भट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भट, भृतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।) भृतिरिह पोषणम् । कर्म्ममूल्य- मिति गोविन्दभट्टः । भटति भृत्यं स्वामी । इति दुर्गादासः ॥

भट म भाषणे । इति कविकल्पद्रुमः । (भ्वा०- पर०-सक०-सेट् घटादिः ।) म भटयति । भाषणं कथनम् । इति दुर्गादासः ॥

भटः, पुं, (भट्यते भ्रियते इति । यद्वा भटतीति । भट + अच् ।) योद्धा । इत्यमरः । २ । ८ । ६१ ॥ (यथा, भागवते । ८ । १० । ९ । “उष्ट्रैः केचिदिभैः केचिदपरे युयुधुः खरैः । केचिद्गौरमुखैरृक्षैर्द्वीपिभिर्हरिभिर्भटाः ॥” म्लेच्छभेदः । इति हेमचन्द्रः ॥ वीरः । (यथा, नैषधे । १ । १३२ । “पदे पदे सन्ति भटा रणोद्भटा न तेषु हिंसारस एष पूर्य्यते । धिगीदृशन्ते नृपते ! कुविक्रमं कृपाश्रये यः कृपणे पतत्त्रिणि ॥”) पामरविशेषः । इति मेदिनी । टे, २४ ॥ रजनीचरः । इति शब्दरत्नावली ॥ वर्णसङ्कर- विशेषः । यथा, “वर्द्ध्वकाराद्भटो जातो नाटिक्यां वरवाहकः ॥” इति पराशरपद्धतिः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भट पुं।

योद्धा

समानार्थक:भट,योध,योद्धृ

2।8।61।1।1

भटा योधाश्च योद्धारः सेना रक्षास्तु सैनिकाः। सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते॥

अवयव : चोलकादिसन्नाहः,दार्ढ्यार्थं_कञ्चुकोपरि_बद्धः,शिरस्त्राणः,सन्नाहः,परिहितकवचः,ज्याघातवारणः

स्वामी : राजा

सम्बन्धि2 : सहायकः

वृत्ति : युद्धम्

 : रथारूढयोद्धा, सेनारक्षकः, सेनायां_समवेतः, सहस्रभटनेता, सेनानियन्तः, सैन्याधिपतिः, परिहितकवचः, धृतकवचः, आयुधजीविः, सम्यक्कृतशराभ्यासः, लक्ष्यश्चुतसायकः, धनुर्धरः, बाणधारिः, शक्त्यायुधधारिः, यष्टिहेतिकः, पर्श्वधहेतिकः, खड्गधारिः, प्रासायुधिः, कुन्तायुधिः, फलकधारकः, ध्वजधारिः, सहायकः, अग्रेसरः, शनैर्गमनशीलः, अतिवेगगमनशीलः, जङ्घाजीविः, त्वरितवन्मात्रः, जेतुं_शक्यः, जेतुं_योग्यः, जेता, ससामर्थ्यम्_शत्रूणां_सम्मुखं_गतः, बलातिशयवान्, विपुलोरः, यथेष्टं_गमनशिलः, अतिगमनशीलः, शूरः, जयशीलः, युद्धकुशलः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भट¦ भृतौ कर्ममूल्यग्रहणे भ्वा॰ पर॰ सक॰ मेट् भटति। अभाटीत्--अभटीत्। यो भाटयित्वा शकटं नीत्वा चान्यत्रगच्छति। भाटं न दद्यात् दाप्योसाऽवरूढस्यापि भाटकम्” वृद्धमनुः।

भट¦ भाषणे भ्वा॰ पर॰ सक॰ सेट्। भटति अभा(भ)टीत्।

भट¦ पु॰ भट--अच्।

१ योद्धरि अमरः
“तद्भटचातुरीतुरी” नैष॰।

२ म्लेच्छभेदे हेम॰

३ वीरे

४ नीचभेदे

५ रात्रिञ्चरे चमेदि॰

६ इन्द्रवारुण{??}म् (राखालशशा) स्त्री रत्न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भट¦ m. (-टः)
1. A mercenary.
2. A warrior, a soldier, a combatant.
3. A barbarian, or outcaste of a particular tribe.
4. A goblin. E. भट् to maintain, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भटः [bhaṭḥ], [भट्-अच्]

A warrior, soldier, combatant; दीन परिजनकृताश्रुजलो न भटीजनः स्थिरमना विचक्लमे Śi.15.93; तद्भटचातुरीतुरी N.1.12; वादित्रसृष्टिर्घटते भटस्य 22.22; Bk. 14.11.

A mercenary, hired soldier, hireling.

An outcast, a barbarian.

A demon.

N. of a degraded tribe.

A servant, slave. -टा Coloquintida (इंद्रवारुणी). -Comp. -पेटकम् a troop of soldiers. -बलाग्रः a hero; Buddh. (-ग्रम्) an army.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भट m. (fr. भृत)a mercenary , hired soldier , warrior , combatant MBh. Ka1v. etc.

भट m. a servant , slave Ka1vya7d. VP.

भट m. a humpback Gal.

भट m. N. of a serpent-demon Buddh.

भट m. = अर्य-भट(See. below)

भट m. pl. N. of a degraded tribe L. (See. भट्ट, भड, भण्ड; according to some " a person whose father is a Brahman and whose mother is a नटी")

"https://sa.wiktionary.org/w/index.php?title=भट&oldid=288417" इत्यस्माद् प्रतिप्राप्तम्