भल्लातक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भल्लातकः, पुं, (भल्ल इवाततीति । अत + क्वुन् । यद्वा, भल्लात + स्वार्थे कन् ।) वृक्षविशेषः । भेला इति भाषा । तत्पर्य्यायः । अरुष्करः २ भल्लातः ३ शोथहृत् ४ वह्निनामा ५ वीरतरुः ६ व्रणकृत् ७ भूतनाशनः ८ । इति रत्नमाला ॥ भल्लातकी ९ अग्निमुखी १० वीरवृक्षः ११ । इत्यमरः ॥ निर्दहनः १२ तपनः १३ अनलः १४ कृमिघ्नः १५ शैलबीजः १६ वातारिः १७ स्फोटबीजकः १८ पृथग्बीजः १९ धनुर्वृक्षः २० बीजपादपः २१ वह्निः २२ । (यथा, सुश्रुते । सूत्रस्थने । ४६ । “उष्णोदकानुपानन्तु स्नेहानामथ शस्यते । ऋते भल्लातकस्नेहात् स्नेहात्तौवरकात्तथा ॥”) अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । कषाय- त्वम् । उष्णत्वम् । कृमिकफवातोदरानाहमेह- दुर्नामनाशित्वञ्च । तत्फलगुणाः । कषायत्वम् । मधुरत्वम् । कोष्णत्वम् । कफार्त्तिश्रमश्वासानाह- विबन्धशूलजठराध्मानकृमिनाशित्वञ्च । तन्- मज्जगुणाः । विशेषेण दाहशमनत्वम् । पित्ता पहत्वम् । तर्पणत्वम् । वातारोचकहारित्वम् । दीप्तिजनकत्वम् । पित्तनाशित्वञ्च । इति राज- निर्घण्टः ॥ अपि च । “भल्लातकं त्रिषु प्रोक्तमरुष्कोऽरुष्करोऽग्निकः । तथैवाग्निमुखी भल्ली वीरवृक्षश्च शोफहृत् ॥ भल्लातकफलं पक्वं स्वादुपाकरसं लघु । कषायं पाचनं स्निग्धं तीक्ष्णोष्णं छेदि भेद- नम् ॥ मेध्यं वह्निकरं हन्ति कफवातव्रणोदरम् । कुष्ठार्शोग्रहणीगुल्मशोफानाहज्वरक्रमीन् ॥ तन्मज्जा मधुरो वृष्यो वृं हणो वातपित्तहा । वृत्तमारुष्करं स्वादु पित्तघ्नं केश्यमग्निकृत् ॥ भल्लातकः कषायोष्णः शुक्रलो मधुरो लघुः । वातश्लेष्मोदरानाहकुष्ठार्शोग्रहणीगदान् ॥ हन्ति गुल्मज्वरं चित्रवह्निमान्द्यकृमिव्रणान् ॥” इति भावप्रकाशः ॥ अन्यच्च । “भल्लातकफलं स्निग्धं क्रिमिदुर्नामनाशनम् । दन्तस्थैर्य्यकरं ग्राहि कषायं मधुंरञ्च तत् ॥ भल्लातवृन्तं मधुरं कषायं वातकोपनम् ॥” इति राजवल्लभः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भल्लातक¦ mfn. (-कः-की-कं) The marking-nut plant, (Semicarpus anacardi- um.) E. भल्ल an arrow, अत् to resemble, aff. घञ् with कन् added; wounding like a weapon; also भल्लात, भल्ली, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भल्लातक m. id. Bhpr. (also 648951 कीf. L. )

भल्लातक n. the Acajou or cashew-nut , she marking-nut (from which is extracted an acid juice used for medicinal purposes , and a black liquid used for marking linen) MBh. Sus3r. Pur.

"https://sa.wiktionary.org/w/index.php?title=भल्लातक&oldid=291954" इत्यस्माद् प्रतिप्राप्तम्