक्तता। सद्गुणासुखमित्यादीन्याख्यातानि मनीषिभिः” मोक्षलघुताकृद्-यथा
“मनागेव प्ररूढायां हृदये भगवद्रतौ। पुरुषा-र्थास्तु चत्वारस्तृणायन्ते समन्ततः”। सुदुर्लभा यथा
“साधनौधैरनासङ्गैरलभ्या सुचिरादपि। हरिणा चा-शुदेयेति द्विधा सा स्यात् सुदुर्लमा। सान्द्रानन्दविशे-षात्मा यथा
“ब्रह्मानन्दो भवेदेष चेत्परार्द्धगुणीकृतः। नैति भक्तिसुखाम्भोधेः परमाणुतुलामपि”। श्रीकृ-ष्णाकर्षणी यथा
“कृत्वा हरिं प्रेमभाजं प्रिय{??}र्गसम-न्वितम्। भक्तिर्वशीकरोतीति श्रीकृष्णाकर्षणी च सा”। सा उत्तमा भक्तिस्त्रिधा यथा
“सा भक्तिः साधनं भावःप्रेमा चेति त्रिधोदिता”। साधनभक्तिर्यथा। कृतिसाध्याभवेत् साध्यभावा सा साधनाभिधा। नित्यसिद्धस्यभावस्य प्राकठ्यं हृदि साध्यता”। भावभक्तिर्यथा
“शुद्धसत्त्वविशेषात्मा प्रेम सूर्य्या शुसाम्यभाक्। रुचिभिश्चित्तमासृण्यकृदसौ भाव उच्यते”। प्रेमभक्ति-र्यथा
“सम्यङ्मसृणितस्वान्तो ममतातिशयाङ्कितः। भावःस एव सान्द्रात्मा वुधैः प्रेमा निगद्यते” भक्तिरसामृत-सिन्धौ पूर्वविभागः।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्ति¦ f. (-क्तिः)
1. Service, worship.
2. Faith, belief.
3. Devotion or attachment to.
4. Part, portion.
5. Fracture, division.
6. Meto- nymy. E. भज् to serve, or भञ्ज् to break, aff. क्तिन् |

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्तिः [bhaktiḥ], f. [भज्-क्तिन्]

Separation, partition, division.

A division, portion, share.

(a) Devotion, attachment, loyalty, faithfulness; तद्भक्तिसंक्षिप्तबृहत्प्रमाणमारुह्य कैलासमिव प्रतस्थे Ku.7.37; R.2.63; Mu.1.15. (b) Faith, belief, pious faith.

Reverence, service, worship, homage.

Texture, arrangement; भवति विरलभक्तिर्म्लानपुष्पोपहारः R.5.74; मणिमरीचिरचितेन्द्रचापभक्तयः विद्याधरपतयः Nāg.5.

Decoration, ornament, embellishment; सुकृतेहामृगाकीर्णं सूत्कीर्णं भक्तिभिस्तथा Rām.2.15.35; आबद्धमुक्ताफलभक्तिचित्रे Ku.7.1,94; R.13.55.75;15.3. अधिरुह्य स वज्रभक्तिचित्रम् (आसनम्) Bu. Ch.5.44.

An attribute.

The being part of, belonging to.

A figurative sense, secondary sense; भक्त्या निष्क्रयवादः स्यात् MS.4.4.28 (भक्त्या here seems to have been used as an indeclinable); cf. also MS.8.3.22.

Predisposition (of body to any disease). -Comp. -गम्य a. accessible by devotion. -गन्धि a. one who has only a small measure of devotion; भक्तिगन्धिरमुनाकलि कर्णः N.21. 32. -चित्रम् drawings; बह्वाश्चर्यं भक्तिचित्रं ब्रह्मणा परिनिर्मितम् Rām.7.15.38.

छेदः a coloured streak, lines of painting or decoration; भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य Me.19.

distinguishing marks of devotion to Viṣṇu.-ज्ञ a. faithfully attached. -नम्र a. making a humble obeisance. -पूर्वम्, -पूर्वकम् ind. devoutly, reverentially. -भाज् a.

devout, fervid.

firmly attached or devoted, faithful, loyal. -मार्गः the way of devotion;i. e. devotion to god, regarded as the way to the attainment of final emancipation and eternal bliss (opp. to कर्ममार्ग and ज्ञानमार्ग). -योगः loving faith, loyal devotion; स स्थाणुः स्थिरभक्तियोगसुलभो निःश्रेयसायास्तु वः Vikr.1.1.

रसः a sense of devotion.

a sentiment of devotion; भक्तिरसस्यैव हास्यशृङ्गारकरुणरौद्रभयानकबीभत्सशान्ताद्भुतवीररूपेणा- नुभवाद् व्यासादिभिर्वर्णितस्य विष्णोर्विष्णुभक्तानां वा चरितस्य नव- रसात्मकस्य श्रवणादिना जनितश्चमत्कारो हि भक्तिरसः Muktāvalī.-रागः affection, deep devotion. -वादः assurance of attachment.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्ति f. distribution , partition , separation RV. Ta1n2d2Br. etc. (See. क्षेत्र-, भङ्गी-भ्)

भक्ति f. a division , portion , share AitBr.

भक्ति f. a division of a सामन्(also called विधि, of which 7 or 5 are enumerated) La1t2y. Page743,2 S3am2k.

भक्ति f. division by streaks or lines Ragh.

भक्ति f. a streak , line , variegated decoration Hariv. Ka1v.

भक्ति f. a row , series , succession , order(647665 त्याind. and 647665.1 ति-तस्ind. in succession) RPra1t.

भक्ति f. ( ifc. )the being a part of( अज्भक्तेः, " on the part of the vowels ") , belonging to Siddh. etc.

भक्ति f. that which belongs to or is contained in anything else , an attribute Nir. Pra1t.

भक्ति f. predisposition (of body to any disease) Car.

भक्ति f. attachment , devotion , fondness for , devotion to (with loc. , gen. or ifc. ) , trust , homage , worship , piety , faith or love or devotion (as a religious principle or means of salvation , together with कर्मन्, " works " , and ज्ञान, " spiritual knowledge " ; See. IW. 326 RTL. 97 ) S3vetUp. Bhag. Ka1v. Pur. etc.

भक्ति f. ( ifc. )assumption of the form of Megh. 61

भक्ति f. often w.r. for भङ्गिor भुक्ति

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--selfless devotion; leads one to self-realisation; methods and results of; destroys रजस् and तमस् qualities; roots out sorrow, illusion and fear; redeems the sinners; फलकम्:F1: भा. I. 2. १२-21; 5. २८; 7. 7; VI. 1. १५.फलकम्:/F superior to कर्म; फलकम्:F2: Ib. X. २३. ३९-50फलकम्:/F one of the five means of concentrating the mind on Hari, (i.e.) (1) काम as in the case of the Gopis; (2) fear and hatred as in the case of Kamsa and शिशुपाल; (3) relationship as in the case of the वृष्णिस्; [page२-523+ ४३] (4) friendship as in the case of युधिष्ठिर and (5) devo- tion as in the case of नारद; वेन does not come under any of these heads; फलकम्:F3: Ib. VII. 1. २९-31.फलकम्:/F but nine-fold according to प्रह्लाद: hearing of Hari, praising of, remembering, serving His holy feet, अर्चन, prostrating, service, friendship and surrender of self; फलकम्:F4: Ib. VII. 5. २३.फलकम्:/F women more devout than men. फलकम्:F5: Ib. X. २३. ३८, ४१-43.फलकम्:/F Three-fold--उत्तम as that of नारद and शुक: middling as that of वसिष्ठ, and inferior; फलकम्:F6: Br. III. ३४. ३७-8; ३६. 3.फलकम्:/F another classification: three-fold, शाङ्ख्य, योग, and ज्ञानम्; a pure man can meditate on the Supreme Being by means of प्रत्याहार finally leading to the supreme knowledge; फलकम्:F7: M. १८३. ४९-55.फलकम्:/F मार्ग to. फलकम्:F8: वा. १०४. १५.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BHAKTI : A Devī born in Drāviḍa deśa (Southern India). Once Devī, along with her two sons, Jñāna and Vairāgya, started on a walking tour to Gokula and Vṛndāvana via Karṇāṭaka, Mahārāṣṭra and Gurjara (Gujarat). During the long tour the mother and her sons became aged. But, as soon as they set foot on Gokula and Vṛndāvana old age quitted Bhakti and she became young again. But, her sons remained old. So the mother requested Nārada to turn them young again. Nārada read out to them the Vedas, the Vedānta (Upaniṣads) and the Bhagavad Gītā, all to no purpose. Bhakti's sons still remained old. Then Sanaka, Sananda and Sanatkumāra asked Nārada to read out the Bhāgavata to them. Nārada did so, and the sons of Bhaktī Devī became young again. (Padma Purāṇa).


_______________________________
*5th word in right half of page 115 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भक्ति&oldid=434009" इत्यस्माद् पुनः प्राप्तिः