भगण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगणः, पुं, (भानां नक्षत्राणां गणः समूहः ।) नक्षत्रसमूहः । शीघ्रगामिनां ग्रहाणामल्पेन कालेन मन्दगामिनां ग्रहाणां महता कालेन पूर्ब्बगत्या पातानां पश्चिमगत्या परिवर्त्तनेनाश्वि- न्यादिरेवत्यन्तनक्षत्रभोगकालः । षष्टिविकलाभिः कला षष्टिकलाभिर्भागस्त्रिंशभागैराशिर्द्वादश- राशिभिर्भगणः । यथा, -- “शीव्रगस्तान्यथाल्पेन कालेन महताल्पगः । तेषान्तु परिवर्त्तेन पौष्णान्ते भगणः स्मृतः ॥ विकलानां कलाषष्ट्या तत्षष्ट्या भाग उच्यते । तत्त्रिंशता भवेद्राशिर्भगणो द्बादशैव ते ॥ युगे सूर्य्यज्ञशुक्राणां खचतुष्करदार्णवाः ४३२०००० । कुजार्किगुरुशीघ्राणां भगणाः पूर्ब्बयायिनाम् ॥ इन्दो रसाग्नित्रित्रीषुसप्तभूधरमागणाः ५७७५३३३६ । दस्रत्र्यष्टरसाङ्काक्षिलोचनानि कुजस्य तु २२९६८३२ ॥ बुधशीघ्रस्य शून्यर्त्तुखाद्रित्र्यङ्कनगेन्दवः १७९३७०६० । बृहस्पतेः खदस्राक्षिवेदषड्वह्रयस्तथा ३६४२२० ॥ सितशीघ्रस्य षट्सप्तत्रियमाश्विखभूधराः ७०२२३७६ । शनेर्भुजङ्गषट्पञ्चरसवेदनिशाकराः १४६५६८ ॥ चन्द्रोच्चस्याग्निशून्याश्विवसुसर्पार्णवा ४८८२०३ युगे । वामं पातस्य सर्पाग्नियमाश्विशिखिदस्रकाः २३२२३८ ॥ इति सूर्य्यसिद्धान्तः ॥ * ॥ अपि च । ग्रहाणां मन्दोच्चानां चलोच्चानां ग्रहपातानाञ्च भगणान् श्लोकषट्केनाह । अर्कशुक्रबुधपर्य्यया विधेरह्नि कोटिगुणिता रदा- ब्धयः । ४३२००००००० एत एव शनिजीव- भूभुवां कीर्त्तिताश्च गणकैश्चलोच्चजाः ॥ १ ॥ खाब्भ्रखाब्भ्रगगनामरेन्द्रियक्ष्माधराद्रिविषया ५७७५३३००००० हिमद्युतेः । युग्मयुग्मशरनागलोचनव्यालषण्णवयमाश्विनोऽ सृजः २२९६८२८५२२ ॥ २ ॥ सिन्धुसिन्धुरनवाष्टगोऽङ्कषट्त्र्यङ्कसप्तशशिनो १७९३६९९८९८४ ज्ञशीघ्रजाः । पञ्चपञ्चयुगषट्कलोचनद्ब्यब्धिषड्गुणमिता ३६४२२६४५५ गुरोर्मताः ॥ ३ ॥ द्विनन्दवेदाङ्कगजाग्निलोचनद्विशून्यशैलाः ७०२२३८९४९२ सितशीघ्रपर्य्ययाः । भुजङ्गनन्दद्विनगाङ्गबाणषट्कृतेन्दवः सूर्य्यसुतस्य पर्य्ययाः १४६५६७२९८ ॥ ४ ॥ खाष्टाब्धयो ४८० ऽष्टाक्षगजेषुदिग्वियद्द्विपाब्धयो ४८०१०५८५८ द्व्यङ्कयमा २९२ रदाग्नयः ३३२ । शरेष्विभा ८५५ स्त्र्यक्षरसाः ६५३ कुषागराः ४१ स्युः पूर्ब्बगत्या तरणेर्मृदुच्चजाः ॥ ५ ॥ गजार्ष्टिभर्गत्रिरदाश्विनः २३२३१११६८ कुभृद्र- साश्विनः २६७ कुद्बिशराः ५२१ क्रमर्त्तवः ६३ । त्रिनन्दनागा ८९३ युगकुञ्जरेषवो ५८४ निशाकराद्व्यस्तगपातपर्य्ययाः ॥ ६ ॥” इति सिद्धान्तशिरोमणिः ॥ * ॥ ग्रहाणां पूर्ब्बगमनेन कल्पे एते पर्य्ययाः । तथा मन्दोच्चानाञ्च प्राग्गत्या एतावन्तः । पातानां पश्चिमगत्या एतावन्तो भवन्ति । अत्रोपपत्तिः सा तु तद्भाषाकुशलेन तत्क्षेत्रसंस्थानज्ञेन शुत- गोलेनैव श्रोतुं शक्यते नान्येन । ग्रहमन्दशीघ्र- पाताः स्वस्वमार्गेषु गच्छन्त एतावतः पर्य्ययान् कल्पे कुर्व्वन्तीत्यत्रागम एव प्रमाणम् । इति तट्टीका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगण¦ पु॰

६ त॰।

१ द्वादशराशीनां समूहे

२ तद्भोगकाले च। यथोक्तं सू॰ सि॰
“पश्चाद्व्रजन्तोऽतिजवान्नक्षत्रैः सततंग्रहाः। जीयमानास्तु लम्बन्ते तुल्यमेव स्वमार्गगाः। प्राग्गतित्वमतस्तेषां भगणैः प्रत्यहं गतिः। परिणाहवशाद्भिन्ना तद्वशाद्भानि भुञ्जते। शीघ्रगस्तान्यथाल्पेनकालेन महताल्पगः। तेषां तु परिवर्त्तेन पौष्णान्ते भगणःस्मृतः। विकलानां कला षष्ठ्या तत् षष्ठ्या भाग उच्यते। तत्त्रिंशता भवेद्राशिर्भगणो द्वादशैव ते” सू॰ सि॰।
“शीघ्रगतिर्ग्रहस्तानि भान्यल्पेन कालेन भुनक्त्यल्पगति-र्ग्रहो बहुकालेन भुनक्ति, तुल्यराश्यादिभोगो मन्दशीघ्र-गतिग्रहयोस्तुल्यकालेन न भवतीति विशेषार्थः। तेषांराशीनां परिवर्त्तेन भ्रमणेन। तुकाराद् ग्रहादिगति-भोगजनितेन भगणः प्राज्ञैरुक्तः। क्रान्तिवृत्ते द्वादश-राशीनां सत्त्वात् तद्भोगेन चक्रभोगसमाप्तेर्यत् स्थान-मारभ्य चलितो ग्रहः पुनस्तत् स्थानमायाति स चक्र-भोगः परिवर्त्तसञ्ज्ञीऽपि द्वादशराशिभोगाद्भगणइत्यर्थः। ननु क्रान्तिवृत्ते सर्वप्रदेशेभ्यः परिवर्त्तसम्भवा-दत्रकः परिबर्त्तादिभूतः प्रदेश इत्यत आह पौष्णान्तइति। सृष्ट्यादौ ब्रह्मणा क्रान्तिवृत्ते रेवतीयोगतारा-सन्नप्रदेशे सर्वग्रहाणां निवेशतित्वात् तदवधिती ग्रह-चलनाच्च पौष्णस्य रेवतीयोताराया अन्ते निकटे प्रदेशेतथा च रेवतीयोगतारासन्नाग्रिमस्थानमेवाद्यन्तावधिभूत-मिति भावः” रङ्गनाथः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगण¦ m. (-णः)
1. The whole multitude of stars.
2. Revolution of the planets in the Zodiac.
3. The Zodiac.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगण/ भ--गण m. = -चक्रib. Var. BhP.

भगण/ भ--गण m. =next Su1ryas. Var.

"https://sa.wiktionary.org/w/index.php?title=भगण&oldid=286741" इत्यस्माद् प्रतिप्राप्तम्