भट्ट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भट्टः, पुं, (भटतीति । भट् + बाहुलकात् तन् ।) जातिविशेषः । भाट इति भाषा । तस्योत्- पत्तिर्यथा, -- “वैश्यायां शूद्रवीर्य्येण पुमानेको बभूव ह । स भट्टो वावदूकश्च सर्व्वेषां स्तुतिपाठकः ॥” इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १० अध्यायः ॥ अपि च । “क्षत्त्रियाद्बिप्रकन्यायां भट्टो जातोऽनुवाचकः ॥” इति युधिष्ठिरपरशुरामसंवादे जातिसङ्कर- लक्षणम् ॥ शिविरान्तिके राज्ञा तस्य वासो देयः । यथा, “ब्राह्मणं क्षत्त्रियं वैश्यं सच्छूद्रं गणकं शुभम् । भट्टं वैद्यं पुष्पकारं स्थापयेत् शिविरान्तिके ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १०१ अः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भट्ट¦ पु॰ भट--तन्। स्तुतिपाठवृत्तियुते (भाट)
१ जातिभेदे
“वैश्यायां शूद्रवीर्य्येण पुमानेको बभूव ह। स भटौ{??}वदूकश्च सर्वेसां स्तुतिपाठकः” ब्रह्मवै॰ ब्रह्मख॰
७ अ॰
“क्षत्रियाद्विप्रकन्यायां भट्टी क्षातोऽनुवाचकः”। तेन-द्विविधा जातिः।
२ स्यामित्वे,
३ वेदाभिज्ञे
३ पण्डिते च। भट्टश्च तुतातभिधः मीमांसकभेदः तन्मतं च
१०
१ पृ॰दर्शितम्। दिग्मात्रं सौगाक्षिभास्करेण दर्शितं यथा
“स च{??}गादिर्वजेत स्वर्गकाम इत्यादि वाक्येन स्व-[Page4635-b+ 38] र्गमुद्दिश्य पुरुषं प्रति विधीयते। तथाहि यजेते-त्यत्रास्त्यंशद्वयं यजिघातुः प्रत्ययश्च। प्रत्ययेऽप्यस्त्यंश-द्वयमाख्यातत्वं लिङ्त्वञ्च। तत्राख्यातत्वं दशलकार-साधारणं, लिङ्त्वं पुनर्लिङ्मात्रे। उभाभ्यामप्यं-शाभ्यां भावनैवोच्यते। भावना नाम भवितुर्भवनानु-कूलोव्यापारविशेषः। सा द्विधा--शाब्दी आर्थी चेति। तत्र पुरुषप्रवृत्त्यनुकूलो भावयितुर्व्यापारविशेषः शाब्दीभावना। सा च लिङंशेनोच्यते लिङश्रवणेऽयं मांप्रवर्त्तयति मत्प्रवृत्यनुकूलव्यापारवानिति नियमेनप्रतीतेः। यद्यस्माच्छब्दान्नियतं प्रतीयते तत् तस्यवाच्य” गामानयेत्यस्मिन् वाक्ये यथा गोशब्दस्य गोत्वम्। स च व्यापारविशेषो लौकिकवाक्ये पुरुषाभिपाय-विशेषः वैदिकवाक्येषु पुरुषाभावात् लिङादिशब्दानिष्ठएव। अतएव शाब्दी भावनेति व्यवह्नियते। सा चभावनांशत्रयमपेक्षते--साध्यं साधनमितिमर्त्तव्य-ताञ्च। किं भावयेत्? केन भावयेत्? कथं भाव-येत्?--इति तत्र साध्याकाङ्क्षायां वक्ष्यमाणांशत्रयो-पेता आर्थी भावना साध्यत्वेनान्वेति, एकप्रत्यय-गस्यत्वेन समानाभिधानश्रुतेः सङ्ख्यादीनामेकप्रत्ययगम्य-त्वेऽप्ययोग्यत्वान्न साध्यत्वेनान्वयः। साधनाकाङ्क्षायांलिङादिज्ञानं करणत्वेनान्वेति, तस्य च करणत्वं नभावनोत्पादकत्वेन तत्पूर्वमपि तस्याः शब्दे सत्त्वात्किन्तु भावनाज्ञापकत्वेन शब्दभावन भाव्यनिर्वर्त्तकत्वेनवा। इतिकर्त्तव्यताकाङ्क्षायामर्थवादज्ञाप्यप्राशस्त्यमिति-कर्त्तव्यत्वेनान्वेति। प्रयोजनेच्छाजनितक्रियाविषयव्यापारआर्थीभावना। सा चाख्यातवाच्या, आख्यातसामान्यस्यव्यापारवाचित्वात्। साप्यंशत्रयमपेक्षते साध्यं साधनमिति-कर्त्तव्यताञ्च। किं भावयेत्? केन भावयेत्? कथं भावयेत्? इति। तत्र साध्याकाङ्क्षायां स्वर्गादिफलं साध्यत्वेनान्वेति। साधनाकाङ्क्षायां यागादिः करणत्वेना-न्वेति, इतिकर्त्तव्यताकाङ्क्षायां प्रयाजाद्यङ्गजातमिति-कर्त्तव्यत्वेनान्वेति”।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भट्ट¦ m. (-ट्टः)
1. A philosopher, a learned man, especially one conver- sant with the philosophical systems.
2. An enemy.
3. Best excell- ent.
4. Authority.
5. A bard in general. E. भट-तन् |
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भट्टः [bhaṭṭḥ], [भट्-तन्]
A lord, master (used as a title of respect in addressing princes).
A title used with the names of learned Brāhmaṇas; भट्टगोपालस्य पौत्रः Māl.1; so कुमारिलभट्टः &c.
Any learned man or philosopher.
A kind of mixed caste, whose occupation is that of bards or panegyrists; क्षत्रियाद्विप्रकन्यायां भट्टो जातो$नुवाचकः । वैश्यायां शूद्रवीर्येण पुमानेको बभूव ह । स भट्टो वाव- दूकश्च सर्वेषां स्तुतिपाठकः ॥ Brav. P.
A bard, panegyrist.
Comp. आचार्यः a title given to a learned man or any celebrated teacher (esp. कुमारिलभट्ट).
a great doctor. -नारायणः N. of the author of वेणीसंहारम्. -प्रयागः = प्रयाग q. v.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
भट्ट m. (fr. भर्तृ)lord , my lord (also pl. and 648108 -पादm. pl. ; according to Das3ar. ii , 64 , a title of respect used by humble persons addressing a prince ; but also affixed or prefixed to the names of learned Brahmans , e.g. केदार-, गोविन्द-भ्etc. , or भट्ट-केदारetc. , below , the proper name being sometimes omitted e.g. भट्ट= कुमारिल-भ्; also any learned man = doctor or philosopher) Ra1jat. Vet. etc.
भट्ट m. N. of a partic. mixed caste of hereditary panegyrists , a bard , encomiast L.
भट्ट m. an enemy (?) W.
भट्ट m. often w.r. for भट
भट्ट mf( आ)n. venerable L.