भद्रासन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भद्रासनम्, क्ली, (भद्राय लोकहिताय आसनम् ।) नृपासनम् । इत्यमरः । २ । ८ । ३१ ॥ (योगि- नामासनविशेषः । यथा, तन्त्रसारे । “सीवन्याः पार्श्वयोर्नंस्येद्गुल्फयुग्मं सुनिश्च- लम् । भद्रासनं समुद्दिष्टं योगिभिः परिकल्पितम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भद्रासन नपुं।

राजासनम्

समानार्थक:नृपासन,भद्रासन

2।8।31।2।2

प्रक्रिया त्वधिकारः स्याच्चामरं तु प्रकीर्णकम्. नृपासनं यत्तद्भद्रासनं सिंहासनं तु तत्.।

स्वामी : राजा

सम्बन्धि1 : राजा

वैशिष्ट्य : राजा

 : सुवर्णकृतराजासनम्

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भद्रासन¦ न॰ भद्राय लोकक्षेमायास्यतेऽत्र आस--आधारे ल्युट्। नृपासने असरः। तल्लक्षखादि वृ॰ स॰

४८ अ॰ उक्तं यथा
“आदावनडुहश्चर्म जरया संहृतायुषः। प्रशस्तलक्षण-भृतः प्राचीनग्रीवमास्तरेत्। ततो वृषस्य योधस्य चर्मरोहितमक्षतम्। सिंहस्याथ ततीयं स्याद्व्याघ्रस्य चततः परम्। चत्वार्य्येतानि चर्माणि तस्यां वेद्यामुपा-स्तरेत्। शुभे मुहूर्त्ते संप्राप्ते पुष्ययुक्ते निशाकरे। भद्रासनमेकतमेन कारितं रुक्मरजतताम्राणाम्। क्षीरतरुनिर्मितं वा विन्यस्तं चर्मणामुपरि। त्रिविध-स्तस्योच्छ्रायो हस्तः पादाधिकोऽर्द्धयुक्तश्च। माण्डलिकानन्तरजित् समस्तराज्यार्थिनां शुभदः। अन्तर्धाय हि-रण्यं तत्रोपविशेन्नरेश्वरः सुमनाः”।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भद्रासन/ भद्रा n. a splendid seat , throne Ya1jn5. MBh. etc.

भद्रासन/ भद्रा n. a partic. posture of a devotee during meditation Sarvad.

"https://sa.wiktionary.org/w/index.php?title=भद्रासन&oldid=290131" इत्यस्माद् प्रतिप्राप्तम्