भटः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भटः, पुं, (भट्यते भ्रियते इति । यद्वा भटतीति । भट + अच् ।) योद्धा । इत्यमरः । २ । ८ । ६१ ॥ (यथा, भागवते । ८ । १० । ९ । “उष्ट्रैः केचिदिभैः केचिदपरे युयुधुः खरैः । केचिद्गौरमुखैरृक्षैर्द्वीपिभिर्हरिभिर्भटाः ॥” म्लेच्छभेदः । इति हेमचन्द्रः ॥ वीरः । (यथा, नैषधे । १ । १३२ । “पदे पदे सन्ति भटा रणोद्भटा न तेषु हिंसारस एष पूर्य्यते । धिगीदृशन्ते नृपते ! कुविक्रमं कृपाश्रये यः कृपणे पतत्त्रिणि ॥”) पामरविशेषः । इति मेदिनी । टे, २४ ॥ रजनीचरः । इति शब्दरत्नावली ॥ वर्णसङ्कर- विशेषः । यथा, “वर्द्ध्वकाराद्भटो जातो नाटिक्यां वरवाहकः ॥” इति पराशरपद्धतिः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भटः [bhaṭḥ], [भट्-अच्]

A warrior, soldier, combatant; दीन परिजनकृताश्रुजलो न भटीजनः स्थिरमना विचक्लमे Śi.15.93; तद्भटचातुरीतुरी N.1.12; वादित्रसृष्टिर्घटते भटस्य 22.22; Bk. 14.11.

A mercenary, hired soldier, hireling.

An outcast, a barbarian.

A demon.

N. of a degraded tribe.

A servant, slave. -टा Coloquintida (इंद्रवारुणी). -Comp. -पेटकम् a troop of soldiers. -बलाग्रः a hero; Buddh. (-ग्रम्) an army.

"https://sa.wiktionary.org/w/index.php?title=भटः&oldid=288421" इत्यस्माद् प्रतिप्राप्तम्